रामवृत्तान्तमाह–कृतातिथ्य इत्यादिभिः । कृतातिथ्यो रामस्तु सूर्यस्य उदयनं प्रति उदयकाले सर्वान् मुनीन् आमन्त्र्य आपृच्छय वनमेव अन्वगाहत ॥ ३।२।१ ॥
नानेति । मृगगणैः आकीर्णं व्याप्तम् ऋक्षादिभिः सेवितं ध्वस्ताः राक्षसातिसंचारेण परिमर्दिताः वृक्षादयो यस्मिन् दुर्दर्शाः राक्षसातिसंचारवशाद्द्रष्टुमशक्याः सलिलाशयाः कूपादयो यस्मिन् तं, निष्कूजाः राक्षसभिया शब्दरहिताः नानाशकुनाः अनेकविधपक्षिणः यस्मिन् । अदन्तो ऽपि शकुनशब्दः तथाहि ऽशकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाःऽ इत्यमरसिंहः । झिल्लिकानां गणैर्नादितं वनमध्यं लक्ष्मणानुचरः लक्ष्मणः अनुचरो यस्य स रामः ददर्श । झिल्लिकागणनादितमित्यनेन झिल्लिकाशब्दस्य राक्षसप्रियत्वं सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।१।२३ ॥
सीतयेति । घोरमृगाः व्याघ्रादयस्तैः आयुते व्याप्ते तस्मिन् वने काकुत्स्थो रामः गिरिश्रृङ्गाभं पर्वतश्रृङ्गसदृशं गभीराक्षं गभीरे अन्धकूपसदृशे अक्षिणी यस्य, विकटं विशालशरीरं, विकटोदरं विशालोदरविशिष्टं बीभत्सं कुत्सितावयवत्वेन कुत्सितं विषमं निम्नोन्नतावयवसंस्थानं दीर्घमत्युन्नतशरीरं विकृतं नानाविकारविशिष्टशरीरविशिष्टमत एव घोरं भयङ्करं दर्शनं यस्य ॥ ३।२।४५ ॥
वसार्द्रं वसा मांसान्तर्गतपूयं तेन आर्द्रं वैयाघ्रं व्याघ्रसंबन्धि चर्म वसानं रुधिरोक्षितं स्वनिहतव्याघ्रशरीरोत्थितरुधिरसिक्तमत एव सर्वभूतानां त्रासनं भयप्रदमन्तकमिव व्यादितास्यं प्रसारितमुखम् ॥ ३।२।६ ॥
सिंहांस्त्रीन् व्याघ्रान् चतुरः वृकौ द्वौ पृषतान् मृगविशेषान्दश सविषाणं दन्तसहितं वसादिग्धं पूयव्याप्तं गजस्य हस्तिनः महत् बृहच्छिरश्च आयसे लोहनिर्मिते शूले अवसज्य विद्धा महास्वनं यथा स्यात्तथा विनदन्तं महास्वनं महासुभिः अत्युछ्रितश्वासैः अनिति तं महाश्वासवन्तमित्यर्थः, पुरुषादं राक्षसं ददर्श । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ३।२।७ ॥
स इति । स विराधः रामादीन्दृष्ट्वा सुसंक्रुद्धः सन् काले संहारसमये अन्तकः कालः प्रजा इव अभ्यधावत् । अर्धद्वयमेकान्वयि ॥ ३।२।८ ॥
स इति । स विराधः मेदिनीं पृथ्वीं चालयन्निव अङ्केन शीघ्रगत्या वैदेहीमपक्रम्य स्वस्कन्धयोः संस्थाप्य अब्रवीत् ॥ ३।२।९ ॥
तद्वचनाकारमाह–युवामिति । जटाचीरधरौ युवां यतः सभार्यौ स्त्रीसहितौ दण्डकारण्यं प्रविष्टौ अतः क्षीणजीवितौ ॥ ३।२।१० ॥
ननु स्त्रीसहितत्वे को दोष इत्यत आह– कथमिति । तापसयोः तपस्विवेषयोः वां युवयोः प्रमदया एकस्त्रिया सह वासः कथं, एतेन भवन्तौ पापिनाविति तदुक्तिः सूचिता ॥ ३।२।११ ॥
अधर्मेति । अधर्मचारिणौ एकस्त्रीसहितत्वेन धर्मविरुद्धाचरणौ अत एव मुनिदूषकौ पापौ युवां कौ । अर्धं पृथक् । ननु त्वं को ऽसीत्यत आह–अहमिति । विराधो नाम राक्षसो ऽहं मुनिमांसानि भक्षयन् सन् इदं दुगं वनं चरामि अतः वरारोहा वरः अत्युत्कृष्टः आरोहः मम स्कन्धयोरारोहणं यस्याः सा इयं नारी मम भार्या मत्पोष्या भविष्यति, एतेन सीतायां तस्य सेव्यत्वबुद्धिः संजातेति ध्वनितम् । पापयोः युवयोस्तु रुधिरं मृधे संग्रामे पास्यामि । अर्धचतुष्टयमेकान्वयि ॥ ३।२।१२१३ ॥
तस्येति । एवं दुष्टं वचो ब्रुवतः तस्य विराधस्य सगर्वितं गर्वसहितं वाक्यं श्रुत्वा जनकात्मजा सीतासंभ्रान्ता भयं प्राप्ता अत एव प्रवाते महावाते कदलीव उद्वेगात्प्रवेपिता जातकम्पा ऽ ऽसीदिति शेषः ॥ ३।२।१४१५ ॥
तामिति । विराधाङ्कगतां विराधस्य अङ्केन शीघगत्या हेतुभूतया गतां तत्स्कन्धयोः प्राप्तां शुभां तां सीतां दृष्ट्वा परिशुष्यता मुखेनोपलक्षितो राघवो रामः लक्ष्मणमब्रवीत् ॥ ३।२।१६ ॥
तद्वचनाकारमाह–पश्येति । विराधाङ्के प्रवेशितां विराधाङ्कस्य विराधशीघ्रगमनस्य या ईः व्याप्तिः तया प्रवेशितां स्कन्धयो संस्थापितां नरेन्द्रस्य जनकस्य आत्मसंभवामत एव अत्यन्तसुखसंवृद्धामत्यन्तसुखेन संवृद्धां योषितमित्यर्थः, राजपुत्रीं राजातिशोभावती एव पुत्री तां शुभाचारां मम भार्यां पश्य । सार्धश्लोक एकान्वयी ॥ ३।२।१७ ॥
हे लक्ष्मण दीर्घदर्शिनी अतिज्ञानवती या पुत्रार्थे मदर्थे ऽपि राज्ये न तुष्यति तस्याः कैकेय्याः अस्मासु यद्यस्माद्राक्षसवधाद्धेतोः अभिप्रेतं यत् राज्याभिषेकनिवर्तनरूपं वरवृतं वरस्वीकारः तदद्यैव सुसंवृत्तं सुसंपन्नमित्यर्थः, एतेन राक्षसवधार्थमेव तत्कर्तृकं मम प्रव्राजनमिति ध्वनितम् ॥ ३।२।१८१९ ॥
तदेव भङ्ग्यन्तरेणाह–ययेति । यया सर्वभूतानां प्रियो ऽहं वनं प्रस्थापितः या च मध्यमा मम माता सा अद्यास्मिन्दिने इदानीं राक्षसवधसमये सकामा पूर्णमनोरथा भविष्यतीति शेषः ॥ ३।२।२० ॥
अयं राक्षसो ऽवश्यं वधयोग्य इति बोधयन्नाह–परेति । वैदेह्याः परस्पर्शात् राक्षसस्पर्शनान्मे यथा दुःखतरमस्ति तथा पितुर्विनाशाल्लोकान्तरगमनकर्तृत्वेन दर्शनाभावात् स्वराज्यहरणाच्च दुःखतरं नास्ति ॥ ३।२।२१ ॥
इतीति । काकुत्स्थे रामे इति ब्रुवति सति बाष्पशोकपरिप्लुतो लक्ष्मणः अब्रवीत् ॥ ३।२।२२ ॥
तद्वचनाकारमाह–अनाथ इति । भूतानां सर्वजन्तूनां नाथः नियन्ता वासवः इन्द्रः उपमा उपमेयो यस्य प्रेष्येण भृत्येन मया उपलक्षितस्त्वमनाथः नाथत्वाभाववानिव किमर्थं परितप्यसे परितापो न कार्य इत्यर्थः ॥ ३।२।२३ ॥
परितापस्याकर्तव्यत्वे हेतुमाह–शरेणेति । क्रुद्धेन मया शरेण निहतस्य अत एव गतासोः गतप्राणस्य विराधस्य रक्षसः शोणितं रुधिरं महीं पास्यति ॥ ३।२।२४ ॥
राज्येति । राज्यकामे हेत्वाभासमूलकानुमानिकराज्यकामनाविशिष्टे भरते यः क्रोधो बभूव तं क्रोधं वज्री इन्द्रः वज्रमचले पर्वते इव विराधे विमोक्ष्यामि ॥ ३।२।२५ ॥
ममेति । मम भुजबलवेगेन वेगितः प्राप्तवेगः मम महान् शरः अस्य विराधस्य महोरसि पततु अत एव तनोः जीवितं जीवनं व्यपनयतु दूरीकरोतु ततः स्तमाद्धेतोः विघूर्णितः सन् महीं पततु ॥ ३।२।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्वितीयः सर्गः ॥ ३।२ ॥