शरभङ्गस्वर्गमनानन्तरकालिकं वृत्तान्तमाह–शरभङ्ग इत्यादिभिः । शरभङ्गे दिवं प्राप्ते सति समागताः शरभङ्गदर्शनार्थं प्राप्ता मुनिसङ्घाः ज्वलिततेजसं राममभ्यगच्छन्त संमुखं प्राप्नुवन् ॥ ३।६।१ ॥
वैखानसा इति । वैखानसाः प्रजापतिनखसंजाताः, वालखिल्याः प्रजापतिलोमजाः “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतिः । ये तत्र वालाः केशाः संप्रक्षालाः परमात्मनश्चरणप्रक्षालनाज्जाताः, मरीचिपाः किरणमात्रपानशीलाः, अश्मकुट्टाः अश्मकुट्टितपानभोजनाः आमान्नभक्षका इत्यर्थः, पत्राहाराः पत्रमात्राहारनिरताः, बहवो दन्तोलूखलिनः दन्ता एव उलूखलानि तद्वन्तः उन्मज्जकाः कण्ठपरिमितजले स्थितिरूपतपोनिरताः, गात्रशय्याः गात्रावयवानि व्याघ्रचर्मादीनि शय्या येषां ते, अशय्याः आस्तरणरहितस्थितिमन्तः, अनवकाशिकाः अहर्दिवं कर्मनिरतत्वादवकाशरहिताः ॥ ३।५।२३ ॥
मुनयः वेदतात्पर्यमननशीलाः, सलिलाहाराः जलमात्राहारवन्तः, वायुभक्षाः वायुमात्रभक्षकाः, आकाशनिलयाः अनावृत्तदेशनिवासिनः, स्थण्डिलशायिनः भूमिमात्रशयनाः ॥ ३।६।४ ॥
ऊर्ध्ववासिनः उन्नतशिखरादिमात्रस्थितिमन्तः, दान्ता नियमितकरणाः, आर्द्रपटवाससः अहर्दिवं जले स्थितत्वात् आर्द्रवस्त्रमात्रवसानाः, सजपाः जपशीलाः, तपोनिष्ठाः परमात्मविचारनिरताः पञ्चतपोन्विताः ग्रीष्मे पञ्चाग्निमध्ये स्थिताः ॥ ३।६।५ ॥
ब्राह्म्या श्रिया परमात्मोपासनजनितशोभया युक्ताः, दृढः परिपक्वो यो योगः परमात्मस्मरणं तेन समाहिताः एकाग्रचित्ताश्च तापसाः शरभङ्गाश्रमे राममभिजग्मुः । श्लोकपञ्चकमेकान्वयि ॥ ३।६।६ ॥
अभीति । समागता ऋषिसंघाः परमधर्मज्ञमत एव धर्मभृतां वरं स्वीकारकर्तारं राममभिगम्य संमुखं प्राप्य ऊचुः ॥ ३।६।७ ॥
तद्वचनाकारमाह–त्वमिति । अस्य इक्ष्वाकुकुलस्य पृथिव्याः सकलवसुधायाश्च देवानां मघवानिव प्रधानः पालकः नाथः स्वामी च त्वमसीति शेषः ॥ ३।६।८ ॥
विश्रुत इति । यस्त्वं यशसा विक्रमेण च त्रिषु ऊर्द्धाधोमध्यवृत्तिषु श्लोकेषु विश्रुतः ख्यातः तस्मिन् त्वयि पितृव्रतत्वं पितृप्रतिज्ञापालकत्वं सत्यं च पुष्कलो ऽत्यधिकोधर्मश्चास्तीति शेषः ॥ ३।६।९ ॥
त्वामिति । महात्मानं त्वामासाद्य प्राप्य अर्थित्वात्प्रयोजनतन्त्रत्वात् वक्ष्यामः तन्नो ऽस्माकं वचनं क्षन्तुमर्हसि, एतेनार्थिनां वक्तव्यावक्तव्यविवेको न भवतीति सूचितम् ॥ ३।६।१० ॥
तद्वचनाकारमाह–अधर्म इत्यादिभिः । हे नाथ यो भूपतिः बलिषड्भागं प्रजासमर्पितोपहारभूतषष्ठांशं हरेत् गृह्णीयात् प्रजास्तु पुत्रवन्नैव रक्षति तस्य भूपतेर्महानधर्मो
भवति । प्रजा इति शेषः ॥ ३।६।११ ॥
युञ्जान इति । स्वान्प्राणान् सर्वेन्द्रियाणि युञ्जानः प्रजारक्षणे नियोजयन् नित्ययुक्तः सदैकाग्रचित्तः यः पुरुषः प्राणैरिव इष्टान्वाञ्छितान्सुतान् इव सर्वान् विषयवासिनः रक्षन् सन् आस्ते इति शेषः, सः पुरुषः बहुवार्षिकीं भरताद्यनेकखण्डसंबधिनीं शाश्वतीं नित्यां कीर्तिं प्राप्नोति, ब्रह्मणः स्थानमासाद्य प्राप्य तत्रापि महीयते पूज्यते च । श्लोकद्वयमेकान्वयि ॥ ३।६।१२१३ ॥
ननु बलिहरणहेतुकैव रक्षा चेत् अदण्डानाम् ऋषीणां रक्षा कथं स्यादित्यत आह–यदिति । मूलफलाशनो मुनिः यद्यपरं धर्मं करोति तत्र तस्मिन्धर्मेण प्रजारक्षतो राज्ञः चतुर्भागः चतुर्थांशो ऽस्तीति शेषः, एतेन ऋषिभ्यो ऽपि राजा स्वांशं प्राप्नोत्येवेति सूचितम् ॥ ३।६।१४ ॥
स इति । ब्राह्मणभूयिष्ठः ब्राह्मणा भूयिष्ठा अधिका यस्मिन् सो ऽयं त्वन्नाथो वानप्रस्थगणः राक्षसैर्भृशं इत्यते तेन ते निवारणीया इति सूचितम् ॥ ३।६।१५ ॥
उक्तार्थे दृढविश्वासार्थमाह–एहीति । भावितात्मनां स्वस्वरूपविचारपराणां बहुधा अनेकधा हतानां बहूनां मुनीनां शरीराणि त्वं पश्य अत एव एहि अत्रागच्छ ॥ ३।६।१६ ॥
उपद्रुतदेशं बोधयन्नाह–पम्पेति । पम्पानदीनिवासानां पम्पा सरः, नदी तत्समीपवर्तिनी तयोर्निवासो येषां तेषामनुमन्दाकिनीं चित्रकूटालयानां च मुनीनां महत्कदनं पीडा क्रियते राक्षसैरिति शेषः ॥ ३।६।१७ ॥
एवमिति । एवमनेन प्रकारेण भीमकर्मभिः रक्षोभिः क्रियमाणं विप्रकारं विहिंसनं वयं न मृष्यामः सोढुं समर्था न भविष्याम इत्यर्थः ॥ ३।६।१८ ॥
तत इति । ततः अतिदुःखाद्धेतोः शरण्यं शरणहितं त्वां शरणार्थं रक्षणार्थं वयं समुपस्थिताः अतः निशाचरैर्वध्यमानान् नो ऽस्मान् परिपालय ॥ ३।६।१९ ॥
त्वया अवश्यं रक्ष्या इत्यत्र हेतुं वदन्नाह–परेति । हे वीर त्वत्तः परा अन्या गतिराश्रयो न अतः राक्षसेभ्यः परिपालय ॥ ३।६।२० ॥
एतदिति । काकुत्स्थो रामः तपस्विनां तपः प्रभावयुक्तानां तापसानामृषीणामेतद्वचः श्रुत्वा इदं प्रोवाचा ॥ ३।६।२१ ॥
तद्वचनमेवाह–नैवमिति । तपस्विनां भवतां स्वकार्येण हेतुना यो ऽहमाज्ञाप्यस्तं मामेवं प्रार्थनावचनेन वक्तुं यूयं नार्हथ केवलेन कापट्यरहितेन मया तु राक्षसैः भवतां विप्रकारं विहिंसनमपाक्रष्टुं दूरीकर्तुं वनं राक्षससेवितकाननं प्रवेष्टव्यम् “उभयप्राप्तौ कर्मणि” इति नियमान्न कर्तरि षष्ठी । सार्धश्लोक एकान्वयी ॥ ३।६।२२ ॥
पितुरिति । पितुर्निर्देशकरः यो ऽहमिदं वनं प्रविष्टः सो ऽहं भवतामर्थसिद्ध्यर्थं यदृच्छया आगतः भवतां समीपं प्राप्तः अत एव तस्य भवत्समीपं प्राप्तस्य मे ऽयं वने वासः महाफलः भविष्यति ॥ ३।६।२३२४ ॥
तपस्विनामिति । तपस्विनां शत्रून् राक्षसान् रणे हन्तुमहमिच्छामि अतः सभ्रातुर्मे वीर्यमृषयः पश्यन्तु ॥ ३।६।२५ ॥
दत्त्वेति । धर्मे धृतात्मा आर्यदत्तः आर्य सर्वश्रेष्ठमचलमित्यर्थः, दत्तं दानं यस्य सः वीरो रामः लक्ष्मणेन सह तपोधनानां वरं दत्त्वा तपोधनैश्च सह सुतीक्ष्णमभिजगाम ॥ ३।६।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षष्ठः सर्गः ॥ ३।६ ॥