रामवृत्तान्तमाह–राम इत्यादिभिः । भ्रात्रा सीतया च सहितो रामः सुतीक्ष्णस्य आश्रमपदं श्रमनिवर्तकं स्थानं जगाम ॥ ३।७।१ ॥
स इति । स रामः दूरमध्वानं गत्वा बहूदकाः नदीः तीर्त्वा महामेरुमिवोन्नतं शैलं ददर्श ॥ ३।७।२ ॥
तत इति । ततः पर्वतदर्शनानन्तरं विविधैर्द्रुमैः सन्तत व्याप्तं तत्काननं वनं राघवौ विविशतुः ॥ ३।७।३ ॥
प्रविष्ट इति । बहवः पुष्पफलद्रुमाः यस्मिन् तत्काननं प्रविष्टो राघवः चीरमालापरिष्कृतं खण्डपटसमूहयुक्तमाश्रममेकान्ते ददर्श ॥ ३।७।४ ॥
तत्रेति । तत्र तस्मिन् आश्रमे मलपङ्कजधारिणं मस्य परमात्मनो लः पूर्वं ग्रहणं यस्मिन् तदेव पङ्कजं कमलं तद्धारिणं तत्राश्रमे आसीनं तपोधनं सुतीक्ष्णं रामो विधिवदभाषत ॥ ३।७।५ ॥
तद्भाषणप्रकारमाह–राम इति । भवन्तं द्रष्ठुमागतः प्राप्तो रामो ऽहमस्मि तत्तस्माद्धेतोः मा मामभिवद सम्यक् ब्रूहि ॥ ३।७।६ ॥
स इति । ततो रामवचनश्रवणानन्तरं स सुतीक्ष्णः रामं निरीक्ष्य बाहुभ्यां समाश्लिष्य च अब्रवीत् ॥ ३।७।७ ॥
तद्वचनाकारमाह–स्वागतमिति । हे रघुश्रेष्ठ ते स्वागतम् । तत्र हेतुः–यतस्त्वया अयमाश्रमः समाक्रान्तः तस्मात्सांप्रतमिदानीं सनाथ इवास्मीति शेषः । इदानीं सनाथ इवेत्युक्त्या सर्वकालं स्वसनाथत्वं व्यञ्जितम् ॥ ३।७।८ ॥
प्रतीक्षमाण इति । हे महायशः त्वां प्रतीक्षमाण एवाहं देहं त्यक्त्वा देवलोकं नारोहे ॥ ३।७।९ ॥
ननु त्वया मदागमनं कथं ज्ञातमित्यत आह–चित्रकूटमिति । राज्यभ्रष्टः त्यक्तराज्यस्त्वं चित्रकूटमुपादाय प्राप्य स्थितस्त्वं मया श्रुतो ऽसि । ननु कस्मात् श्रुत इत्यत आह–देवरात इन्द्र इहोपयातः, एतेन तस्मादेव श्रुतमिति ध्वनितम् ॥ ३।७।१० ॥
ननु स किमर्थमागत इत्यत आह–उपागम्येति । मे देवो मम पूज्यः सुरेश्वरः उपागम्य प्राप्य मम पुण्येन कर्मणा सर्वान् लोकान् जितान् मदधीनान् आह ॥ ३।७।११ ॥
तेष्विति । मया तपसा जितेषु देवर्षिजुष्टेषु देवर्षिभिः सेवितेषु लोकेषु मत्प्रसादात् मत्प्रीतिमुपलभ्य त्वं विहरस्व ॥ ३।७।१२ ॥
तमिति । उग्रं तपो यस्य तमत एव संदीप्तमतिप्रकाशवन्तं सत्यवादिनं तं महर्षिं ब्रह्माणं वासव इव रामः प्रत्युवाच ॥ ३।७।१३ ॥
तद्वचनाकारमाह–अहमिति । हे महामुने प्रदिष्टं भवदाज्ञा यदि स्यात्तदा इति शेषः, लोकान् भवत्तपोर्जितस्वर्गादीन् इहैव हरिष्यामि प्रापयिष्यामि । तत्र हेतुः यतः इह आवासं त्वया सह निवासमहमिच्छामि ॥ ३।७।१४ ॥
सहवासे हेतुमाह–भवानिति । सर्वत्र वेदेषु शास्त्रेषु च कुशलो निपुणः इति गौतमेन गौतमगोत्रेण महात्मना शरभङ्गेन आख्यातं कथितम् ॥ ३।७।१५ ॥
एवमिति । रामेण एवमुक्तः अत एव महता हर्षेण युतः लोकविश्रुतः प्रख्यातो महर्षिः सुतीक्ष्णः मधुरं वाक्यमब्रवीत् ॥ ३।७।१६ ॥
तद्वचनाकारमाह–अयमिति । हे राम ऋषिसंघानामनुचरितमनुचरणं यस्मिन् सः अयमाश्रमो गुणवान् इति अतः अयमेव रम्यताम् ॥ ३।७।१७ ॥
मृगानुपद्रवकारिणो ज्ञात्वा ऽयं न हन्यात् नापि बिभेतु चेति कृपातिवात्सल्याभ्यामुपेतो मुनिर्मृगवृत्तमाह–इममिति । महीयसः अतिमहान्तः अकुतोभयाः मृगसंघाः इममाश्रममागम्य अहत्वा ऋषिभ्यः पीडामप्रदाय लोभयित्वा स्वरूपगत्यादिविशेषैः चित्तवैचित्र्यमुत्पाद्य प्रतिगच्छन्ति ॥ ३।७।१८ ॥
नेति । अन्यत्र इव अत्र मृगेभ्यः मृगलोभनेभ्यः अन्यो दोषो न भवेत् इति विद्धि जानीहि तेन त्वया न भेतव्यं न वा हन्तव्या इति सूचितम् । न हि सौन्दर्यादिना लोभोत्पादनेन वधार्हा इति तात्पर्यम् । अर्धं पृथक्–तदिति । लक्ष्मणाग्रजो रामः तस्य महर्षेः सुतीक्ष्णस्य तद्वचनं श्रुत्वा सशरं शरसहितं धनुः विगृह्य उत्थाप्य वचनमुवाच ॥ ३।७।१९ ॥
तद्वचनाकारमाह–तानिति । समागतान् तान् क्रूरान् मृगसंघान् निशितधारेण आनतपर्वणा शरेण हन्याम् । अर्धद्वयमेकान्वयि ॥ ३।७।२० ॥
तत्र हेतुः–यत्र यत्कृदुपद्रवे भवान् अभिषज्येत पीढ्येत ततः कृच्छ्रतरं क्लेशाधिक्यं किं स्यात्, एतेन मुनीनां खेदहेतवस्तदाज्ञया हन्तव्या एवेति रामाभिप्रायः सूचितः ॥ ३।७।२१ ॥
मृगकर्मकवधवचनश्रवणानन्तरं तृष्णींभावादिना मृगवधस्य मुनेरनभिप्रेतत्वं विज्ञायाहएतस्मिन्निति । एतस्मिन् मृगोपद्रुते आश्रमे चिरं वासं न समर्थये । उपरममतिनिवृत्तचित्तं तं महर्षिमेवमुक्त्वा रामः संध्यामुपागमत् संध्याकालः प्राप्नोदित्यर्थः ॥ ३।७।२२ ॥
अन्वास्येति । पश्चिमां संध्यामन्वास्य विधिवदुपास्य तत्र सुतीक्ष्णस्य आश्रमे वासमकल्पयत् ॥ ३।७।२३ ॥
तत इति । संध्यानिवृत्तौ सत्यां रजनीं रात्रिं समीक्ष्य महात्मा सुतीक्ष्णः तापसयोग्यमन्नं पुरुषर्षभाभ्यां ताभ्यां रामलक्ष्मणाभ्यां सुसत्कृत्य ददौ ॥ ३।७।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तमः सर्गः ॥ ३।७ ॥