रामवचनानन्तरकालिकवृत्तमाह– तमित्यादिभिः । अप्रतिमतेजोभ्यामुपमारहिततेजोविशिष्टाभ्यां भ्रातृभ्यां जातं सङ्गमं प्रेक्ष्य समुपेताः तत्र प्राप्ता महर्षयः विस्मिता आसन्निति शेषः ॥ २।११२।१ ॥
अन्तर्हिता इति । अन्तर्हिताः शक्तिविशेषेणालक्षितस्वरूपाः मुनिगणाः स्थिताः प्रत्यक्षतो विद्यमानाश्च परमर्षयश्च काकुत्स्थौ भ्रातरौ प्रशशंसिरे ॥ २।११२।२ ॥
प्रशंसाकारमाह– सदेति । धर्मविक्रमौ धर्मप्रवर्तकौ यौ द्वौ राजपुत्रौ तयोरुभयोः सम्भाषां परस्परं सम्भाषणं श्रुत्वा वयं सदा स्पृहयामहे पुनः पुनः श्रोतुं वाञ्छामः ॥ २।११२।३ ॥
तत इति । ततः मुनिकर्तृकप्रशंसानन्तरं दशग्रीवस्य रावणस्य बधैषिणः वधविषयकेच्छावन्तः सङ्गताः ऋषिगणाः भरतमित्यूचुः ॥ २।११२।४ ॥
तद्वचनाकारमाह– कुले इति । पितरं पितृसुखं यद्यवेक्षसे वाञ्छसि तर्हि रामस्य वाक्यं ग्राह्यम् ॥ २।११२।५ ॥
सदेति । यतः कैकेय्याः अनृणत्वात् अनृणत्वं प्राप्य केकय्यै वरं दत्त्वेत्यर्थः, दशरथः स्वर्गं गतः अतः रामं सदा वनवासक्लेशेनापि पितुरनृणम् ऋणनिवर्तकं वयमिच्छामहे । एतेन रामकर्तृकवनवासमन्तरा राज्ञो ऽभिलाषपूर्तिर्न भविष्यतीति सूचितम्, तेन रावणवधार्थमेव राज्ञा रामः प्रेषित इति व्यञ्जितम् ॥ २।११२।६ ॥
एतावदिति । एतावद्वचनमुक्त्वा समहर्षयः महर्षिसहिताः गन्धर्वाः राजर्षयश्च स्वां स्वां गतिं स्थानं गताः प्राप्ताः ॥ २।११२।७ ॥
ह्लादित इति । तेन ऋषिगणोक्तेन वाक्येन ह्लादितः सुखं प्राप्तः अत एव संहृष्टवदनः रामः तान् ऋषीन् अभ्यपूजयत् ॥ २।११२।८ ॥
त्रस्तेति । सज्जमानया रामकर्तृकवनवासविषयकासक्तिसम्पादिकया वाचा त्रस्तगात्रः शिथिलशरीरः कृताञ्जलिर्भरतः इदं वाक्यं पुनरब्रवीत् ॥ २।११२।९ ॥
तद्वाक्याकारमाह– रामेति । हे राम कुलधर्मानुसन्ततं कुलस्य धर्मानुसन्ततं धर्मबुद्ध्यानुष्ठितमिमं प्रजापालनरूपं धर्मं प्रेक्ष्य विचार्य मम मातुः कौशल्यादेश्च याचनं याचितं कर्तुं स्वीकर्तुमर्हसि ॥ २।११२।१० ॥
ननु पालनार्थं त्वन्नियुक्त एवेत्यत आह– रक्षितुमिति । सुमहद्राज्यं रक्षितुमेकस्त्वत्साहाय्यरहितो ऽहं नोत्सहे अत एव रक्तान् त्वद्विषयकानुरागविशिष्टान् पौरजानपदान् रञ्जयितुं च नोत्सहे ॥ २।११२।११ ॥
ज्ञातय इति । ज्ञात्यादयः पर्जन्यं कर्षका इव त्वामेव प्रतीक्षन्ते, एतेन त्वमेव राज्यं परिपालयेति सूचितम् ॥ २।११२।१२ ॥
ननु वनवासे नियुक्तेन मया कथं राज्यपरिपालनमित्यत आह– इदमिति । हे काकुत्स्थ लोकस्य परिपालने शक्तिमान् त्वं प्रतिपद्य अयोध्यां प्राप्य इदं राज्यं स्थापय यथायोग्यं मन्त्र्यादीन् नियुज्य पालयेत्यर्थः, एतेन यथायोग्यं नियोगानन्तरं वने समागन्तव्यमिति सूचितम् ॥ २।११२।१३ ॥
एवमिति । भरतः एवमुक्त्वा भ्रातुः पादयोः अपतत्, हे राघव इति प्रियं वचो वदन् सन् भृशं सम्प्रार्थयामास च ॥ २।११२।१४ ॥
तमिति । नलिनपत्राक्षं भरतमङ्के कृत्वा मत्तहंसस्वरः रामः वचनमब्रवीत् ॥ २।११२।१५ ॥
तद्वचनाकारमाह– आगतेति । वैनयिकी पित्रादिसेवाजनितविनयजन्या स्वजा स्वं स्वकीयधर्मं प्रजापालनमित्यर्थः, जनयति उत्पादयति सा या त्वामागता प्राप्ता इयं बुद्धिः तया बुद्ध्या पृथिवीं रक्षितुं त्वं भृशमुत्सहसे । एतेन मत्कर्तृकायोध्यागमनं न प्रार्थनीयमिति सूचितं तेनायोध्यागमने
निरन्तरवनवासविषयकप्रतिज्ञाहानिर्भवितेति सूचितम् ॥ २।११२।१६ ॥
अमात्यैरिति । महान्त्यपि सर्वकार्याणि अमात्यादिभिः सम्मन्त्र्य कारय ॥ २।११२।१७ ॥
मत्प्रतिनिवर्तनप्रार्थना व्यर्थेति बोधयन्नाह– लक्ष्मीरिति । चन्द्रात् पूर्णचन्द्रमसः लक्ष्मीः शोभा अपेयात् रात्रौ अपगच्छेत्, हिमवान् हिमं त्यजेत्, सागरो वेलां स्वमर्यादामतीयात् उल्लङ्घेत, अहं तु पितुः प्रतिज्ञां नातीयाम् । अतीयादित्यस्य पुरुषविपरिणामेनोत्तरत्राप्यन्वयः । योग्यतया तुरध्याहृतः ॥ २।११२।१८ ॥
कामादिति । तात हे भ्रातः कामान्मन्थरेच्छातः लोभात् अतियशोविषयकेच्छातिशयाद्वा तुभ्यं त्वदर्थं यन्मात्रा कृतं तन्मनसि न कर्तव्यं न स्मर्तव्यमित्यर्थः, अत एव मातृवत् मातृस्नेहवत् वर्तितव्यं मातरि पूर्ववदेव स्नेहः कर्तव्य इत्यर्थः ॥ २।११२।१९ ॥
एवमिति । एवं ब्रुवाणं आदित्यसङ्काशं कौशल्यासुतं रामं भरतो ऽब्रवीत् ॥ २।११२।२० ॥
तद्वचनाकारमाह– अधीति । हे आय हेमविभूषिते एते स्वसंन्निधौ संस्थापिते पादुके पादाभ्यां त्वमधिरोह । तत्प्रयोजनमाह– एते पादाधिरोहणास्पदीभूते पादुके सर्वलोकस्य योगक्षेमं विधास्यतः, विधास्यत इत्यनेन पादुकयोश्चेतनात्वं ध्वनितं तेन तयोः प्राकृतविलक्षणात्वं सूचितम् । एते इति शब्दावृत्त्योभयान्वयि ॥ २।११२।२१ ॥
स इति । स भरतेन प्रार्थितो नरव्याघ्रो रामः पादुके अधिरुह्य व्यवमुच्य च महात्मने भरताय प्रायच्छत् ॥ २।११२।२२ ॥
स इति । स भरतः पादुके सम्प्रणम्य अब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह– चतुर्दशेति । हे वीर अहं चतुर्दश वर्षाणि तवागमनमाकाङ्क्षन् नगराद्बहिरेव वसंश्च सन् जटाचीरधरः फलमूलाशनो भवेयम् । सार्धश्लोक एकान्वयी ॥ २।११२।२३,२४ ॥
तवेति । हे परन्तप राज्यतन्त्रं राज्यभारं तव पादुकयोर्न्यस्य समर्प्य विद्यमानो ऽहं चतुर्दशे वर्षे सम्पूर्णे सति अहनि तदुत्तरे दिवसे यदि त्वां न द्रक्ष्यामि तर्हि हुताशनं वह्निं प्रवेक्ष्यामि “न्यस्तराजतन्त्रः” इति पाठान्तरम् । सार्धश्लोक एकान्वयी ॥ २।११२।२५ ॥
तथेति । तथा इति प्रतिज्ञाय चतुर्दशवर्षान्ते आगमिष्यामीति प्रतिज्ञां कृत्वेत्यर्थः, तं भरतं परिष्वज्य अब्रवीत् ॥ २।११२।२६ ॥
तद्वचनाकारमाह– मातरमिति । मातरं कैकेयीं रक्ष तां प्रति रोषं मा कुरु मया सीतया च त्वं शप्तः एतदर्थं कारितशपथो ऽसि इत्युक्त्वा अश्रुपरीताक्षो रामः भ्रातरं विससर्ज प्रेषयामास ॥ २।११२।२७,२८ ॥
स इति । भरतः स्वलङ्कृते शोभनालङ्कारविशिष्टे महोज्वले पादुके प्रदक्षिणं चकार उत्तमनागमूर्धनि राजारोहणयोग्यगजशिरसि पादके चकार संस्थापयामास, पादुके इत्युभयान्वयि ॥ २।११२।२९ ॥
उपसंहरन्नाह– अथेति । आनुपूर्व्या यथोचितक्रमेण जनादीन् प्रतिपूज्य यथोचितं सत्कृत्य स्वधर्मे हिमवान् इव अचलः स्थितः राघववंशवर्धनो रामः अथ व्यसर्जयत् समङ्गलं यापयामास ॥ २।११२।३० ॥
तमिति । दुःखेन बाष्पगृहीतकण्ठ्यः मातरः तं राममामन्त्रयितुं कस्मिंश्चिद्विषये नियोजयितुं न शेकुः स रामस्तु सर्वाः मातृ़ः अभिवाद्य प्रणम्य रुदन् स्वगमनाभावेन रोदयन् सन् त्वां कुटीं प्रविवेश ॥ २।११२।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्वादशाधिकशततमः
सर्गः ॥ २।११२ ॥