अनसूयावचनश्रवणानन्तरकालिकं सीतावृत्तान्तं वर्णयन्नाह– सेति । अनसूयया अत्रिपत्न्या एवमुक्ता अनसूया नित्यमसूयारहिता वैदेही सा सीता वचः अनसूयावचनं प्रतिपूज्य मन्दं प्रवक्तुमुपचक्रमे ॥ २।११८।१ ॥
तत्प्रवचनाकारमाह– नेति । यन्मां त्वमनुभाषसे तदेतदार्यायां सकलसद्धर्द्धाश्रयत्वेन श्रेष्ठायां त्वयि आश्चर्यं न, नार्याः पतिरेव गुरुः एतन्ममापि यथावत् विदितम् ॥ २।११८।२ ॥
स्वविदितमेवाह– यद्यपीति । अनार्यः गुणैर्हीनः अत एव वृत्तिवर्जितः यथोचितवर्तनरहितः एष भर्ता यद्यपि भवेत् तथापि मया कल्याणशीलया स्त्रिया अत्र अस्मिन् पत्यौ अद्वैधं सेव्यत्वविषयकद्वेधीभावराहित्यं यथा स्यात्तथा वर्तव्यं वर्तितव्यं आगमशास्त्रस्यानित्यत्वादिडभावः एष एव धर्मः भवेत् स्त्रीणामिति शेषः । “उपचर्तव्यः” इति भूषणपाठः ॥ २।११८।३ ॥
किमिति । गुणाः श्लाघ्याः प्रशंसनीयाः यस्य सः सानुक्रोशः दयासहितः जितेन्द्रियः नियमितोभयकरणः स्थिरः ध्वंसाप्रतियोगी अनुरागो यस्य सः पतिः सेव्यश्चेत् किम् ॥ २।११८।४ ॥
रामगुणान्वर्णयन्ती आह– यामिति । महाबलो रामः यां वृत्तिमनुवृत्तिं प्रीतिमित्यर्थः, कौसल्यायां मुख्यमातरि वर्तते वर्तयति करोतीत्यर्थः, तामेव वृत्तिमन्यासामपि नृपनारीणां नृपनारीषु वर्तते ॥ २।११८।५ ॥
सकृदिति । नृपेण दशरथेन सकृदपि दृष्टासु भोग्यात्वबुद्ध्या ऽवलोकितासु स्त्रीषु नृपवत्सलो रामः मानमुत्सृज्य मातृवत् मातरीव वर्तते ॥ २।११८।६ ॥
आगच्छन्त्या इति । एवं भयावहं विजनं वनमागच्छन्त्याः मम श्वश्र्वा यत् पत्यनुसरणं समाहितमुपदिष्टं तन्मे हृदये स्थिरम्, एतेन स एव धर्मो भवत्या अप्युपदिष्ट इति सूचितम् ॥ २।११८।७ ॥
पाणीति । पाणिप्रदानकाले अग्निसंनिधौ मे जनन्या यद्वाक्यमनुशिष्टं शिक्षितम् तदपि मे धृतं स्थिरीकृतम् ॥ २।११८।८ ॥
नवीकृतमिति । हे धर्मचारिणि ते वाक्यैः तवोपदिष्टवचनैः सर्वं श्वश्र्वाद्युपदिष्टं नवीकृतं नवीनतां प्रापितमतः नार्याः पतिशुश्रूषणात् अन्यत् तपो न विधीयते इति मे निश्चयो ऽस्तीति शेषः, पूर्वार्धेन “विस्मृतं तु मे सर्वं वाक्यैः स्वैः” इति भट्टपाठः ॥ २।११८।९ ॥
पतिशुश्रूषायां सदाचारं प्रमाणयन्ती आह– सावित्रीति । सावित्री सत्यवतो भार्या पतिशुश्रूषां कृत्वा स्वर्गे महीयते पूज्यते तथावृत्तिः सवित्रीवृत्तिसदृशवृत्तिविशिष्टा त्वं पतिशुश्रूषया दिवं समस्तसिद्धिप्राप्तिजनितातिप्रमोदं याता प्राप्ता ॥ २।११८।१० ॥
वरिष्ठेति । सर्वनारीणां वरिष्ठा पत्यतिशुश्रूषाकर्त्रीत्वेन श्रेष्ठा एषा रोहिणी देवता चन्द्रं स्वपतिं विना मुहूर्तमपि न दृश्यते ॥ २।११८।११ ॥
उपसंहरन्ती आह– एवमिति । एवंविधाः भर्तृदृढव्रता अत एव प्रवराः श्रेष्ठाः अरुन्धत्यादय इत्यर्थः, स्वेन स्वकीयेन पुण्येन कर्मणा पत्यनुवर्तनेन देवलोके महीयन्ते पूज्यन्ते ॥ २।११८।१२ ॥
तत इति । ततः सीताकथनानन्तरं सीतयोक्तं वचः श्रुत्वा संहृष्टा अनसूया मैथिलीं शिरसि आघ्राय हर्षयन्ती सती उवाच ॥ २।११८।१३ ॥
तद्वचनाकारमाह– नियमैरिति । विविधैः अनेकप्रकारैः नियमैः प्राणायामादिविधिभिः महत् बहु तपः तद्बलं मया आप्तं प्राप्तं तन्मे ऽस्ति तत् बलं संश्रित्य हे सीते त्वां छन्दये वरं याचस्वेति प्रार्थये ॥ २।११८।१४ ॥
उपपन्नमिति । हे मैथिलि उपपन्नं श्रवणं प्राप्तं तव वचनं युक्तमुचितमतो ऽहं प्रीतास्ति अतस्ते ऽहं
किं प्रियं करवाणि तदुच्यतां याच्यतामित्यर्थः ॥ २।११८।१५ ॥
तस्या इति । तस्या अनसूयायात्तद्वचनं श्रुत्वा अविस्मिता तदैश्वर्यविषयकविस्मयरहिता मन्दविस्मया ईषद्धासविशिष्टा सीता तपोबलसमन्वितामनसूयां कृतं त्वदनुग्रहेणैव सर्वं सम्पादितमित्यर्थः, इत्यब्रवीत् ॥ ११८।१६ ॥
सेति । तया सीतया एवमनेन प्रकारेण उक्ता सा अनसूया प्रीतितरा प्रीतिप्रापिका अभवत् । प्रीतिप्रापणमेवाह– हे सीते ते प्रहर्षं लोभराहित्यसूचितस्वनिष्ठस्वतःसिद्धनित्यप्रमोदं सफलं फलसहितमहं करोमि ॥ २।११८।१७ ॥
फलमेवाह– इदमिति । मया दत्तमिदं माल्यादि तव गात्राणि शोभयेदिदं माल्यादि अनुरूपं तवैव योग्यमत एव असंक्लिष्टं बाधारहितं सन्नित्यमेव भविष्यति स्थास्यति तत्राङ्गरागः मिश्रकेशरचन्दनादिः अनुलेपनं कर्पूरकस्तूर्यादि । श्लोकद्वयमेकान्वयि ॥ २।११८।१८,१९ ॥
अङ्गरागेणेति । हे जनकात्मजे दिव्येन अङ्गरागेण लिप्ताङ्गी त्वं श्रीर्विष्णुमिव भर्तारं शोभयिष्यसि । किञ्च श्रीः लक्ष्मीः त्वमव्ययं विकारशून्यं विष्णुं स्वप्रकाशद्वारा सर्वत्र पूर्णं भर्तारं स्वपतिं यथा यथावत् शोभयिष्यसि शोभां प्रापयिष्यसि ॥ २।११८।२० ॥
सेति । सा अनसूयया प्रार्थिता मैथिली अनुत्तमं प्रीतिदानं वस्त्रादि जग्राह । प्रीतिदानमित्यनेन प्रतिषिद्धप्रतिग्रहाणां क्षत्रियाणामपि ग्रहणार्हत्वं सूचितम् ॥ २।११८।२१ ॥
प्रतीति । यशस्विनी सीता तमनसूयासमर्पितं प्रीतिदानं प्रतिगृह्य श्लिष्टाञ्जलिपुटा प्रणयसूचकबद्धयुगलकरा सती तपोधनामनसूयां समुपास्त ॥ २।११८।२२ ॥
तथेति । वचनं सीतोक्तिं श्रोतुकामेति शेषः । दृढव्रता अनसूया अनुप्रियां प्रतिक्षणं प्रीतिविषयीभूतां काञ्चित्कथां प्रष्टुमारेभे ॥ २।११८।२३ ॥
प्रश्नाकारमाह– स्वयंवर इति । हे सीते अनेन यशस्विना राघवेण स्वयंवरे त्वं प्राप्तेति या कथा मे श्रुतिं श्रवणमुपागता प्राप्ता तां कथां विस्तरेण श्रोतुमिच्छामि, तत् तस्माद्धेतोः यथाभूतं यथाजातं कात्र्स्न्येन वक्तुमर्हसि ॥ २।११८।२४,२५ ॥
एवमिति । एवमुक्ता पृष्टा सा सीता श्रूयतामित्युक्त्या तामनसूयया पृष्टां कथां कथयामास ॥ २।११८।२६ ॥
तत्कथनाकारमाह– मिथिलेत्यादिभिः । जनको नाम जनकनामा मिथिलाधिपतिः न्यायतः मेदिनीं पृथ्वीं शास्ति पालयति ॥ २।११८।२७ ॥
तस्येति । क्षेत्रमण्डलं यागोपयोगि क्षेत्रं कृषतः लाङ्गलहस्तस्य यथाशास्त्रं गृहीतहलविशिष्टकरविशिष्टस्य तस्य जनकस्य अग्रे जगतीं भित्त्वाहमुत्थिता अतो ऽहं नृपतेः सुता ॥ २।११८।२८ ॥
स इति । मुष्टिविक्षेपतत्परः “या जाता ओषधयो देवेभ्यः” इत्यादिमन्त्रोक्तविधिना मुष्टिगतौषधिप्रक्षेपणशीलः स नरपतिर्जनकः पांसुगुण्ठितसर्वाङ्गीं धूलीव्याप्तशरीरां मां दृष्ट्वा विस्मितो ऽभवत् ॥ २।११८।२९ ॥
अनपत्येनेति । अनपत्येन अपत्यान्तररहितेन राज्ञा स्नेहात् अङ्कमारोप्य मामिति शेषः, मम इयं तनयेत्युक्त्वा मयि स्नेहः अत्यनुरागः निपातितः कृतः ॥ २।११८।३० ॥
अन्तरिक्ष इति । अन्तरिक्षे आकाशे अप्रतिमा उच्चारयितृस्वरूपरहिता ह्यमानुषी मानुषवाक्सदृशी वाक् उक्ता प्रादुर्भूता । तदाकारमाह– एतद्भवदुक्तमेवं समीचीनमित्यर्थः, यतः धर्मेण तव तनया ॥ २।११८।३१ ॥
तत इति । ततः मत्प्राप्तेः प्रहृष्टः प्राप्तहर्षः धर्मात्मा मिथिलाधिपः मिथिलापालयिता नराधिपो राजा मे पिता मामवाप्य विपुलामृद्धिमवाप्तः ॥ २।११८।३२ ॥
दत्तेति । पुण्यकर्मणे पुण्यकर्मविशिष्टायै ज्येष्ठायै इष्टवद्देव्यै अत्यभिमतपत्न्यै अहं दत्तास्मि । स्निग्धया स्नेहविशिष्टया तया मातृसौहृदान्मात्रुचितसौहार्दात् सम्भाविता सेविता ऽस्मि ॥ २।११८।३३ ॥
पतीति । पतिसंयोगसुलभं पतिसंयोगः सुलभः सुलब्धव्यो यस्मिन् तन्मे वयो दृष्ट्वा वित्तनाशात् अर्जितवित्तस्यादर्शनात् अधन इव दीनो मे पिता चिन्तामभ्यगमत् ॥ २।११८।३४ ॥
सदृशादिति । शक्रेण समो ऽपि कन्यापिता सदृशात् कुलादिना स्वतुल्याद्वरपित्रादेः अपकृष्टात् वरमातुलादेश्च जनात् प्रधर्षणमनादरणमवाप्नोति ॥ २।११८।३५ ॥
तामिति । अदूरस्थां निश्चितोत्तरकालभाविनीमित्यर्थः । तां वरपित्रादिकृतां धर्षणां तिरस्कृतिमात्मनि सन्दृश्य निश्चित्य अप्लवः प्लवरहित इव चिन्तार्णवगतः चिन्तासमुद्रे निमग्नः पार्थिवः पारं न आससाद प्राप ॥ २।११८।३६ ॥
अयोनिजामिति । अयोनिजां मां ज्ञात्वा सदृशमयोनिजत्वादिना तुल्यमनुरूपं प्रादुर्भूतवयःसौन्दर्यादिना च तुल्यं पतिं चिन्तयन् सन् स मत्पिता नाध्यगच्छत् निश्चयं न प्राप्नोत् ॥ २।११८।३७ ॥
तस्येति । सन्ततं निरन्तरं चिन्तयानस्य तस्य मत्पितुः तनूजायाः धर्मतः स्वयंवरं करिष्यामि इति इयं बुद्धिर्निश्चयो जाता ॥ २।११८।३८ ॥
स्वयंवरप्रकारमाह– महायज्ञ इति । तदा तस्मिन् महायज्ञे दक्षकर्तृकमहायागसमये महात्मना वरुणेन वरुणद्वारा शिवाज्ञापितदैवतैः धनुर्वरं दत्तम् । देवराजनामकनिमिज्येष्ठपुत्रायेति शेषः । अक्षयसायकौ तूणी च दत्तौ
किञ्च वरुणेन उः शम्भुश्चासौ अरुणो लोहितश्च वरुणः तेन स्वभागाकल्पनजनितकोपहेतुकारुण्यविशिष्टशिवेनेत्यर्थः । धनुर्वरं दत्तं देवैर्दापितम् ॥ ११८।३९ ॥
असञ्चाल्यमिति । गौरवात् अतिगुरुत्वाद्धेतोः यत्नेनापि मनुष्यैः असञ्चाल्यं यद्धनुस्तद्धनुर्नमयितुं नराधिषाः स्वप्नेष्वपि न शक्ताः ॥ २।११८।४० ॥
तदिति । तद्धनु प्राप्य पूर्वं पार्थिवान् आमन्त्र्य आमन्त्रणेन स्वस्थानं प्रापय्येत्यर्थः । नरेन्द्राणां समवाये समूहे इदं धनुः उद्यम्य यो नरः सज्यं कुरुते तस्य नरस्य भार्या मम दुहिता भविष्यति इति सत्यवादिना मे पित्रा व्याहृतं कथितम् । श्लोकद्वयमेकान्वयि ॥ २।११८।४१,४२ ॥
तदिति । गिरिसंनिभं तद्धनुःश्रेष्ठं दृष्ट्वा गौरवाद्धेतोः तस्य तोलने इयत्ताकरणे अशक्ताः नृपा अभिवाद्य प्रणम्य जग्मुः ॥ २।११८।४३ ॥
सुदीर्घस्येति । विश्वामित्रेण सहितः अयं महाद्युतिः राघवः सुदीर्घस्य कालस्य गते सतीति शेषः, यज्ञं द्रष्टुं समागतः ॥ २।११८।४४ ॥
लक्ष्मणेनेति । लक्ष्मणेन सह रामः मम पित्रा सुपूजित आसीदिति शेषः । धर्मात्मा सुपूजितो विश्वामित्रस्तु धनुर्दर्शनकाङ्क्षिणौ दशरथस्य सुतौ रामलक्ष्मणौ इमौ इति हेतोः रामाय दैविकं दिव्यं धनुः दर्शय इति तत्र तस्मिन् समये पितरं प्रोवाच । सार्धश्लोकद्वयमेकान्वयि ॥ २।११८।४५,४६ ॥
इतीति । विप्रेण तेन विश्वामित्रेण इत्युक्तः पिता तद्धनुः समुपानयत् प्रापयत् दर्शयामासेत्यर्थः ॥ २।११८।४७ ॥
निमेषान्तरेति । महाबलो वीर्यवान् अतिप्रभाववान् रामः तत् धुनर्निमेषान्तरमात्रेण आनस्य
झटिति ज्यां धनुः समारोप्य पूरयामास आचकर्ष “वीर्यं शुक्रे प्रभावे च तेजस्सामर्थ्ययोरपि” इति मेदिनी ॥ २।११८।४८ ॥
तेनेति । वेगात्पूरयता तेन रामेण धनुः मध्ये द्विधा भग्नं भञ्जितं पतितस्य धनुषः अशनेरिव भीमः शब्दो ऽभवत् ॥ २।११८।४९ ॥
तत इति । ततः धनुर्भङ्गानन्तरं सत्याभिसन्धिना सत्यप्रतिज्ञेन पित्रा उत्तमं जलभाजनमुद्यम्य गृहीत्वा रामाय दातुमहमुद्यता स्वसमीपं प्रापिता ॥ २।११८।५० ॥
दीयमानामिति । तदा तस्मिन् काले अयोध्याधिपतेः दशरथस्य छन्दमभिप्रायमविज्ञाय दीयमानां मां राघवो न प्रतिजग्राह, एतेन पितुरनुमत्यनन्तरं ग्रहीतास्मीति सूचितम् ॥ २।११८।५१ ॥
तत इति । ततः रामकर्तृकप्रतिग्रहाभावानन्तरं दशरथं मम श्वशुरमामन्त्र्य विदितात्मने रामाया ऽहं दत्ता ॥ २।११८।५२ ॥
ममेति । ममानुजा ऊर्मिला लक्ष्मणस्य भार्यार्थे दत्ता ॥ २।११८।५३ ॥
उपसंहरन्ती आह– एवमिति । एवमुक्तप्रकारेण स्वयंवरे रामाय अहं दत्तास्मि अत एव वीर्यवतां प्रभावविशिष्टानां वरं श्रेष्ठं पतिमहं धर्मेण अनुरक्तास्मि ॥ २।११८।५४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टादशाधिकशततमः सर्गः ॥ २।११८ ॥