भरतकर्तृकनगरप्रवेशं वर्णयन्नाह– स्निग्धेति । स्निग्धः स्नेहोत्पादकः गम्भीरो घोषो यस्य तेन स्यन्दनेन रथेन प्रभुर्महायशाः भरतः अयोध्यामुपयान् उपगच्छन् सन् क्षिप्रं प्रविवेश ॥ २।११४।१ ॥
अयोध्यामेव विशिनष्टि– बिडालेत्यादिभिः । बिडालाश्च उलूकाश्च तैश्चरिताम्, आलीनानि पिहितानि नरचारणानि नराणां चारणानि मुखानि यस्यां तां, किञ्च आलीनानि निवृत्तानि नराणां प्रतीहाराणां चारणानि निवारणानि यस्यां सा तामप्रकाशां चन्द्रादिप्रकाशरहितां निशामिव तिमिराभ्याहतामन्धकारव्याप्तामत एव कालीं कालवर्णात्वेन प्रतीताम् ॥ २।११४।२ ॥
राह्विति । अभ्युदितेन अभ्युदयकालं प्राप्तेन ग्रहेण राहुणा पीडितां निपीडितपतिकामत एव एकां सहायरहितामत एव श्रिया अनेकविधसम्पत्त्या अप्रज्वलिता प्रभा दीप्तिर्यस्यास्तां राहुशत्रोः चन्द्रमसः प्रियां पत्नीं रोहिणीमिव अल्पोष्णक्षुब्धसलिलामल्पमल्पत्वविशिष्टमत एव उष्णं घर्मेण तप्तमत एव क्षुब्धं प्राप्तक्षोभं सलिलं जलं यस्यास्तामत एव घर्मेण तप्ता विहङ्गमाः पक्षिणो यस्यास्तामत एव लीनाः कर्दमादौ निगूढाः मीना झषा ग्राहाः यस्यास्ताम्, झषो मीनजातिविशेष इति न पौनरुक्त्यमत एव कृशां कृशत्वविशिष्टां गिरिनदीमिव ॥ २।११४।३,४ ॥
विधूमामिति । पूर्वं विधूमां धूमरहितामत एव हेमाभां स्वर्णसदृशीमग्नेः समुत्थितां शिखां शिखासदृशीमपि पश्चात् हविरभ्युक्षितां देवतोद्देश्यकपयसा सिक्तामत एव विप्रलयं गतां शिखां ज्वालामिव ॥ २।११४।५ ॥
महाहवे महासङ्ग्रामे विध्वस्तकवचां विध्वस्ताः कवचा योधानां वर्माणि यस्यां, रुग्णाः भग्नाः गजवाजिरथध्वजाः यस्यामत एव हतप्रवीरामत एव आपन्नामापदं प्राप्तां चमूमिव ॥ २।११४।६ ॥
समुत्थितां प्रबलवायुना समुद्भूतां सफेनां फेनसहितात्वं सस्वनां स्वनसहितात्वं च भूत्वा प्राप्य पश्चात्प्रशान्तेन मारुतेन वायुना उद्धूतामल्पं चलितामत एव निस्वनां स्वनरहितां सागरस्य समुद्रस्य जलोर्मिमिव ॥ २।११४।७ ॥
सुत्याकाले सुनिर्वृत्ते समाप्ते सतीत्यर्थः, याजकैः अभिरूपैः रमणीयैः सर्वैः यज्ञायुधैः स्रुवादिभिस्त्यक्तामपवर्जितां गतरवां निवृत्तशब्दां वेदिमिव ॥ २।११४।८ ॥
गोवृषेण श्रेष्ठवृषभेण परित्यक्तामाभीरादिभिः पृथक्कृतामत एव आर्तामत एव तृणमचरन्तीं गोष्ठे स्थितां निरुद्धामुत्सकां गवां पत्नीमिव ॥ २।११४।९ ॥
अभिजात्यैः उत्तमजातिभिः सुस्निग्धैः अतिस्नेहोत्पादकैः प्रज्वलद्भिरेव उत्तमैः प्रभाकराद्यैः पद्मरागादिभिर्मणिभिर्वियुक्तां नवां मुक्तावलीमिव ॥ २।११४।१० ॥
चरितां भुक्तभोगाम् पुण्यक्षये स्थानात् दिवः च्युतामत एव महीमुद्गतां प्राप्तामत एव सुसंहृतद्युतिविस्तारां तारामिव ॥ २।११४।११ ॥
पुष्पनद्धाम् पुष्पैर्ग्रथितामत एव मत्तभ्रमरशालिनीं पश्चात् द्रुतदावाग्निना विप्लुष्टामत एव क्लान्तां नष्टहर्षां लतामिव ॥ २।११४।१२ ॥
सम्मूढाः निगमा वणिजो यस्यामत एव सङ्क्षिप्ताः अल्पाः विपणापणाः यस्यामत एव अम्बुधरैर्मेघैर्युताः मत एव प्रच्छन्नशशिनक्षत्रां द्यामिव ॥ २।११४।१३ ॥
क्षीणेति । क्षीणानि पानोत्तमानि येषां तैः भग्नैः शरावैः अभिसंवृतां हताः शौण्डाः पानकर्तारो यस्यामत एव ध्वस्तामसंस्कृतां पानभूमिमिव ॥ २।११४।१४ ॥
वृक्णेति । वृक्णं विदीर्णं भूमितलं यस्याः अत एव भग्नामत एव निम्नां ध्वस्तौन्नत्यां वृक्णपात्रैः समावृतामुपयुक्तोदकां समाप्तसलिलां निपतितां पिपासया विपतितजनां प्रपामिव ॥ २।११४।१५ ॥
विपुलामिति । विपुलां विस्तीर्णां विततां चापे संयोजितां युक्तपाशां
चापकोट्योर्ज्याबन्धनप्रयोजकीभूतरज्जुविशिष्टां तरस्विनां बाणैर्विनिष्कृत्तां छिन्नामत एव आयुधात् धनुषः भूमौ पतितां ज्यामिव ॥ २।११४।१६ ॥
सहसेति । युद्धशौण्डेन युद्धकुशलेन हयारोरेण वाहितां द्रुतं चालितां प्रतिसैन्येन शत्रुसेनया निहतामत एव पतितां वडवामिव अयोध्यां प्रविवेशेति पूर्वेणान्वयः ॥ २।११४।१७ ॥
भरत इति । रथस्थो भरतस्यु रथश्रेष्ठं वाहयन्तं सारथिमब्रवीत् ॥ २।११४।१८ ॥
तद्वचनाकारमाह– किमिति । गम्भीरः निबिडः मूर्छितः प्रवृद्धो गीतवादित्रनिःस्वनः यथापुरं पूर्ववत् अयोध्याय न निशाम्यते किं कुत्सितमेतत् नु नेत्यर्थः ॥ २।११४।१९ ॥
वारुणीति । समन्ततो मूर्छितः सर्वत्र व्याप्तः वारुणी वरुणप्रेषिता औषधिविशेषः तस्या मदगन्धः मादकः सुगन्धः माल्यगन्धः पुष्पसुगन्धश्च चन्दनादेर्गन्धश्च न प्रवाति ॥ २।११४।२० ॥
यानेति । यानप्रवरघोषः यानप्रवरस्य उत्तमरथादेर्घोषः सुस्निग्धः सुस्नेहोत्पादक एव हयस्वनः प्रमत्तगजानां महान्नादश्च रथानां रथिनां स्वनश्च अस्यां पुर्यामिदानीं न श्रूयते । सार्धश्लोक एकान्वयी ॥ २।११४।२१ ॥
चन्दनेति । चन्दनादिगन्धान् महार्हाः नवस्रजो नवीनमालाश्च सन्तप्ताः घर्मादिजनिततापविशिष्टास्तरुणाः युवानो जनाः नोपभुञ्जते न सेवन्ते, चित्रमाल्यधरा नरा अपि बहिर्यात्रां न गच्छन्ति ॥ २।११४।२२,२३ ॥
नेति । रामशोकार्दिते रामशोकपीडिते पुरे उत्सवाः न प्रवर्तन्ते । तत्र हेतुः– अस्य पुरस्य सा पौर्वकालिकी द्युतिः मम भ्रात्रा रामेण सह गता ॥ २।११४।२४ ॥
नहीति । सासारा वेगवद्दृष्टिविशिष्टा आर्जुनी शुक्लपक्षसम्बन्धिनी क्षपा रात्रिरिव इयमयोध्यां नैव राजति । “आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले” इति वैजयन्ती । अर्धं पृथक्– कदेति । अयोध्यामेवागतो मे भ्राता रामः ग्रीष्मे महोत्सवः अत्युत्सवहेतुः अम्बुदो मेघ इव हर्षं कदा जनयिष्यत्येव । इव एवार्थे अर्धद्वयमेकान्वयि ॥ २।११४।२५ ॥
तरुणैरिति । उन्नतगामिभिर्गर्वसूचकगमनकर्तृभिरित्यर्थः, चारुवेषैस्तरुणैः अयोध्यायां सम्पतद्भिः आगच्छद्भिर्नरैः महापथाः राजमार्गाः नाभिभान्ति ॥ २।११४।२६ ॥
इतीति । इति अनेन प्रकारेण ब्रुवन् सारथिना सह दुःखितो भरतः अयोध्यां सम्प्रविश्य सिंहहीनां गुहामिव नरेन्द्रेण हीनां पितुः वसतिं गृहं विवेश ॥ २।११४।२७,२८ ॥
तदेति । उज्झितप्रभं त्यक्तशोभमत एव सुरैरुत्क्रुष्टं शोककर्मीभूतमभास्करं भास्कररहितं दिनमिव विभक्तं मार्जनादिसेवारहितं तत् अन्तःपुरं सर्वत्र निरीक्ष्य सुदुःखितः आत्मवान् अतिधैर्यविशिष्टो भरतः बाष्पमश्रु मुमोच । अत्रेयं पुराणप्रसिद्धिः– पुरा देवासुरसङ्ग्रामे असुरैः देवाः पराजिताः भानुश्च राहुणा पातितस्तदा दिवारात्रिविभागाभावात् स्वलोकाद्ब्रह्मलोकं गतैर्देवैः प्रार्थितस्य ब्रह्मणो नियोगात् सप्तरात्रं सूर्यकार्यमत्रिश्चकारेति तेनाभास्करदिनस्य नाप्रसिद्धिः । अभास्करमित्यस्य अकालकघनाद्याच्छिन्नत्वेन भास्करदर्शनरहितमित्यर्थे तु न शङ्कान्तरे ॥ २।११४।२९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुर्दशाधिकशततमः सर्गः ॥ २।११४ ॥