भरतवृत्तान्तमुक्त्वा चित्रकूटस्थरामवृत्तान्तं वर्णयन्नाह– प्रतीति । भरते प्रतियाते सति तपोवने वसन् रामः सोद्वेगं भयसहितं तपस्विनामौत्सुक्यं किञ्चिद्वक्तव्यविषयकोत्सुकतां लक्षयामास ॥ २।११६।१ ॥
तदेव भङ्ग्यन्तरेणाह– य इति । पुरस्तात् पूर्वं तत्र तस्मिन् चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरताः नितरां प्रीतिं प्राप्तास्तान् उत्सुकान् किञ्चिद्वक्तव्यविषयकौत्सुक्यविशिष्टान् अलक्षयत् अबुध्यत ॥ २।११६।२ ॥
बोधनहेतुं दर्शयन्नाह– नयनैरिति । शङ्किताः किञ्चिद्धेतुकशङ्कां प्राप्ताः मुनयः नयनादिभिः रामं निर्दिश्य शनैः अन्योन्यं जल्पन्तः मिथः परस्परं कथाः चक्रुः ॥ २।११६।३ ॥
तेषामिति । तेषामौत्सुक्यं किञ्चिद्वक्तव्यविषयकौत्सुकतामालक्ष्य ज्ञात्वा आत्मनि शङ्कितः आत्मोद्देश्यकनिदर्शनेन प्राप्तस्वात्मविषयकशङ्कः रामः कृताञ्जलिः सन् कुलपतिं सङ्घाधीशम् ऋषिं वाल्मीकिमुवाच । “शङ्कते” इति भट्टपाठः अशङ्कतेति तद्व्याख्या ॥ २।११६।४ ॥
तद्वचनाकारमाह– नेति । हे भगवन् येन कारणेन तपस्विनो विक्रियन्ते विकारं लभन्ते तदिदं विकृतं विकारकारणं किञ्चित्पूर्ववृत्तं मयि न दृश्यते कच्चित् ॥ २।११६।५ ॥
प्रमादादिति । मे अवरजस्य कनिष्ठस्य लक्ष्मणस्य प्रमादादनवधानतः महात्मनो नानुरूपमननुरूपं किञ्चिच्चरितं कृतम् । ऋषिभिर्न दृष्टं कच्चित् ॥ २।११६।६ ॥
कच्चिदिति । मयि शुश्रूषणपरा सीता वो युष्मान् शुश्रूषमाणा सती प्रमदाभ्युचितां स्त्रीजनविहितां युक्तां भवत्सु योग्या वृत्तिं वर्तते प्रवर्तयति न कच्चित् ॥ २।११६।७ ॥
अथेति । अथ रामवचनश्रवणानन्तरं जरया अवस्थाविशेषेण अवृद्धो ऽ ऽपि तपसा जरां गत इव वेपमानः ऋषिः भूतदयापरं राममुवाच ॥ २।११६।८ ॥
तद्वचनाकारमाह– कुत इति । कल्याणसत्त्वायाः कल्याणस्वभावायाः अत एव सदा नित्यं कल्याणाभिरतेः कल्याणमनस्कायाः वैदेह्याः विशेषतः तत्त्वतः तपस्विषु चलनं प्रकृतित्यागः कुतः किंनिमित्तकः ॥ २।११६।९ ॥
ननु किमर्थमृषीणां मदुद्देश्यकप्रदर्शनमित्यत आह– त्वदिति । त्वमेव निमित्तं कारणं यस्मिन् तत् रक्षोभ्यः समुपस्थितमिदं भयं तापसान् प्रति वर्तते तेन संविग्ना ऋषयः मिथः परस्परं कथाः कथयन्ति ॥ २।११६।१० ॥
भयहेतुं वर्णयन्नाह– रावणेत्यादिभिः । रावणावरजः खरो नाम राक्षसः धृष्टादिश्च त्वां न मृष्यते त्वत्स्थितिं न सहते अतः जनस्थाननिवासिनः सर्वान् तापसान् उत्पाट्य सम्पीड्य प्रवर्तते इति शेषः । एतेनास्मान् भवदनुयायिनो जानन्तीति सूचितम् । श्लोकद्वयमेकान्वयि ॥ २।११६।११,१२ ॥
त्वमिति । यदाप्रभृति यत्कालादारभ्य अस्मिन्नाश्रमे त्वं वर्तसे तदाप्रभृति रक्षांसि विप्रकुर्वन्ति ॥ २।११६।१३ ॥
विप्रकारप्रकारमाह– दर्शयन्तीति । बीभत्सैः निन्दितैः क्रूरैः क्रूरभाषणादिभिः भीषणकैः भयोत्पादकैः नानारूपैः व्याघ्रादिस्वरूपैः असुखदर्शनैः सुखनिवर्तकदर्शनविशिष्टैः विरूपैः विगतनासिकादिभिः रूपैः स्वरूपैः दर्शयन्ति आत्मानमिति शेषः ॥ २।११६।१४ ॥
अप्रशस्तैरिति । अनार्याः राक्षसाः अप्रशस्तैः प्राशस्त्यनिवर्तकैः अशुचिभिः मद्यादिभिः पुरतः स्थितान् अपरान् तापसान् सम्प्रयुज्य संयोज्य प्रतिघ्नन्ति ॥ २।११६।१५ ॥
तेष्विति । तेषु आश्रमस्थानेषु अबुद्धमज्ञातं यथा स्यात्तथा अबलीय निलीय अल्पचेतसः अल्पज्ञान् तापसान् नाशयन्तो रमन्ते राक्षसा इति शेषः ॥ २।११६।१६ ॥
अवेति । हवने हवनकाले समुपस्थिते सति स्रुग्भाण्डान् स्रुगादियागसामग्रीः अवक्षिपन्ति अग्नीन् वारिणा सिञ्चन्ति कलशान्प्रमर्दन्ति भिन्दन्ति ॥ २।११६।१७ ॥
तैरिति । दुरात्मभिः आविष्टान् दूषितानित्यर्थः । आश्रमान् प्रजिहासवस्त्यक्तुमिच्छवः ऋषयः अन्यदेशस्य गमनाय मां चोदयन्ति प्रेरयन्ति ॥ २।११६।१८ ॥
तदिति । हे राम पुरा अस्मिन् वने पूर्णास्ते राक्षसाः शारीरीं शरीरसम्बन्धिनीं हिंसां तपष्विषु दर्शयन्ति ततस्तस्माद्धेतोः इममाश्रमं त्यक्ष्यामः ॥ २।११६।१९ ॥
बह्विति । बहुमूलफलमितो ऽविदूरान्निकटे अश्वस्य ऋषेः आश्रमं सगणो ऽहं श्रयिष्ये । एतेनाश्वऋषेः रक्षणसामर्थ्यं ध्वनितम् ॥ २।११६।२० ॥
खर इति । हे राम खरो राक्षसः त्वय्यपि अयुक्तमयोग्यं कर्म पुरा त्वत्संन्निधौ राक्षसपूर्त्या प्रवर्तते प्रवर्तयिष्यति अतः अस्माभिः सह इतो गच्छ यदि बुद्धिर्गमननिश्चयः प्रवर्तते ॥ २।११६।२१ ॥
सेति । नित्यं युक्तस्य समर्थस्यापि सतस्तव अद्य इह वासः सन्देहः सन्देहास्पदीभूतः अत एव दुःखं दुःखप्रदः ॥ २।११६।२२ ॥
इतीति । इत्युक्तवन्तं समुत्सुकं तपस्विनमवबद्धुं निरोद्धुं न शशाक ॥ २।११६।२३ ॥
अभीति । राघवमभिनन्द्य प्रशस्य समाश्वास्य समाश्वासनं कृत्वा समाधाय चित्ते निधाय आश्रमं त्यक्त्वा कुलैः ऋषिसमूहैः सह स कुलपतिः जगाम ॥ २।११६।२४ ॥
राम इति । अनुगमनात् अनुव्रजनात् ऋषिगणं कुलपतिं च संसाध्य प्रसाद्य अभिवाद्य च तैः प्रीतैः अनुमतः आज्ञप्तः उपदिष्टार्थः ज्ञाततत्त्वो रामः पुण्यं स्वनिलयं वासाय उपसम्पेदे जगाम ॥ २।११६।२५ ॥
आश्रममिति । ऋषिविरहितमाश्रमं राघवः क्षणमपि न जहौ । ऋषिचरिते रामे धृतगुणाः समर्पितमनसस्तापसाः राघवं सततमनुगताः मनसा प्राप्ताः ॥ २।११६।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षोडशाधिकशततमः सर्गः ॥ २।११६ ॥