विराधवधानन्तरकालिकं रामवृत्तान्तमाह–हत्वेत्यादिभिः । भीमबलं विराधं ततः तस्मिन् वने हत्वा सीतां परिष्वज्य आलिङ्ग्य समाश्वास्य च वीर्यवान् रामः भ्रातरं लक्ष्मणमब्रवीत् । सार्धश्लोक एकान्वयी ॥ ३।५।१ ॥
तद्वचनाकारमाह–कष्टमिति । यतः वयं वनगोचरा वनमात्रनिवासिनो न स्मः अतः दुर्गं गमनायोग्यमिदं वनं कष्टं दुःखसंपादकमतः तपोधनं शरभङ्गं शीघ्रमभिगच्छामहे इत्यभिधायेति शेषः, शरभङ्गस्य आश्रमं राघवो ऽभिजगाम ॥ ३।५।२३ ॥
तस्येति । तपसा परमात्मविचारेण भावितः साक्षात्कारतां प्राप्तः आत्मा परमात्मा येन तस्य अत एव देवप्रभावस्य देवकर्तृकोत्कण्ठापूर्वकस्मरणविषयीभूतस्य शरभङ्गस्य समीपे महदद्भुतं ददर्श ॥ ३।५।४ ॥
अद्भुतत्वं प्रकटयन्नाह–विभ्राजमानमित्यादिभिः । वपुषा स्वशरीरकान्त्या आकाशे विभ्राजमानमत एव सूर्यवैश्वानरप्रभं सूर्याग्निसदृशं विबुधाः देवाः अनुगाः अनुचरा यस्य तं रथप्रवरं रथश्रेष्ठमारूढं वसुधामसंस्पृशन्तं सुप्रभाभरणं शोभनप्रभाविशिष्टाभरणविशिष्टं विगतं नित्यं निरस्तं रजं यस्मात्तदेव अम्बरं तद्धारिणम्, अदन्तो ऽपि रजशब्दः द्विरूपादौ प्रसिद्धः, तद्विधैः तत्सदृशैः बहुभिः महात्मभिः पूज्यमानं विबुधेश्वरमिन्द्रं ददर्श । सार्धश्लोकद्वयमेकान्वयि ॥ ३।५।५६ ॥
हरितैरिति । हरितैः हरितवर्णविशिष्टैः वाजिभिर्युक्तं तरुणादित्यसंनिभं मध्याह्नसूर्यसदृशं पाण्डुराभ्रघनप्रख्यं पाण्डुराभ्रवत् घनप्रख्या निबिडा कान्तिर्यस्य तम् । चन्द्रमण्डलसंनिभं चन्द्रमण्डलाकृतिमन्तरिक्षगतमन्तरिक्षे संस्थितं तस्य इन्द्रस्य रथमदूरतः निकटे ददर्श । अर्धत्रयमेकान्वयि ॥ ३।५।७८ ॥
अपश्यदिति । चित्रमाल्योपशोभितं चित्रैः स्वर्णादिनिर्मितत्वेन विचित्रैः पुष्पैः उपशोभितं विमलं छत्रमपश्यदग्र्ये अत्युत्तमे रुक्मदण्डे स्वर्णदण्डविशिष्टे महाधने बहुमूल्यके वरनारीभ्यां गृहेति मूर्धनि धूयमाने चामरव्यजने च अपश्यत् । सार्धश्लोक एकान्वयी ॥ ३।५।९ ॥
गन्धर्वेति । शरभङ्गेण सह वासवे इन्द्रे प्रतिभाषणे सति गन्धर्वादयः अग्र्याभिः उत्कृष्टाभिः गीर्भिः अन्तरिक्षगतं देवमिन्द्रमीडिरे ॥ ३।५।१०११ ॥
सहेति । शरभङ्गेन सह वासवे संभाषमाणे सति तव शरभङ्गसमीपे शतक्रतुं दृष्ट्वा रामो ऽभिरामप्रदो रामः भ्रातुर्भ्रातरमुद्दिश्य संबोध्य रथं दर्शयत अदर्शयत् लक्ष्मणमब्रवीत् च ॥ ५।१२ ॥
तद्वचनाकारमाह–अर्चिष्मन्तमिति । हे लक्ष्मण अर्चिष्मन्तं प्रकाशवन्तं श्रिया संपत्त्या जुष्टं सेवितमन्तरिक्षगतं प्रतपन्तमादित्यमिव अद्भुतं रथं पश्य ॥ ३।५।१३ ॥
ये इति । पुरुहूतस्य बहुयागकर्तुः शक्रस्य हरयो हरिताः ये दिव्याः हयाः पुरा पूर्वं श्रिताः ते अन्तरिक्षगता इमे एव ॥ ३।५।१४ ॥
इमे इति । खड्गपाणयः विस्तीर्णविपुलानि अतिविशालनीत्यर्थः, विपुलशब्दस्य मांसलार्थकत्वे विस्तीर्णमांसलानीत्यर्थः उरांसि येषां ते, परिघवत् आयता दीर्घा बाहवो येषां ते, शोणांशूनि शोणप्रभानि वसनानि येषां ते अभितो दिशं चतुर्दिक्षु कुण्डलिनो युवानः इमे शतं शतं ये तिष्ठन्ति ते सर्वे व्याघ्रा इव दुरासदा लक्ष्यन्ते इति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।५।१५१६ ॥
उर इति । ज्वलनसंनिभाः वह्निसदृशा हाराः सर्वेषामुरोदेशेषु विद्यन्ते इति शेषः, हे सौमित्रे पञ्चविंशतिवार्षिकं वयः सर्वे इमे बिभ्रति धारयन्ति ॥ ३।५।१७ ॥
एतदिति । यथा येन वयसा इमे पुरुषव्याघ्राः दृश्यन्ते तदेतत् पञ्चविंशतिवार्षिकं वयो देवानां भवति एतेनेमे देवा एवेति सूचितम् ॥ ३।५।१८ ॥
इहेति । हे लक्ष्मण रथे द्युतिमानेषः कः एतत् यावदहं जानामि तावन्मुहूर्तं त्वं तिष्ठ ॥ ३।५।१९ ॥
तमिति । इहैव स्थीयतामित्येवं तं सौमित्रिमुक्त्वा शरभङ्गाश्रमं प्रति काकुत्स्थो ऽभिचक्राम ॥ ३।५।२० ॥
तत इति । समभिगच्छन्तं राममभिप्रेक्ष्य शरभङ्गमनुज्ञाप्य गमनायाज्ञां गृहीत्वा विबुधान् देवानिदमब्रवीत् ॥ ३।५।२१ ॥
तद्वचनाकारमाह–इहेति । यो राम इहोपयाति सो ऽसौ यावन्मां नाभिभाषते तावदेव निष्ठां स्थानान्तरं मां नयत । तत्र हेतुः मा मामद्रष्टुमर्हति द्रष्टुं नार्हतीत्यर्थः निषेधार्थको ऽयमकारः ॥ ३।५।२२ ॥
ननु अतिभाग्यलभ्यं रामदर्शनं कुतस्त्यज्यते इत्यत आह–जितवन्तमिति । अन्यैः एतद्भिन्नैः सुदुष्करं कर्तुमशक्यं कर्म राक्षसजयरूपं कर्तव्यमतः जितवन्तं कृतरावणवधमित्यर्थः, अत एव कृतार्थं साधितास्मत्प्रयोजनमिमं राममचिराच्छीघ्रमहं द्रष्टास्मीति शेषः, एतेन रामसंभाषणे सति रावणः कोपं कर्तेतीन्द्रस्य भीतिर्व्यञ्जिता ॥ ३।५।२३ ॥
अथेति । वज्री इन्द्रस्तं शरभङ्गमामन्त्र्य गमनाय संप्रार्थ्य मानयित्वा संपूज्य च हययुक्तेन रथेन दिवं ययौ ॥ ३।५।२४ ॥
प्रयाते इति । सहस्राक्षे प्रयाते सति सपरिच्छदः सीतालक्ष्मणसहितः राघवो रामः शरभङ्गमुपागमत् ॥ ३।५।२५ ॥
तस्येति । तस्य शरभङ्गस्य पादौ संगृह्य संस्पृश्य तदनुज्ञाताः शरभङ्गेनाज्ञप्ताः लब्धवासाः प्राप्तवासस्थानाः निमन्त्रिता रामादयः निषेदुः ॥ ३।५।२६ ॥
तत इति । ततः स्थित्यनन्तरं शक्रोपयानं शक्रस्य इन्द्रस्य उपयानमागमनं यस्मै प्रयोजनाय तत् राघवः पर्यपृच्छत् तत् सर्वमिन्द्रागमनप्रयोजनादि न्यवेदयत् अकथयत् ॥ ३।५।२७ ॥
तत्कथनप्रकारमाह–मामिति । अकृतात्मभिः न कृतः परमात्मनि समर्पितः आत्मा मनो यैस्तैर्दुष्प्रापं प्राप्नुमशक्यमुग्रेण महता तपसा परमात्मविचारेण जितं प्राप्तुं शक्यमित्यर्थः, ब्रह्मलोकं वरदः एष इन्द्रो मां निनीषति नेतुमिच्छति ॥ ३।५।२८ ॥
ननु तेन सहैव कुतो न गतो भवानित्यत आह–अहमिति । हे नरव्याघ्र अदूरतः निकटे वर्तमानं प्रियातिथिं त्वां ज्ञात्वा अदृष्ट्वा भवद्दर्शनमकृत्वा ब्रह्मलोकं न गच्छामि अगमम् एतेन रामविषयकप्रेमातिशयः शरभङ्गस्य सूचितः ॥ ३।५।२९ ॥
त्वयेति । हे पुरुषव्याघ्र धार्मिकेण महात्मना त्वया समागम्य अवरं त्रिदिवं स्वर्गं परं ब्रह्मलोकं च गमिष्यामि ॥ ३।५।३० ॥
अक्षया इति । हे नरशार्दूल अक्षयाः क्षयरहिता नाकपृष्ठ्याः स्वर्गाः ब्राह्म्या ब्रह्मसंबन्धिनश्च शुभाः लोका ये जिताः भवत्कृपया स्वप्राप्तियोग्याः कृताः तान् मामकाँल्लोकान् त्वं प्रतिगृह्णीष्व स्वकीयत्वेन जानीहि, एतेन तल्लोके रघुनाथागमनं प्रार्थितमिति सूचितम् ॥ ३।५।३१ ॥
एवमिति । शरभङ्गेन ऋषिणा एवमुक्तो राघवः वाक्यमब्रवीत् ॥ ३।५।३२ ॥
तद्वचनाकारमाह–अहमिति । हे महामुने प्रदिष्टं भवदाज्ञा यदि स्यात्तदा सर्वान् भवदीप्सितान् लोकान् इहैव अहमाहरिष्याभि प्रापयिष्यामि । तत्र हेतुः–यतः इह कानने आवासमहमिच्छामि ॥ ३।५।३३ ॥
राघवेणेति । शक्रः तुल्यबलो यस्य तेन राघवेण एवमुक्तः शरभङ्गः पुनरब्रवीत् ॥ ३।५।३४ ॥
तद्वचनाकारमाह–इहेति । हे राम सुतीक्ष्णो नाम सुतीक्ष्णाभिधः धार्मिकः इहारण्ये नियतो वसति स सुतीक्ष्णः ते श्रेयः त्वदभिलषितकल्याणं विधास्यति । एतेन मम स्थितियोग्यता इह नास्तीति सूचितं तेन अहमागच्छामीतीन्द्रागमने प्रतिज्ञातमिति सूचितम् तेन ऋषेः परमधर्मत्वं सूचितम् ॥ ३।५।३५ ॥
तत्र गमनाय मार्गमुपदिशति–इमामिति । पुष्पोडुपवहां प्लवसदृशपुष्पप्रवाहयुक्तां प्रतिस्रोतां देवादिभिः प्रतिस्रोतस्त्वं प्रापिनां पश्चिमाभिमुखं वाहितामित्यर्थः, आवन्तत्वमार्षमिति भट्टः । इमां मन्दाकिनीं तदवयवभूताल्पधारां नदीमनुगच्छेति शेषः । ततः तदनुगमनात्तत्र सुतीक्ष्णाश्रमे गमिष्यसि ॥ ३।५।३६ ॥
एष इति । एष नदीतट एव पन्थाः सुतीक्ष्णाश्रमप्रापको मार्गः जीर्णां त्वचमुरगः सर्प इव गात्राणि यावज्जहामि त्यजामि तावत्कालं त्वं मां पश्य, किंच तावत्कालं त्वं पश्य । ननु किमर्थमवलोक इत्यत आहएष भवदवलोक एव पन्थाः परमकल्याणप्रापकमार्गः ॥ ३।५।३७ ॥
तत इति । ततः रामस्थित्युद्देश्यकप्रार्थनानन्तरमग्निं समाधाय मन्त्रवत् यथा स्यात्तथा आज्येन हुत्वा शरभङ्गः हुताशनं विवेश ॥ ३।५।३८ ॥
तस्येति । तस्य शरभङ्गस्य रोमप्रभृतीनि वह्निरदह्रदिति शेषः ॥ ३।५।३९ ॥
स इति । स शरभङ्गः अग्निचयादुत्थाय यावकसंकाशः कुमारः समपद्यत अभवत्, व्यरोचत अशोभत च ॥ ३।५।४० ॥
स इति । स शरभङ्गः आहिताग्न्यादीनां लोकान्व्यतिक्रम्य ब्रह्मलोकं सच्चिदानन्दपुरं साकेतमित्यर्थः, व्यरोहत प्राप्नोत् ॥ ३।५।४१ ॥
स इति । पुण्यकर्मा च शरभङ्गः सानुचरं पितामहं ब्रह्माणं ददर्श पितामहो ऽपितं समीक्ष्य ननन्द स्वागतमित्युवाच च ॥ ३।५।४२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चमः सर्गः ॥ ३।५ ॥