ऋषिगमनानन्तरकालिकं रामवृत्तान्तमाह– राघव इत्यादिभिः । सर्वेषु ऋषिषु अपयातेषु सत्सु चिन्तयन् राघवः बहुभिः कारणैः तत्र वासं न अरोचयत् ॥ २।११७।१ ॥
कारणान्येवाह– इहेति । इह अस्मिन् स्थाने मे ये भरतादयो दृष्टाः तान् नित्यमनुशोचतो मे सा तद्विषया स्मृतिः अन्वेति निरन्तरं प्राप्नोति ॥ २।११७।२ ॥
स्कन्धेति । महात्मनस्तस्य भरतस्य स्कन्धावारनिवेशेन स्कन्धावारः सेनासमूहस्तस्य निवेशेन निवासेन हेतुना हयहस्तिकरीषैः भृशमत्यन्तम् उपमर्दः भूमेरशुद्धिरित्यर्थः कृतः ॥ २।११७।३ ॥
तस्मादिति । तस्माद्धेतोः अन्यत्र गच्छामि इति सञ्चिन्त्य वैदेह्या लक्ष्मणेन च सङ्गतः स रामः प्रातिष्ठत प्रस्थानमकरोत् ॥ २।११७।४ ॥
स इति । स कृतप्रस्थानो रामः अत्रेः आश्रममासाद्य तमत्रिं ववन्दे, भगवान् अत्रिरपि तं रामं पुत्रवत् पुत्रमिव प्रत्यपद्यत प्राप्नोत् ॥ २।११७।५ ॥
स्वयमिति । अस्य रामस्य आतिथ्यं सुसत्कृतं यथा स्यात्तथा आदिश्य सम्पाद्य सौमित्रिं सीतां च समसान्त्वयत् वचनैरतोषयत् ॥ २।११७।६ ॥
पत्नीमिति । तमत्रिसमीपमनुप्राप्तामत एव आमन्त्र्य सम्बोध्य सत्कृतामत्रिणा प्राप्तसत्कारां महाभागामतिशयभाग्यवतीं तापसीं परमात्मविचारनिरतामत एव धर्मचारिणीं विहितकर्माचरणशीलां वृद्धामनसूयां पत्नीं सर्वभूतहिते रतः धर्मज्ञः अत्रिः सान्त्वयामास सान्त्वनवचनैः सन्तोषयामासेत्यर्थः, वैदेहीं प्रतिगृह्णीष्व आलिङ्गनं कुरु इत्यब्रवीच्च । श्लोकद्वयमेकान्वयि ॥ २।११७।७,८ ॥
रामायेति । अथ तापसीं धर्मचारिणीं तामनसूयां रामाय आचचक्षे तत्प्रभावं कथयामासेत्यर्थः । कथनप्रकारमाह– निरन्तरं दशवर्षाणि अनावृष्ट्या वृष्ट्यभावेन लोके दग्धे सति यया मूलफले सृष्टे मुनिकर्तृकभोजनार्थं स्वतपोबलेन उत्पादयामास, जाह्नवी जह्नुप्रादृर्भूता गङ्गा प्रवर्तिता मुनीनां स्नानपानार्थं स्वसमीपं प्रापिता, यया च दशवर्षसहस्राणि महत्तपस्तप्तमत एव अनसूयाव्रतैः प्रत्यूहाः ऋषीणां तपोविप्राः निबर्हिताः दूरीकृताः, यया च देवकार्यनिमित्तं देवकार्यार्थं दशरात्रं रात्रिः एकनिशा कृता, सा उग्रेण तपसा युक्ता नियमैश्चालङ्कृता इयं तव माता इव पूजनीयेति शेषः । तथा च पौराणिकी गाथा– काचित् ऋषिपत्नी अनसूयासखी दशाहाभ्यन्तरे प्रातर्विधवा भवेति माण्डव्यऋषिणा शप्ता ततः प्रातरेव मा भूदिति तत्सख्या प्रतिशापे उक्ते प्रातःकालमनुपलभ्य व्याकुलैः देवैः प्रार्थितया ऽनसूयया दशरात्रावधिकालमेकरात्रित्वेन प्रकल्प्य स्वसख्या वैधव्यं परिहृत्य देवकार्यं चकारेति । श्लोकचतुष्टयमेकान्वयि ॥ २।११७।९१२ ॥
तामिति । तां वर्णितप्रभावामत एव सर्वभूतानां नमस्कार्यां वृद्धां सदा नित्यमक्रोधनां तपस्विनीमिमामनसूयां वैदेही अभिगच्छतु पादवन्दनार्थं प्राप्नोतु ॥ २।११७।१३ ॥
एवमिति । एवं ब्रुवाणम् ऋषिं तथेत्युक्त्वा राघवः सीतामवलोक्य इदमब्रवीत् ॥ २।११७।१४ ॥
तद्वचनाकारमाह– राजेति । हे राजपुत्रि यतः अस्य मुनेरेतं समीरितमस्माभिः श्रुतमतः आत्मनः श्रेयो ऽर्थं तपस्विनीं शीघ्रमभिगच्छ ॥ २।११७।१५ ॥
तदेव भङ्ग्यन्तरेणाह– अनसूयेति । कर्मभिः अन्याशक्यक्रियाभिः अनसूयेति या लोके ख्यातिमागता तामभिगम्यामभिगन्तुं योग्यां शीघ्रमभिगच्छ ॥ २।११७।१६ ॥
सीतेति । राघवस्य तद्वचः सीता श्रुत्वैव शिथिलां शिथिलशरीरां वलितां वलीभूतचर्मविशिष्टां प्रवाते अतिवाते कदलीमिव वेपमानाङ्गीमत्रिपत्नीमनसूयामभिचक्राम । श्लोकद्वयमेकान्वयि ॥ २।११७।१७,१८ ॥
तामिति । तामनसूयामव्यग्रा सीता अभ्यवादयत् स्वं नाम च समुदाहरत्
प्रणामविधित्वेनोच्चारयामास ॥ २।११७।१९ ॥
अभिवाद्येति । तापसीं तामनसूयामभिवाद्य प्रणम्य बद्धाञ्जलिपुटा वैदेही अनामयं कुशलं पर्यपृच्छत् ॥ २।११७।२० ॥
तत इति । धर्मचारिणीं महाभागां सीतां दृष्ट्वा त्वं धर्ममवेक्षसे विचारयसि दिष्ट्या भाग्यमेतत् इति सान्त्वयन्ती अनसूया अब्रवीत् ॥ २।११७।२१ ॥
तद्वचनाकारमाह– त्यक्त्वेति । हे सीते ज्ञातिजनं मानवृद्धिं च त्यक्त्वा वने अवरुद्धं नियुक्तं रामं यत् त्वमनुगच्छसि दिष्ट्या भाग्यमेतत् ॥ २।११७।२२ ॥
तत्र हेतुमाह– नगरस्थ इति । यासां स्त्रीणां भर्ता प्रियः तासामेव महोदयाः महान् उदयो येषां ते लोकाः भवन्तीति शेषः ॥ २।११७।२३ ॥
दुःशील इति । दुःशीलत्वाद्यन्यमगुणविशिष्टो ऽपि पतिः आर्यस्वभावानां सात्त्विकप्रकृतीनां स्त्रीणां परमं दैवतम् ॥ २।११७।२४ ॥
नेति । अतः पत्युः विशिष्टमधिकं बान्धवं विमृशन्ती विचारयन्ती अहं न पश्यामि । तत्र हेतुः अव्ययम् अविनाशि तपःकृतं तपसा सम्पादितं फलमिव सर्वत्र सर्वावस्थासु योग्यं सुखदाने उचितं पतिमवेहीति शेषः । एतेन पतिसेवैव गुणस्तत्त्यागो दोष इति सूचितम् ॥ २।११७।२५ ॥
न त्विति । कामवक्तव्यहृदयाः कामः वक्तव्यो यस्मिन् तत् हृदयं यासां ताः । किञ्च कामस्य वक्तव्यमधीनं हृदयं यासां ताः । “गर्ह्याहीनौ तु वक्तव्यौ” इत्यमरः । अत एव भर्तृनाथाः भर्तृणामपि नियामिकाः याः असत्स्त्रियः चरन्ति ताः एवं गुणदोषं नैवावगच्छन्ति जानन्ति ॥ २।११७।२६ ॥
प्राप्नुवन्तीति । अकार्यस्य परमार्थविरोधिनः कामस्य वशमापन्नाः प्राप्ता अत एव तद्विधाः स्वपतिपारतन्त्र्यरहिताः याः स्त्रियस्ताः धर्मभ्रंशमयशश्च प्राप्नुवन्ति ॥ २।११७।२७ ॥
त्वद्विधा इति । दृष्टाः ज्ञाता लोकपरावराः उत्तममध्यमधर्मा याभिस्ताः अत एव गुणैर्युक्ताः पत्यनुकूलवर्तनरूपगुणविशिष्टाः त्वद्विधाः त्वत्सदृशाः स्त्रियः यथा पुण्यकृतः पुरुषास्तथा स्वर्गे चरिष्यन्ति चरन्ति ॥ २।११७।२८ ॥
तदिति । पतिः प्रधानो यस्याः सा समयानुवर्तिनी यथाकालमनुवर्तनशीला एतं प्रतिसेवारूपधर्ममनुव्रता स्वीकारकर्त्री त्वं स्वभर्तुः सहधर्मचारिणी भव ततस्तस्मात् यशो धर्मं च समाप्स्यसि प्राप्स्यसि ॥ २।११७।२९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तदशाधिकशततमः सर्गः ॥ २।११७ ॥