००८ दण्डकवननिष्क्रमणम्

सुतीक्ष्णकृतसत्कारानन्तरकालिकं रामवृत्तान्तमाह–राम इति । सुतीक्ष्णेनाभिपूजितो रामस्तु तत्र सुतीक्ष्णाश्रमे निशां परिणाम्य शयित्वा प्रभाते प्रत्यबुध्यत ॥ ३।८।१ ॥

उत्थायेति । सीतया सह राघवः यथाकालमुत्थाय उत्पलगन्धिना तोयेन उपस्पृश्य स्नात्वा अवर्ततेति शेषः । ऽउपास्पृशत्ऽ इति भूषणपाठः तत्पक्षे क्रियाशेषस्य न प्रयोजनम् ॥ ३।८।२ ॥

अथेति । काल्ये प्रातःकाल्ये वने वैदेह्यादयः अग्निं सुरांश्र विधिवदभ्यर्च्य उदयन्तं दिनकरं दृष्ट्वा सुतीक्ष्णमभिगम्य तत्संमुखे प्राप्य अब्रुवन् । श्लोकद्वयमेकान्वयि ॥ ३।८।३४ ॥

तद्वचनाकारमाह–सुखेति । पूज्येन सर्वैः पूजनीयेन त्वया पूजिताः सत्कृताः सुखोषिताः सुखं निवासिता वयम् आपृच्छामः गमनाय प्रार्थयामः, तत्र हेतुः मुनयो नो ऽस्मांस्त्वरयन्ति अतः प्रयास्यामः ॥ ३।८।५ ॥

त्वरामहे इति । पुण्यशीलानामृषीणां कृत्स्नमाश्रममण्डलं द्रष्टुं वयं त्वरामहे ॥ ३।८।६ ॥

अभीति । विशिखैर्धूमरहितैः पावकैरिव एभिर्मुनिपुङ्गवैः सह अभ्यनुज्ञातुं त्वदाज्ञां ग्रहीतुमिच्छामः ॥ ३।८।७ ॥

अयमेवाज्ञापनकाल इति बोधयन्नाह–अविषह्येति । अमार्गेण अन्याय्येन आगतां लक्ष्मीं संपत्तिं प्राप्य अन्वयवर्जितः पूर्वं नित्यं लक्ष्मीसंबन्धशून्यः पुरुष इव अविषह्यातपः न विषह्यः आतपो यस्य स सूर्यो यावन्नातिविराजते तपतीत्यर्थः, तावदेव गन्तुमिच्छामहे इत्युक्त्वा मुनेः चरणौ ववन्दे । श्लोकद्वयमेकान्वयि ॥ ३।८।८९ ॥

ताविति । चरणौ संस्पृशन्तौ तौ रामलक्ष्मणौ उत्थाप्य गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत् ॥ ३।८।१० ॥

तद्वचनाकारमाह–अरिष्टमित्यादिभिः । छायया इव अनुवृत्तया अनुवर्तनशीलया सीतया सार्धमारिष्टं विघ्नरहितं पन्थानं त्वं गच्छ ॥ ३।८।११ ॥

पश्येति । तपसा परमात्मविचारेण भावितः परिशीलितः आत्मा परमात्मा यैस्तेषां दण्डकारण्यवासिनामाश्रमपदं श्रमनिवर्तकं स्थानं पश्य ॥ ३।८।१२ ॥

सुप्राज्येति । सुप्राज्यानि बहुलानि फलमूलानि येषु तानि प्रशस्तमृगयूथानि प्रशस्तभृगसमूहविशिष्टानि वनानि ॥ ३।८।१३ ॥

प्रसन्नानि स्वच्छानि सलिलानि जलानि येषां तानि कारण्डवविकीर्णानि कारण्डवैर्जलकुक्कुटैः विकीर्णानि व्याप्तानि तटाकानि च सरांसि च । अत्र स्नोतोरहितानि तटाकानि तत्सहितानि सरांसीति न पौनरुक्त्यम् ॥ ३।८।१४ ॥

गिरिप्रस्रवणानि गिरिनिर्झरान् च मयूराभिरुतानि रमणीयान्यरण्यानि च द्रक्ष्यसे । श्लोकत्रयमेकान्वयि ॥ ३।८।१५ ॥

गम्यतामिति । तमुक्तसमूहं दृष्ट्वा आश्रमं प्रति पुनरागन्तव्यम् ॥ ३।८।१६ ॥

एवमिति । एवमुक्तः सुतीक्ष्णेनोपदिष्टः काकुत्स्थो रामः तथेत्युक्त्वा मुनिं प्रदक्षिणं कृत्वा प्रस्थातुमुपचक्रमे ॥ ३।८।१७ ॥

तत इति । ततः प्रस्थानोपक्रमोत्तरकाले शुभतरे तूणी बाणसहितेषुधी धनुषी च खड्गौ च ततः तस्मिन्स्थले सीता भ्रात्रोर्भ्रातृभ्यां ददौ ॥ ३।८।१८ ॥

आबध्येति । तूणी आबध्य सस्वने चापे च आदाय गन्तुमाश्रमादुभौ निष्क्रान्तौ ॥ ३।८।१९ ॥

शीघ्रमिति । धृतचापासी रामलक्ष्मणौ महर्षिणा शीघ्रमाज्ञातौ ॥ ३।८।२० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टमः सर्गः ॥ ३।८ ॥