११९ रामस्य दण्डकारण्यप्रवेशः

सीतावचनश्रवणानन्तरकालिकमनसूयावृत्तमाह– अनसूयेत्यादिभिः । धर्मज्ञा अनसूया तु तां सीताविवाहसम्बन्धिनीं महतीं कथां श्रुत्वा मैथिलीं शिरसि आघ्राय बाहुभ्यां पर्यष्वजत आलिङ्गयत् आलिङ्गनपूर्वकमुवाचेत्यर्थः ॥ २।११९।१ ॥

तद्वचनाकारमाह– व्यक्तेति । व्यक्तानि स्फुटानि अक्षराणि पदानि च यस्मिन् तच्चित्रं बहुविधव्यञ्जनाविशिष्टं मधुरं मनोहरं यथास्वयंवरं स्वयंवरमनतिक्रम्य यत् त्वया भाषितं तद्वृत्तं वृत्तान्तं सर्वं मया श्रुतम् ॥ २।११९।२ ॥

रमेयेति । हे मधुरभाषिणि ते तव कथया दृढं यथा स्यात्तथा रमेय विहरेय श्रीमान् रविस्तु रजनीमुपोह्य समीपं प्रापय्य अस्तं गतः ॥ २।११९।३ ॥

दिवसमिति । दिवसं दिनं सम्प्राप्य आहारार्थं परिकीर्णानां चतुर्दिक्षु गतानां सन्ध्याकाले प्राप्ते सति निद्रार्थं निलीनानां स्वस्वावासस्थानेषु स्थितानां पतत्रिणां पक्षिणां ध्वनिः श्रूयते ॥ २।११९।४ ॥

एते इति । कलशोद्यताः गृहीतकलशाः अभिषेकार्द्राः स्नानहेतुकार्द्रत्वविशिष्टाः अत एव सलिलेन जलेन आप्लुतानि व्याप्तानि वल्कलानि येषां ते सहिताः परस्परं मिलिताः मुनयः उपवर्तन्ते समीपे दृश्यन्ते इत्यर्थः ॥ २।११९।५ ॥

ऋषीणामिति । विधिपूर्वकं हुतेषुं ऋषीणामग्निहोत्रेषु पवनोद्धतः वायुना समृद्धः कपोताङ्गारुणः पारावतकण्ठारुण्यसदृशारुण्यविशिष्टः धूमः दृश्यते । अरुणत्वं चाव्यक्तरागत्वम्, तथा च मेदिनी “अरुणो ऽव्यक्तरागे ऽर्के सन्ध्यारागे ऽर्कसारथौ” इति ॥ २।११९।६ ॥

अल्पेति । विप्रकृष्टानि दूरवर्तीनि इन्द्रियाणि यस्मात्तस्मिन् देशे समन्ततो विद्यमानाः अल्पपर्णा अपि तरवः घनीभूताः तमसा प्रौढत्वं प्राप्ताः दृश्यन्ते इति शेषः, अत एव दिशो न प्रकाशन्ति प्रकाशन्ते ॥ २।११९।७ ॥

रजनीति । रजनीचरसत्त्वानि निशाचराः समन्ततः प्रचरन्ति । एते तपोवनमृगाः वेदितीर्थेषु पावनवेदिषु शेरते “तीर्थमन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपधावतरणेषु” इति वैजयन्ती ॥ २।११९।८ ॥

सम्प्रवृत्तेति । हे सीते नक्षत्रसमलङ्कृता निशा सम्प्रवृत्ता अत एव ज्योत्स्नाप्रावरणः चन्द्रिकारूपावरणविशिष्टः अभ्युदितश्चन्द्रः अम्बरे आकाशे दृश्यते ॥ २।११९।९ ॥

गम्यतामिति । अहमनुजानामि आज्ञापयामि त्वया गम्यताम् । तत्प्रयोजनमाह– रामस्य अनुचरी भव हि यतः मधुरं कथयन्त्या त्वयाहं तोषिता ॥ ११९।१० ॥

अलमिति । हे मैथिलि दिव्यालङ्कारशोभिनि हे दिव्यालङ्कारशोभादायिनि मम प्रत्यक्षमलङ्कुरु मद्दत्तवस्त्रालङ्कारादीनि धारयेत्यर्थः । तत्प्रयोजनमाह– प्रीतिं मे जनय अलङ्कृतात्मदर्शनेन मत्प्रीतिमुत्पादयेत्यर्थः ॥ २।११९।११ ॥

सेति । तदा अनसूयाज्ञापनकाले सुरसुतोपमा सा सीता समलङ्कृत्य पादौ अनसूयाचरणौ शिरसा प्रणम्य राममभिमुखी सती ययौ ॥ २।११९।१२ ॥

तथेति । तपस्विन्याः प्रीतिदानेन भूषितां सीतां राघवो ददर्श जहर्ष च ॥ २।११९।१३ ॥

न्यवेदयदिति । ततः रामदर्शनानन्तरं मैथिली सीता तपस्विन्या वसनाभरणस्रजां प्रीतिदानं सर्वं सकारणं रामाय न्यवेदयत् । “वसनाभरणस्रजम्” इति भूषणपाठः । तत्पक्षेः प्रीतिदानमित्यत्र कर्मणि ल्युट् ॥ २।११९।१४ ॥

प्रहृष्ट इति । मानुषेषु सुदुर्लभामलभ्यां मैथिल्याः सत्क्रियामनसूयाकर्तृकसत्कारं दृष्ट्वा रामो लक्ष्मणश्च प्रहृष्टो ऽभवत् ॥ २।११९।१५ ॥

तत इति । ततः सीतासत्कृतिदर्शनानन्तरं तापसैः अर्चितः प्रीतः स रघुनन्दनो रामः पुण्यामनसूयासमर्पितपुण्यालङ्कारादिविशिष्टां शशिनिभाननां सीतां दृष्ट्वा शर्वरीं रात्रिमुवास ॥ २।११९।१६ ॥

तस्यामिति । तस्यां वासाधिकरणीभूतायां रात्र्यां व्यतीतायां नरव्याघ्रौ रामलक्ष्मणौ अभिषिच्य स्नात्वाहुता अग्नयो यैस्तान् वनगोचरान् तापसान् अपृच्छेतां प्रार्थयेतां वनान्तरगमनायेति शेषः ॥ २।११९।१७ ॥

ताविति । ते रामलक्ष्मणाभ्यां पृष्टाः धर्मचारिणस्तापसाः तस्य वनस्य सञ्चारं देशं राक्षसैः समभिप्लुतं व्याप्तं तौ रामलक्ष्मणावूचुः ।

सञ्चारशब्दः स्वार्थाणन्तः ॥ २।११९।१८ ॥

व्यापनप्रकारं वदन्नाह– रक्षांसीति । हे राघव नानारूपाणि अनेकवेषधराणि पुरुषादानि पुरुषभक्षणशीलानि रक्षांसि रुधिराशनाः व्यालाः सर्पाः हिंस्रपशवश्च अस्मिन् महारण्ये वसन्ति । “सर्पो हिंस्रपशुर्व्यालः पुंसि श्वापदसर्पयोः” इत्यमरः । उभयार्थलाभस्त्वेकशेषवृत्त्या ॥ २।११९।१९ ॥

ननु किं तद्वासेनेत्यत आह– उच्छिष्टमिति । उच्छिष्टमुच्छिष्टस्पर्शादिना शुद्धिरहितमित्यर्थः । प्रमत्तमनवधानं वा तापसं ब्रह्मचारिणिं च अस्मिन् महारण्ये अदन्ति तान् निवारय तद्राक्षसत्वं निवर्तयेत्यर्थः ॥ २।११९।२० ॥

एष इति । वने फलान्याहरताम् ऋषीणाम् एषः पन्थाः हे राघव अनेनैव पथा दुर्गं वनं गन्तुं ते क्षममुचितम् ॥ २।११९।२१ ॥

इतीति । प्राञ्जलिभिः प्रणयसूचकबद्धयुगुलकरैस्तपस्विभिर्द्विजैः इत्यनेन प्रकारेण ईरितः कथितः यात्रायै आज्ञापित इत्यर्थः, अत एव कृतस्वस्त्ययनः कृतं स्वस्त्ययनं यस्मै सः सभार्यः सलक्ष्मणः परन्तपो राघवो रामः अभ्रमण्डलं सूर्य इव वनं प्रविवेश ॥ २।११९।२२ ॥

स्वस्ति श्रीरघुनाथपादकमलद्वन्द्वप्रसादाद्वरो

ऽयोध्याया हि शिरोमणिः समभवत्पूर्णस्त्रिवेणीतटे ।

स्वान्तध्वान्तनिवर्तनद्युमणिको रामायणस्थः सतां

वेद्यः श्रौतपथः शुभार्थनिचयः श्रीरामसन्तोषकः ॥ २।१ ॥

नमो रामाय सीतायै लक्ष्मणाय हनूमते ।

यत्कृपालेशमात्रेण विष्ण्वाद्याः प्रभवन्ति हि ॥ २ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनविंशाधिकशततमः सर्गः ॥ २।११९ ॥

इति श्रीमद्वाल्मीकिरामायणे ऽयोध्याकाण्डं समाप्तम् ।

इति शिवम् ।