विराधं ज्ञातुकामस्य लक्ष्मणस्योक्तिमाह इतीति । श्रीमान् लक्ष्मणः इति वचः उक्त्वा रामं प्रतीति शेषः, वनमभ्येत्य प्राप्य यथामुखं यः चरिष्यति चरति स भवान् कः इति वचः प्रहसन्निव विराधमाहेति शेषः ॥ ३।३।१ ॥
अथेति । अथ लक्ष्मणवचनश्रवणानन्तरं विराधः पुनर्वाक्यमुवाच । तद्वचनाकारमाह–युवां कौ किं जात्यादि क्व च गमिष्यथः इति पृछतो मम ब्रूतम् ॥ ३।३।२ ॥
तमिति । ततः राक्षसवचःश्रवणानन्तरं पृच्छन्तं राक्षसं सुमहातेजाः रामः उवाच । तद्वचनाकारमाह–आत्मनो मम इक्ष्वाकुकुलं विद्धि अत एव वृत्तसंपन्नौ स्वकुलोचितवृत्तविशिष्टौ अत एव वनगोचरौ वनं प्राप्तौ क्षत्रियौनौ आवां विद्धि जानीहि यस्त्वं दण्डकान् चरसि तं त्वां तु वेदितुं ज्ञातुमिच्छावः । श्लोकद्वयमेकान्वयि ॥ ३।३।३४ ॥
तमिति । विराधस्तु हे राजन् अहं वक्ष्यामि त्वं निबोध श्रृणु इति तं पृच्छन्तं राममुवाच ॥ ३।३।५ ॥
तद्वचनाकारमाह–पुत्र इति । जवस्य जवाभिधस्य अहं पुत्रः शतह्लदा तदभिधा मम माता सर्वराक्षसाः विराधमिति मामाहुः ॥ ३।३।६ ॥
तपसेति । तपसा हेतुभूतेन ब्रह्मणः प्रसादजा शस्त्रेण अवध्यता वध्यत्वाभावं संप्राप्ता अच्छेद्याभेद्यत्वं च प्राप्तं तत्राच्छेद्यत्वमवयवद्वैधीभवनाभावः अभेद्यत्वं शरीरे व्रणप्राप्त्यभावः, वस्तुतस्तु छेद्येन छेत्तुमर्हेण प्राकृतशस्त्रेणेत्यर्थः, अभेद्यत्वं विदारणाभावं च प्राप्तमित्यर्थः, अत एव वक्ष्यमाणरामशस्त्रकरणकभेदनं संगच्छते तेषां प्राकृतभिन्नत्वात् ॥ ३।३।७ ॥
रामहस्तात्स्ववधकामस्तं कोपयन्नाह–उत्सृज्येति । एनां प्रमदां स्वस्त्रियमुत्सृज्य त्यक्त्वा अनपेक्षौ एतत्प्राप्तिविषयकेच्छारहितौ त्वरमाणौ युवां यथागतमागतं मार्गमनतिकम्य पलायेथाम् । तत्र हेतुःवां युवयोर्जीवितं जीवनमहं न आददे गृह्णामि ॥ ३।३।८ ॥
तमिति । कोपसंरक्तलोचनः कोपेन दुष्टत्वदूरीकरणाय स्वीकृतकोपाभासेन संरक्ते लोचने यस्य स रामः पापचेतसं जन्मप्रभृतिपापकरणशीलं विकृताकारं विराधमिदं प्रत्युवाच ॥ ३।३।९ ॥
तत्प्रतिवचनाकारमाह–क्षुद्रेति । हे क्षुद्र हीनार्थं हीनः त्यक्तः अर्थः पुरुषार्थो येन तं त्वां धिक् यस्त्वं मृत्युमन्वेषसे स त्वं रणे मृत्युं ध्रुवं प्राप्स्यसि मे मया जीवन् त्वं न विभोक्ष्यसे अत एव रणे संतिष्ठ ॥ ३।३।१० ॥
तत इति । ततः स्वोक्त्यनन्तरं धनुः सज्यं ज्यासहितं कृत्वा सुनिशितानत्यन्ततीक्ष्णान् शरानभिसंधाय धनुःसंलग्नान् कृत्वा राक्षसं निजधान ॥ ३।३।११ ॥
तत्प्रकारमाह–धनुषेति । रुक्मपुङ्खान् स्वर्णपुङ्खविशिष्टान् महावेगान् सुपर्णानिलतुल्यगान् सुपर्णानिलौ तुल्यं स्वसादृश्यं गच्छन्ति प्रापयन्ति तान् सप्त बाणान् ज्यागुणवता
ज्यारूपरज्जुविशिष्टेन धनुषा मुमोच ॥ ३।३।१२ ॥
त इति । बर्हिणवाससः बर्हिणा मयूराः तत्संबन्धिपिच्छानीत्यर्थः, तान्येव वासांसि येषां ते सप्त बाणाः विराधस्य शरीरं भित्त्वा शोणितादिग्धाः शोणितेन रुधिरेण आदिग्धा व्याप्ताः अत एव पावकोपमाः सन्तः धरण्यां निपेतुः ॥ ३।३।१३ ॥
स इति । विद्धः बाणैः छिद्रितः अत एव सुसंक्रुद्धः स राक्षसः वैदेहीं न्यस्य धरण्यां संस्थाप्य सलक्ष्मणं राममभ्यद्रवत् ॥ ३।३।१४ ॥
स इति । व्यात्ताननः प्रसारितवदनः स विराधः महानादं यथा स्यात्तथा विनद्य शक्रध्वजोपमं शूलं प्रगृह्य अन्तकः काल इव अशोभत ॥ ३।३।१५ ॥
अथेति । कालान्तकयमोपमे अन्तको मृत्युः कालस्तन्निमित्तं यमस्तन्नियन्ता तैरुपमा यस्य, किंच कालः प्राप्तः अन्ताको यस्य स एव यमोपमः तस्मिन् विराधे राक्षसे भ्रातरौ रामलक्ष्मणौ दीप्तं शरवर्षं ववर्षतुः ववृषतुः ॥ ३।३।१६ ॥
स इति । महारौद्रः अतिभयङ्करः राक्षसः स विराधः स्थित्वा प्रहस्य च अजृम्भत । जृम्भमाणस्य तस्य कायात् शरीरात् आशुगाः रामलक्ष्मणसंचलितबाणाः निष्पेतुः ॥ ३।३।१७ ॥
स्पर्शादिति । वरदानेन हेतुना स्पर्शात् रामबाणसंबन्धादपि प्राणान् संरोध्य विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ ३।३।१८ ॥
तदिति । वज्रसंकाशं वज्रसदृशं ज्वलनेन वह्निना उपमा यस्य तच्छूलं द्वाभ्यां शराभ्यां रामश्चिच्छेद ॥ ३।३।१९ ॥
तदिति । रामविशिखैः रामबाणैः छिन्नं तस्य विराधस्य पातितं चालितं शूलमपि अशनिना वज्रेण छिन्नं मेरोः शिलातलमिव भुवि पपात ऽतस्यापि पातितम्ऽ इति पाठः ॥ ३।३।२० ॥
ताविति । उद्यतौ युद्धोद्युक्तौ तौ रामलक्ष्मणौ कृष्णसर्पाविव खड्गौ उद्यम्य तस्य राक्षसस्य समीपे तूर्णमापेततुः । तदा आपतनकाले बलात्प्रहरतां प्राहरताम् ॥ ३।३।२१ ॥
स इति । सुभृशमत्यन्तं वध्यमानः स राक्षसः अप्रकम्प्यौ एतौ रामलक्ष्मणौ भुजाभ्यां परिगृह्य उत्थाप्य प्रस्थातुं दुर्गप्रदेशं नेतुमैच्छत् ॥ ३।३।२२ ॥
तस्येति । तस्य राक्षसस्य अभिप्रायमाज्ञाय रामो ऽब्रवीत् । तद्वचनाकारमाह–अयं राक्षसः अनेन यथा अलं यथेच्छं वहतु ॥ ३।३।२३ ॥
नन्वेतद्वहने यात्राविलम्बो भविष्यतीत्यत आह–यथेति । हे सौमित्रे यथा इच्छति तथा राक्षसो वहतु । तत्र हेतुः–येन यथा अयं निशाचरो याति स एव नो ऽस्माकं पन्थाः ॥ ३।३।२४ ॥
स इति । अतिबलोद्धतः स निशाचरः स्वबलवीर्येण बलेन शौर्येण च समुत्क्षिप्य उत्थाप्य बालाविवस्कन्धगतौ चकार ॥ ३।३।२५ ॥
ताविति । रजनीचरो विराधः तौ रामलक्ष्मणौ आरोप्य घोरं विनदन् सन् वनमभिमुखो जगामा ॥ ३।३।२६ ॥
वनमिति । विविधैर्द्रुमैरुपेतं युक्तं पक्षिकुलैः पक्षिसंघैर्विचित्रं शिवाभिर्युतं व्यालमृगैर्विकीर्णं युक्तं महामेघनिभं वनं प्रविष्टः ॥ ३।३।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे तृतीयः सर्गः ॥ ३।३ ॥