००१ ऋषीणाम् अभयप्रार्थनम्

रामायणशिरोमणिः ।

सदा सीतारामं परममभिरामं श्रुतिदृशां

मुनीनां संसेव्यं विविधवनवासैकमनसम् ।

नमामः सौमित्रिं रघुपतिपदाब्जैकनिरतं

प्रयागं तीर्थानां नृपतिमभिवन्दे ऽतिशरणम् ॥ १ ॥

हनूमन्तं वन्दे सकलसुखवन्तं सुरनुतं

सदा संखेलन्तं पवनतनयं रामहृदयम् ।

उदारं संवन्दे गुरुचरणकमलानि सततं

यतः संप्राप्तव्याः सकलपुरुषार्थाः सुमनसाम् ॥ २ ॥

वाल्मीकिरामायणकाण्डयुग्मे

कृत्वाशु टीकां शुभवेणिकातटे ।

आरण्यकाण्डस्य करोमि सेव्यं

रामायणाद्यं हि शिरोमणिं मुदा ॥ ३ ॥

यद्दर्शनाद्रामपदारविन्दे

भक्तिः परा स्यात्सकलार्थमूलम् ।

विष्ण्वादिवन्द्ये ऽखिलविश्वनन्द्ये

स्वतेजसा द्योतितसूर्यचन्द्रे ॥ ४ ॥

सीतारामसमारम्भां शुकाचार्यादिमध्यगाम् ।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५ ॥

रामकर्तृकदण्डकारण्यप्रवेशं वदन् तद्वृत्तान्तमाह–प्रविश्येति । दण्डकारण्यं दण्डकारण्यसंज्ञकं महदेव अरण्यं वनं प्रविश्य दुर्धर्षः धर्षयितुमशक्यो रामस्तु तापसाश्रममण्डलं तापसानां परमात्मविचारशीलानामाश्रममण्डलं पर्णशालासमूहं ददर्श । तत्संज्ञायां निमित्तं तु दण्डकाभिधराजस्य देशः शुक्रशापवशादरण्यत्वं प्राप्त इति । ऽदुर्धर्षम्ऽ इति पाठे रक्षोयुतत्वादशक्यप्रवेशमित्यर्थ इति भट्टाः ॥ ३।१।१ ॥

मण्डलमेव विशेषयन्नाह–कुशेत्यादिभिः । कुशचीराणि परिक्षिप्तानि यस्मिंस्तं कुशचीराणां परिक्षिप्तं परिक्षेपो यस्मिन् तमिति वा ब्राह्म्या ब्रह्मसंबन्धिन्या लक्ष्म्या ब्रह्मविद्ययेत्यर्थः, समावृतं सम्यग्युक्तमत एव दुर्दर्शं गगने सूर्यमण्डलमिव प्रदीप्तं प्रकाशितं शरण्यमिति सर्वभूतानां शरण्यं स्थित्यर्हं सुसंमृष्टानि अजिराणि अङ्गणानि येषु तं मृगैः आकीर्णं व्याप्तं पक्षिणां संघैः समूहैः समावृतम् ॥ ३।१।२३ ॥

पूजितमिति । अप्सरसां गणैः समूहैः पूजितं शंसितमत एव उपनृत्तं समीपे संपादितनर्तनं विशालैर्विस्तीर्णैः अग्निशरणैर्यागशालाभिः स्रुग्भाण्डैः यागसामग्रीभूतस्रुग्भिः पात्रैश्च अजिनैः मृगादित्वग्भिः ॥ ३।१।४ ॥

समिदादिभिश्च शोभितमारण्यैः अरण्यजनितैर्वृतं युक्तम् ॥ ३।१।५ ॥

बलिहोमार्चितं बलिभिः उपहारैः होमैश्च अर्चितं पुण्यं दर्शनमात्रेण पुण्यजनकं ब्रह्मघोषेण वैदिकशब्दोच्चारणशब्देन निनादितं शब्दितमन्यैः चित्रकूटवनवर्तिपुष्पविलक्षणैः पुष्पैः परिक्षिप्तं सपद्मया पद्मसहितया पद्मिन्या सरस्या अर्चितं युक्तम् ॥ ३।१।६ ॥

फलमूलाशनैः फलमूलमात्रभोजनैः दान्तैः नियमितोभयकरणैः चीरकृष्णाजिनाम्बरैः चीराणि खण्डपटाः कृष्णाजिनानि च तान्येवाम्बराणि येषां तैः सूर्यवैश्वानराभैः सूर्याग्निसदृशैः पुराणैः चिरन्तनैर्मुनिभिर्युतम् ॥ ३।१।७ ॥

नियताहारैः नियमिताहारयुक्तैः पुण्यैः परमर्षिभिः शोभितमत एव ब्रह्मभवनप्रख्यं ब्रह्मलोकसदृशं ब्रह्मघोषैः परमात्मपर्यवसानकशब्दैः निनादितम् ब्रह्मविद्भिः परमात्मबोधनतत्परैः महाभागैः ब्राह्मणैरुपशोभितम् तत्तापसाश्रममण्डलमस्तीति शेषः, तत्तापसाश्रममण्डलं श्रीमान् रामः महद्धनुर्विज्यं कृत्वा अभ्यगच्छत् । सार्धश्लोकाष्टकमेकान्वयि ॥ ३।१।८९ ॥

दिव्येति । दिव्यज्ञानोपपन्नास्ते महर्षयः रामं वैदेहीं च दुष्ट्वा प्रीताः सन्तः अभिजग्मुः तत्संमुखं प्रापुः । अर्धद्वयमेकान्वयि ॥ ३।१।१० ॥

ते इति । ते ऋषयः उद्यन्तं सोमं चन्द्रमसमिव धर्मचारिणं रामं लक्ष्मणं च वैदेहीं दृष्ट्वा मङ्गलानि मङ्गलप्रापकवाक्यानि प्रयुञ्जानाः सन्तः प्रत्यगृह्णन् स्वसेव्यत्वेन स्वीचक्रुः ॥ ३।१।१११२ ॥

रूपेति । रामस्य रूपसंहननं प्राकृतविलक्षणरूपसन्निवेशं लक्ष्मीं शोभासंपत्तिं सौकुमार्यं सुकुमारतां सुवेषतां शोभनवेषं विस्मिताकाराः विलक्षणाकारविषयकविस्मयवन्तः वनवासिनो ददृशुः, आकारे विस्मिताः विस्मिताकारा राजदन्तादित्वात् परत्वम् ॥ ३।१।१३ ॥

तदेव भङ्ग्यन्तरेणाह–वैदेहीमिति । आश्चर्यभूतान्विलक्षणरूपादिप्राप्तान् वैदेह्यादीननिमिषैः निमेषरहितैरिव नेत्रैः सर्वे वनवासिनः ददृशुः ॥ ३।१।१४ ॥

अत्रेति । महाभागा ऋषयः अत्र प्रसिद्धायां पर्णशालायामतिथिं रामं संन्यवेशयन् ॥ ३।१।१५ ॥

तत इति । ततः पर्णशालाप्रापणानन्तरं पावकोपमा ऋषयः धर्मचारिणो रामस्य विधिना सत्कृत्य सलिलमर्घ्यादिसाधनीभूतजलम् आजह्वुः आनिन्युः ॥ ३।१।१६ ॥

मङ्गलानीति । परमया अत्युत्कृष्टया मुदा हर्षेण मङ्गलानि प्रयुञ्जानाः धर्मज्ञाः ऋषयः मूलादिकं निवेदयित्वा प्राञ्जलयः सन्तः अब्रुवन् आर्षो ल्यबभावः । सार्धश्लोक एकान्वयी ॥ ३।१।१७ ॥

तद्वचनाकारमाह–धर्मेति । हे राघव धर्मपालः परमधर्मरक्षकः अत एव अस्य एतल्लोकस्थस्य जनस्येन्द्रस्य तदुपलक्षितोर्ध्वलोकस्थस्य च ब्रह्मादित्रयस्य वा शरण्यः शरणे हितः अत एव महायशाः समातिशयरहितयशोविशिष्टः अत एव पूजनीयः सर्वकर्तृकपूजायोग्यः अत एव मान्यः सर्वप्रकारेण सत्करणीयः अत एव गुरुः सर्वश्रेष्ठः अत एव चतुर्भागः चतुर्णाम् अर्थधर्मकासमोक्षाणां भागः आश्रितकर्तृकसेवा यस्मात् सः दण्डधरः खलनिग्रहकर्ता राजा नित्यराजत्वविशिष्टः भवान् प्रजाः रक्षत्येव ॥ ३।१।१८१९ ॥

राजेति । तस्माद्ब्रह्मादेरपि गुरुत्वाद्धेतोः नमस्कृतो राजा भवान् वरान् भोगान् भुङ्क्ते अत एव भवद्विषयवासिनस्ते वयं भवता रक्ष्याः ॥ ३।१।२० ॥

नन्वहमपि भवत्सदृशो वनस्थ इति किं रक्षणप्रार्थनयेत्यत आह–नगरस्थ इति । जनेश्वरः सर्वजननियन्तात्वं नगरस्थो वनस्थो वा नो राजा । ननु भवन्तो ऽतितेजस्विनः कुतो न आत्मरक्षां कुर्वन्तीत्यत आह–हे राजन् वयं न्यस्तदण्डाः त्यक्तनिग्रहाः ॥ ३।१।२१ ॥

रक्षणीया इति । गर्भभूताः मात्रैकरक्ष्यपुत्रतुल्या इत्यर्थः, तपोधनास्त्वया शश्वद्रक्षणीयाः एवमुक्त्वा फलादिभिः वन्यैर्वनोद्भवैः अन्यैः फलाद्यतिरिक्तैः विविधाहारैः नीवारादिभिः सलक्ष्मणं लक्ष्मणसहितं राममपूजयन् । सार्धश्लोक एकान्वयी ॥ ३।१।२२ ॥

वैश्वानरोपमाः अग्निसदृशाः न्यायवृत्ता न्यायमार्गावलम्बिनः सिद्धाः प्राप्तसकलसिद्धयः अन्ये तापसाः ईश्वरं सर्वनियन्तारं रामं यथान्यायं यथोचितं तर्पयामासुः ॥ ३।१।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे प्रथमः सर्गः ॥ ३।१ ॥