००९ सीतया आयुधन्यासप्रदानम्

प्रस्थानानन्तरकालिकं सीतोक्तं वर्णयन्नाह–सुतीक्ष्णेनेति । प्रस्थितं रघुनन्दनं भर्तारं हृद्यया मनोहरया स्निग्धया मधुरया वाचा इदमब्रवीत्, सीतेति शेषः ॥ ३।९।१ ॥

तद्वचनाकारमाह–य इति । सुसूक्ष्मेण अतिविचारलभ्येन विधिना यो महान् धर्मः प्राप्यते स धर्मनिवृत्तेन पापाचरणाद्रहितेन पुरुषेण कामजाद्व्यसनाच्छक्यः रक्षितुमिति शेषः । ऽअधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान्ऽ इति भट्टपाठः ॥ ३।९।२ ॥

व्यसनमेव निरूपयन्त्याह–त्रीणीति । कामजानि इच्छाजनितानि व्यसनानि त्रीण्येव भवन्ति ।

तत्स्वरूपमाह–परमं परा अत्युत्कृष्टा मा अर्थाभावे ऽपि मनोहारिका संपत्तिर्यस्मिँस्तन्मिथ्यावाक्यमेकं व्यसनं, तस्मादपि गुरुतरौ उभौ वक्ष्यमाणौ ॥ ३।९।३ ॥

तावेव बोधयन्त्याह–परेति । परदारैः अन्यस्त्रीभिः अभिगमनं संगमः वैरं विना रौद्रता क्रूरकर्मकारित्वं च । तत्र व्यसनद्वयस्यासंभवमाह–हे राघव ते वाक्यं मिथ्या न भूतमत एव न भविष्यति ॥ ३।९।४ ॥

कुत इति । परेषामन्येषां स्त्रीणां धर्मनाशनमभिलषणं मनस्यपि कुतः कस्मादपि हेतोः कदाचन क्वचित्कस्मिँश्चिद्देशे तव नाभूत् न वास्ति न विद्यते भविष्यति वर्तमानसामीप्य इति भविष्यति लट् अत एव हे नृपात्मज त्वं नित्यमेव स्वदारनिरतः । श्लोकद्वयमेकान्वयि ॥ ३।९।५६ ॥

तदेव भङ्ग्यन्तरेणाह–धर्मिष्ठ इति । धर्मिष्ठः वेदोक्तनिखिलधर्मविशिष्टः अत एव सत्यसंघश्चासीति शेषः, अत एव पितुर्निर्देशकारको ऽसि अत एव सर्वं साङ्गं त्वयि धर्मः त्वयि सत्यं च प्रतिष्ठितम् ॥ ३।९।७ ॥

ननूक्तयोर्व्यसनयोरसत्वमपि कथं निश्चितमित्यत आह–तदिति । हे महाबाहो जितेन्द्रियैः पुरुषैः सर्वं साङ्गं तत्पूर्वोक्तं सत्यं धर्मश्च वोढुं नित्यं धारयितुं शक्यम् । ननु मयि कथं वश्येन्द्रियत्वनिश्चय इत्यत आह–तव तु भूतानां चिन्तकानां पुरुषाणां वश्येन्द्रियत्वं वश्यानि इन्द्रियाणि येषां तत्वं, एतेन यदि त्वच्चिन्तनकर्तृ़णां वश्येन्द्रियत्वं तर्हि तव वश्येन्द्रियत्वं किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः, तेन वश्येन्द्रियत्वं विना व्यसनाभावस्यात्यन्ताभावः सूचितः ॥ ३।९।८ ॥

तृतीयव्यसनस्य प्रसक्तिं दर्शयन्ती आह–तृतीयमिति । यद्रौद्रं भयङ्करं निर्वैरं निर्गतं वैरं यस्मिन् तत्परप्राणाभिहिंसनं तृतीयं व्यसनं मोहादविवेकाज्जनैः क्रियते तदिदं व्यसनं ते समुपस्थितं प्रसङ्गात्प्राप्तम् ॥ ३।९।९ ॥

तत्प्राप्तिमुपपादयन्ती आह–प्रतिज्ञात इति । हे वीर ऋषीणां रक्षणार्थाय संयति संग्रामे रक्षसां वधः प्रतिज्ञातः एतन्निमित्तमेव दण्डका इति नाम्ना विश्रुतं ख्यातं वनं भ्रात्रा सह प्रस्थितः । श्लोकद्वयमेकान्वयि ॥ ३।९।१०११ ॥

तत इति । ततः प्रतिज्ञाकरणानन्तरं प्रस्थितं त्वां दृष्ट्वा मम मनः चिन्ताकुलमभवदिति शेषः, अतस्तद्वृत्तं राक्षसवधप्रतिज्ञावृत्तान्तं चिन्तयन्त्या मम हितं निःश्रेयसं कल्याणं भवेत्, मत्प्रार्थनां स्वीकुर्वित्यर्थः । एतेन राक्षसमात्रवधप्रतिज्ञाश्रवणात् अनपराधिविभीषणादिवधविषयकसंशयो जात इति व्यञ्जितम् । नच ऽतपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्ऽ इति प्रतिज्ञावाक्ये तपस्विशत्रुत्वविशिष्टराक्षसवधप्रतिज्ञया विभीषणादिव्यावृत्तिः सिद्धैवेति संशयस्य नावकाश इति वाच्यम्, शत्रुभ्रातृत्वादेः शत्रुत्वाभासस्य संशयबीजत्वात् । नच प्रतिज्ञावाक्ये रण इति सप्तम्यन्तस्योपादानात् रणे आगतान् राक्षसान् हन्तुमिच्छामीत्यर्थात् कथं विभीषणादिसंग्रहसंशय इति वाच्यम्, रणे विद्यमानो ऽहं हन्तुमिच्छामीत्यर्थस्यापि संभवात् विभीषणानुयायिनामपि बहूनां रावणाधीनत्वात् रणागमनसंभवाच्च यत्नविशेषमन्तरा विभीषणागमनस्यापि दुर्वारत्वाच्चेति दिक् ॥ ३।९।१२ ॥

तदेव बोधयितुकामाह–नेति । हि वीर दण्डकान् प्रतिगमनं मे न रोचते । तत्र कारणं

वक्ष्यामि वदन्त्याः मम श्रूयताम् ॥ ३।९।१३ ॥

तद्वचनप्रकारमाह–त्वमिति । बाणधनुष्पाणिः भ्रात्रा सह त्वं वनं दण्डकारण्यं गतः प्राप्तः । ननु तत्र को दोष इत्यत आह–सर्वान् वनचरान् दृष्ट्वा कच्चित् कदाचित् राक्षसवधप्रतिज्ञास्मरणसमये इत्यर्थः, शरव्ययं शरेण व्ययमनपराधिराक्षसवधं त्वं कुर्याः चेत्तन्मे न रोचते इति शेषः, एतेन तन्न कर्तव्यमिति ध्वनितम् ॥ ३।९।१४ ॥

ननु शस्त्रधारिणां प्रायो विवेकध्वंसान्मृगयादिष्विवानपराधिवधे ऽपि को दोष इत्यत आह–क्षत्रियाणामिति । क्षत्रियाणां समीपतः स्थितं धनुः हुताशस्य वह्नेः समीपतः स्थितानि इन्धनानि च भृशमत्यन्तं तेजोबलं तेजसः इतरप्रतापस्य बलमाच्छादकतेज एव उच्छ्रयते वर्धयति नतु विवेकं विनाशयतीत्यर्थः, एतेन शस्त्रग्रहणात् क्षत्रियेतराणामेव विवेकध्वंस इति सूचितम् ॥ ३।९।१५ ॥

तत्रेतिहासं कथयन्ती आह–पुरेति । रतमृगद्विजे रताः मृगाः द्विजाः पक्षिणश्च यस्मिन् तस्मिन् कस्मिँश्चिद्वने पुरा पूर्वं सत्यवान् तपस्वी शुचिर्ब्राह्मणो ऽभवत् ॥ ३।९।१६ ॥

तस्येति । तस्य सत्यवतः तपसो विघ्नमेव कर्तुं भटरूपधृक् खड्गपाणिः शचीपतिरिन्द्रस्तस्याश्रममगच्छत् ॥ ३।९।१७ ॥

तस्मिन्निति । तस्मिन्प्रसिद्धे तदाश्रमपदे तस्य ऋषेः आश्रमपदे आसमन्ताद्भावेन अ न श्रमो यस्मिन् तदेव पदं स्थानं तस्मिन् पुण्ये तपसि तिष्ठतः सत्यवतः सन्यासविधिना इमं स्वकीयं खड्गं समयान्तरे गहीतास्मीति नियोगं कृत्वेत्यर्थः, उत्तमः खड्गः दत्तः इन्द्रेणेति शेषः । अत एव निहितः स्वसमीपे संस्थापितः सत्यवतेति शेषः, संबन्धसामान्यविवक्षया षष्ठी ॥ ३।९।१८ ॥

स इति । तच्छस्त्रमनुप्राप्य आत्मनः प्रत्ययं विश्वासं रक्षन् न्यासरक्षणतत्परः स सत्यवान् वेन विहरति ॥ ३।९।१९ ॥

यत्रेति । यत्र यदा मूलानि उपादातुं ग्रहीतुं गच्छति तदा तं खड्गं विना न याति ॥ ३।९।२० ॥

नित्यमिति । शस्त्रं नित्यं परिवहन् स तपोधनः क्रमेण तपसि निश्चयं त्यक्त्वा स्वां बुद्धिं रौद्रां जनभयदात्रीं चकार ॥ ३।९।२१ ॥

तत इति । ततो ऽनन्तरं शस्त्रस्य संवासाद्धेतोः रौद्राभिरतः भयङ्करकर्मनिरतःः अत एव धर्मकर्षितः दूरीकृतधर्मः स सत्यवान् मुनिः नरकं जगाम ॥ ३।९।२२ ॥

एवमिति । शस्त्रसंयोगः कारणं यस्मिन् तद्वृत्तं वृतान्तमेतन्निरूपितमित्यर्थः । एवं शस्त्रसंयोगः अग्निसंयोगवद्धेतुसंयुक्तक्षत्रियेतरविनाशे कारणमुच्यते ॥ ३।९।२३ ॥

स्नेहादिति । स्नेहात्त्वद्विषयकानुरागाद्धेतोः बहुमानादतिसत्कारं प्रापय्य त्वां स्मारये न शिक्षये अतः गृहीतधनुषा त्वया सा अनपराधिहिंसा कथंचन न कार्या ॥ ३।९।२४ ॥

बुद्धिरिति । वैरं विना राक्षसान् हन्तुं बुद्धिर्न कार्येति शेषः । तत्र हेतुः–हे वीर अपराधं विना हन्तुं न मंस्यते प्रशस्तत्वेन न निश्चेष्यति कश्चिद्विद्वानिति शेषः ॥ ३।९।२५ ॥

ननु धनुर्धारणं किमर्थमित्यत आह–क्षत्रियाणामिति । नियतात्मनां नियमितान्तःकरणानां क्षत्रियाणां धनुषा आर्तानामभिरक्षणं दुष्टभर्त्सनादिना रक्षाकार्यम्, एतेन तस्या दयालुतातिशयः सूचितः ॥ ३।९।२६ ॥

निवृत्तानां तु प्राकृतक्षत्रियाणामपि शस्त्रधारणमनुचितमित्याह–क्व चेति । क्षात्रं क्षत्रियसंबन्धि शस्त्रं क्व तपश्च क्व इदं धर्मद्वयस्वीकारः व्याविद्धं विरुद्धमस्माभिर्निश्चीयते इति शेषः । अतो देशधर्मः प्राकृतविलक्षणा ऽयोध्योचितरीतिः सद्वारकाद्वारकपालनं युज्यतां क्रियताम् ॥ ३।९।२७ ॥

प्राकृतानां तपश्चरणसमये शस्त्रधारणे दोषमाह–कदर्येति । शस्त्रसेवनादसमये शस्त्रधारणात् कदर्यकलुषा कृपणकलुषबुद्धिसदृशी बुद्धिर्जायते यथाल्पस्यापि धनस्य रक्षणे कृपणानां चित्तवृत्तिः तथा निवृत्तानामपि स्यादिति तात्पर्यम् । ननु मया त्विदानीं किंचित् स्मर्यत इत्यत आह–हे क्षत्र क्षतात्त्रातः अयोध्यायां गत्वा धर्मं चरिष्यसि साक्षात् परंपरया चोपदेक्ष्यसि इदानीं चोपदेशयोग्यजनासन्निधानान्न स्मर्यत इति तात्पर्यम् ॥ ३।९।२८ ॥

ननु निवृत्तमार्गस्यैव श्रेष्ठत्वे ऽस्माभिरपि स एव स्वीक्रियतामित्यत आह–अक्षयेति । त्वं यदि राज्यं संन्यस्य त्यक्त्वापि मुनिः रक्षामननशीलः सन् निरतः रक्षणै प्रवृत्तो भवेः तदा मम श्वश्रूश्वशुरयो रक्षया प्रीतिर्भवेत् ॥ ३।९।२९ ॥

ननु निवृत्तिरेव श्रेष्ठा चेत्तत्स्वीकारादेव तयोरधिका प्रीतिर्भविष्यतीत्यत आह–धर्मादिति । धर्मात्कालोचितस्वस्वोचितानुष्ठानादर्थः प्रभवति तस्मादेव सुखं प्रभवते अतः इदं जगत् धर्मसारं धर्म एव सारो यस्मिन् तत्, एतेन निखिलाधीशेन रक्षैव कर्तव्येति सूचितम् ॥ ३।९।३० ॥

धर्म एव महात्मनां प्रवृत्तिरिति बोधयन्ती आह–आत्मानामिति । तैस्तैर्वनस्थोचितैर्नियमैरात्मानं मनः प्रयत्नतः विचारेण कर्षयित्वा स्थिरीकृत्येत्यर्थः, निपुणैः पुरुषैर्धर्मः प्राप्यते तस्मादेव सुखं लभत इत्यर्थः, सुखात्सुखाभासोपायभूतात्कर्तव्याचरणात्सुखं न लभते ॥ ३।९।३१ ॥

नित्यमिति । शुचिमतिः अनपराधिहिंसारहितचित्तः त्वं धर्मं चर । ननु को धर्म इत्यत आह–तुभ्यं तव सर्वं तत्त्वतो विदितं तेन स्वोचितं विचार्य कुर्विति व्यञ्जितम् ॥ ३।९।३२ ॥

नन्वेवं चेत्त्वया किमर्थमुच्यते इत्यत आह–स्त्रीति । स्त्रीचापलात्स्त्रीनिष्ठस्वाभाविकचापल्याद्धेतोः एतदुदाहृतं कथितं तव धर्मं वक्तुं कः समर्थः न को ऽपीत्यर्थः, अतः यद्रोचते तत्कुरु चिरेण मा विलम्बो न कार्यः ॥ ३।९।३३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे नवमः सर्गः ॥ ३।९ ॥