११५ नन्दिग्रामनिवासः

भरतकर्तृकगृहप्रवेशानन्तरकालिकं वृत्तान्तमाह– तत इत्यादिभिः । ततः गृहप्रवेशानन्तरं ताः सहगताः मातृ़ः अयोध्यायां निक्षिप्य संस्थाप्य दृढव्रतः अनिवार्यसङ्कल्पः शोकसन्तप्तो भरतः गुरून् वशिष्ठप्रभृतीन् अथाब्रवीत् समङ्गलमुच्चारयामास ॥ २।११५।१ ॥

तद्वचनाकारमाह– नन्दिग्राममिति । अहं नन्दिग्रामं गमिष्यामि अत्र अस्मिन् विषये वो युष्मान् आमन्त्रये प्रार्थयामि, तद्गमनाय भवदाज्ञां वाञ्छामीत्यर्थः । गमने प्रयोजनमाह– तत्र नन्दिग्रामे राघवं रामं विना गतो ऽहमिदमनुभूयमानं सर्वं दुःखं सहिष्ये ॥ २।११५।२ ॥

दुःखहेतुं वदन्नाह– गत इति । राजा दिवं ब्रह्मादिस्तुतं साकेतं गतः, गुरुः ममातीव पूज्यः स रामः वनस्थो ऽस्तीति शेषः, अतः राज्याय राज्यं प्राप्तुं रामं प्रतीक्षे यतः महायशाः स राम एव राजा ॥ २।११५।३ ॥

एतदिति । महात्मनो भरतस्य एतच्छुभं वाक्यं श्रुत्वा सर्वे मन्त्रिणः पुरोहितो वसिष्ठश्च अब्रुवन् ॥ २।११५।४ ॥

तद्वचनाकारमाह– सुभृशमिति । हे भरत भ्रातृवात्सल्यात् यत् त्वयोक्तं तत् इदं तवैव अनुरूपमतः सुभृशमत्यन्तं श्लाघनीयम् । एतेनेदं गमनमस्माकमनुमतमिति सूचितम् ॥ २।११५।५ ॥

सर्वानुमतौ हेतुं वदन्नाह– नित्यमिति । बन्धुलुब्धस्य बन्धुप्राप्तिविषयकातीच्छावतः अत एव भ्रातृसौहृदे भ्रातृसौहार्दसम्पादने तिष्ठतः अत एव आर्यमत्युत्तमं मार्गं पन्थानं प्रपन्नस्य प्राप्तस्य ते तव आर्यं मार्गं कः पुमान् नानुमन्येत सर्वो ऽपि अनुमन्येतेत्यर्थः, मार्गमित्युभयान्वयि ॥ २।११५।६ ॥

मन्त्रिणामिति । यथाभिलषितमभिलषितमनतिक्रम्य प्रियं मन्त्रिणां वचनं श्रुत्वा मे रथो युज्यतामिति वाक्यं सारथिमब्रवीत् ॥ २।११५।७ ॥

प्रहृष्टेति । प्रहृष्टवदनो भरतः मातृ़ः समभिभाष्य समभिभाषणपूर्वकाज्ञां गृहीत्वा रथमारुरोह ॥ २।११५।८ ॥

आरुह्येति । क्षिप्रं शीघ्रं रथमारुह्य मन्त्रिपुरोहितैर्वृतौ उभौ शत्रुघ्नभरतौ ययतुः ॥ २।११५।९ ॥

गमनप्रकारमाह– अग्रत इति । वसिष्ठप्रमुखा गुरवः सर्वे द्विजाश्च प्राङ्मुखाः सन्तः यतः येन मार्गेण सर्वे नन्दिग्रामः सर्वेषां कामानाम् प्राप्तिर्यस्मात् स एव नन्दिग्रामः भवेत् प्राप्नुयादित्यर्थः, तेन प्रययुः ॥ २।११५।१० ॥

बलमिति । अनाहूतमपि गजादिसङ्कुलं बलं सैन्यं प्रययौ पुरवासिनश्च प्रययुः ॥ २।११५।११ ॥

रथस्थ इति । शिरसि पादुके आदाय रथस्थो भरतस्तूर्णं ययौ ॥ २।११५।१२ ॥

भरत इति । स भरतः क्षिप्रं नन्दिग्रामं प्रविश्य रथादवतीर्य गुरूनिदमभाषत ॥ २।११५।१३ ॥

तद्भाषणप्रकारमाह– एतदिति । यत् एतत् उत्तमं राज्यं संन्यासं यथा स्यात्तथा भ्रात्रा दत्तं तस्य राज्यस्य योगक्षेमवहे हेमभूषिते इमे पादुके एव ॥ २।११५।१४ ॥

भरत इति । पादुके उद्दिश्य संन्यासं राज्यसमर्पणं शिरसा प्रणतमूर्ध्नोपलक्षितो भरतः कृत्वा सर्वं प्रकृतिमण्डलं प्रजासमूहमब्रवीत् ॥ २।११५।१५ ॥

तद्वचनाकारमाह– छत्रमिति । यतः इमौ पादुकारूपपदार्थौ आर्यपादावभिमतौ रामपादत्वेन स्वीकृतौ अतः छत्रं तदुपलक्षितचामरादि च धारयत पादुकयोरुपरीति शेषः, तत्र हेतुः आभ्यां मम गुरोः रामस्य पादुकाभ्यामेव राज्ये धर्मः स्थितः स्थापितः अन्तर्भावितणिजर्थः ॥ २।११५।१६ ॥

भ्रात्रेति । सौहृदाद्धेतोः भ्रात्रा मयि निक्षिप्तः संस्थापितः अयं पादुकारूपपदार्थः संन्यासः भ्रातृप्रतिनिधिभूत इत्यर्थः, अतः तमिमं पादुकारूपपदार्थं राघवागमनं प्रति रामागमननिमित्तं

पालयिष्यामि सेविष्ये ॥ २।११५।१७ ॥

क्षिप्रमिति । राघवस्य चरणयोः पादुके इति शेषः “संयोजयित्वा संयोज्य सहपादुकौ मत्संयोजितपादुकासहितौ तौ रामस्य चरणौ पुनर्द्रक्ष्यामि ॥ २।११५।१८ ॥

तत इति । राघवेण समागतो ऽहं गुरवे रामाय राज्यं निवेद्य समर्प्य ततः समर्पणात् निक्षिप्तभारः सन् गुरुवर्तितां गुरुसेवां भजिष्ये करिष्यामि ॥ २।११५।१९ ॥

राघवायेति । संन्यासं न्यासत्वेन मयि संस्थापितं राज्यमयोध्यां च पादुके च राघवाय दत्त्वा धूतपापः निवृत्तवियोगजनितदुःखो ऽहं भवामि भवितास्मि ॥ २।११५।२० ॥

स इति । वल्कलजटाधारी मुनिवेषधरः स भरतः नन्दिग्रामे ऽवसत् ॥ २।११५।२१ ॥

सेति । सर्वं शासनं पादुकाभ्यां निवेदयन् तदनुसारणे कुर्वन्सन्नित्यर्थः भरतः सवालव्यजनं वालव्यजनसहितं छत्रं स्वयं धारयामास पादुकयोरुपरीति शेषः । “न्यवेदयत्” इति भूषणपाठः ॥ २।११५।२२ ॥

तत इति । ततः नन्दिग्रामस्थितिकालादनन्तरम् आर्यपादुके अभिषिच्य आर्यपादुकयोः राज्याभिषेकं कृत्वेत्यर्थः, सर्वदा तदधीनः पादुकायत्तो भरतः राज्यं कारयामास ॥ २।११५।२३ ॥

तदेति । तदा पादुकायत्तपालनसमये यत्किञ्चित्कार्यमुपैति तदुपहृतं केनचित्प्रापितमुपायनं च प्रथमं पादुकाभ्यां निवेद्य पश्चात् यथावत् यथायोग्यं भरतश्चकार विनियोजयामासेत्यर्थः ॥ २।११५।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चदशाधिकशततमः सर्गः ॥ २।११५ ॥