११३ भरतस्य प्रतिनिवर्तनम्

रामकर्तृकस्वकुटीप्रवेशानन्तरकालिकं वृत्तान्तमाह– तत इत्यादिभिः । ततः पादुकास्थापितशत्रुञ्जयगजात् पादुके आहृत्येति शेषः, शिरसि स्वमूर्धनि कृत्वा संस्थाप्य हृष्टो भरतः रथमारुरोह ॥ २।११३।१ ॥

वसिष्ठ इति । मन्त्रपूजिता मन्त्रैः सत्कृताः वसिष्ठादयः अग्रतः प्रययुः ॥ २।११३।२ ॥

मन्दाकिनीमिति । मन्दाकिनीं नदीं चित्रकूटं गिरिं च प्रदक्षिणं कुर्वाणाः प्राङ्मुखास्ते भरतादयो ययुः ॥ २।११३।३ ॥

गमनमेव भङ्ग्यन्तरेणाह– पश्यन्निति । विविधानि अनेकप्रकाराणि रम्याणि मनोहराणि धातुसहस्राणि पश्यन् सन् तस्य गिरेः चित्रकूटस्य पार्श्वेन ससैन्यो भरतः प्रययौ ॥ २।११३।४ ॥

अदूरादिति । यत्र भरद्वाजो मुनिः कृतालयः कृतस्थितिः तमाश्रमं चित्रकूटस्य अदूरात्समीपतः भरतो ददर्श, एतेन भरतरथस्य भरद्वाजाश्रमस्य च अत्युन्नतत्वं व्यञ्जितम् ॥ २।११३।५ ॥

स इति । स कुलनन्दनो भरतः भरद्वाजस्य आश्रममागम्य प्राप्य रथात् अवतीर्य भरद्वाजस्य पादौ ववन्दे ॥ २।११३।६ ॥

तत इति । ततः भरतप्रणामानन्तरं दृष्टो भरद्वाजः हे तात कृत्यं कर्तव्यं रामेण समागतं समागमनं कृतं निष्पादितमपि इति वाक्यं भरतमब्रवीत् । अपिः प्रश्ने ॥ २।११३।७ ॥

एवमिति । भरद्वाजेन एवमुक्तः स भरतः तं प्रत्युवाच ॥ २।११३।८ ॥

तत्प्रतिवचनाकारमाह– स इति । गुरुणा मया च याच्यमानः दृढविक्रमः स रामः वसिष्ठं वाक्यमब्रवीत् ॥ २।११३।९ ॥

तद्वचनाकारमाह– पितुरिति । मम पितुः या प्रतिज्ञा तां पितुः प्रतिज्ञां तत्त्वतः पालयिष्याम्येव ॥ २।११३।१० ॥

एवमिति । एवमनेन प्रकारेण उक्तः रामेण प्रार्थितः वाक्यज्ञो वसिष्ठः राघवं रामं प्रत्युवाच ॥ २।११३।११ ॥

तत्प्रतिवचनाकारमाह– एते इति । हे महाप्राज्ञ संहृष्टस्त्वं हेमभूषिते एते पादुके प्रयच्छ भरताय देहि, अयोध्यायां योगक्षेमकरो भव पादुकाद्वारेति शेषः, तत्र अलभ्यलाभो योगः, लब्धस्य परिपालनं क्षेमः ॥ २।११३।१२ ॥

एवमिति । वसिष्ठेन एवमुक्तः प्राङ्मुखः पूर्वाभिमुखं स्थितः राघवो रामः हेमविकृते पादुके मम राज्याय ददौ । न च पूर्वं भरतप्रार्थनया रामकर्तृकपादुकादानस्योक्तत्वेनेदं विरुद्धमिति वाच्यं, “गुरावीश्वरत्वबुद्ध्या कर्तृत्वं करणत्वं च” इत्यादिश्रुत्या कर्तृत्वस्य ईश्वरे पर्यवसन्नत्वेन वसिष्ठस्यैव मुख्यकर्तृत्वेनादोषात् ॥ २।११३।१३ ॥

निवृत्त इति । रामेण अनुज्ञातो पादुके गृहीत्वा अयोध्यामेव गच्छामि ॥ २।११३।१४ ॥

एतदिति । भरतस्य एतद्वाक्यं श्रुत्वा भरद्वाजो मुनिः शुभतरं वाक्यमुदाहरत् ॥ २।११३।१५ ॥

तद्वाक्याकारमाह– नेति । शीलवृत्तविदां वरे श्रेष्ठे नरव्याघ्रे त्वयि निम्नोत्सृष्टं निम्नदेशे तडागादौ स्थापितमुदकमिव यदार्यमार्यानुवर्तनं तिष्ठेत् तत् एतत् चित्रं न “निम्नोसृष्टम्” इति भूषणपाठः ॥ २।११३।१६ ॥

अनृण इति । यस्य त्वमीदृशो धर्मात्मा पुत्रः स तव पिता दशरथः अनृणः ऋणविनिर्मुक्तः आसीदिति शेषः ॥ २।११३।१७ ॥

तमिति । महाप्राज्ञमुक्तवाक्यं तमृषिं भरद्वाजं चरणावुपगृह्य आमन्त्रयितुं गमनाय प्रार्थयितुं कृताञ्जलिः भरत आरेभे ॥ २।११३।१८ ॥

तत इति । ततः भरद्वाजाज्ञापनानन्तरं भरद्वाजं पुनः पुनः प्रदक्षिणं कृत्वा मन्त्रिभिः सह भरतः अयोध्यां ययौ ॥ २।११३।१९ ॥

भरतगमनमुक्त्वा भरतसैन्यगमनप्रकारमाह– यानैरिति । विस्तीर्णा अनुयायिनी पश्चाद्गमनशीला यानादिभिः उपलक्षिता भरतस्य सा चमूः पुनर्निवृत्ता चित्रकूटात् परावृत्ता बभूवेति शेषः ॥ २।११३।२० ॥

तत इति । ते सर्वे भ्ारतसैनिकाः उर्मिमालिनीं लहरीसमूहविशिष्टां दिव्यां यमुनां नदीं तीर्त्वा शिवजलामूर्मिमालिनीं दिव्यां गङ्गानदीं पुनर्ददृशुः । विशेषणान्युभयान्वयीनि ॥ २।११३।२१ ॥

तामिति । सहबान्धवः शत्रुघ्नसहितः ससैनिकः सेनासहितो भरतः रम्यजलसम्पूर्णां तां गङ्गां सन्तीर्य रम्यं श्रृङ्गवेरपुरं प्रविवेश ॥ २।११३।२२ ॥

शृङ्गेति । शृङ्गवेरपुरात् आगत्य अयोध्यां भूयः सन्ददर्श । पित्रादिवर्जितामयोध्यां दृष्ट्वा तु दुःखसन्तप्तो भरतः सारथिमब्रवीत् । सार्धश्लोक एकान्वयी ॥ २।११३।२३ ॥

तद्वचनाकारमाह– सारथे इति । हे सारथे विध्वस्ता तिरोहितशोभा अत एव निराकारा निर्गतः आकारः शुभाकारो यस्याः सा निरानन्दा आनन्दरहिता दीना क्षीणात्वेन प्रतीयमाना प्रतिहतस्वना निवृत्तशब्दा अयोध्या न प्रकाशते इति पश्य । अर्धद्वयमेकान्वयि ॥ २।११३।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रयोदशाधिकशततमः सर्गः ॥ २।११३ ॥