वशिष्ठस्य वचनान्तरं वर्णयितुमाह– वसिष्ठ इति । राजपुरोहितो वसिष्ठः राममुक्त्वा धर्मसंयुक्तमपरं वचः अब्रवीत् ॥ २।१११।१ ॥
तद्वचनाकारमाह– पुरुषस्येति । जातस्य पुरुषस्य आचार्यादयस्त्रयो गुरवो भवन्ति ॥ २।१११।२ ॥
गुरूणां कर्माणि विभजन्नाह– पितेति । पिता हिशब्देन माता एनं पुरुषं जनयति उत्पादयति, आचार्यः प्रज्ञां ददाति तस्माद्धेतोः सः पितृप्रभृतिः गुरुरुच्यते ॥ २।१११।३ ॥
स इति । सो ऽहं पितुः दशरथस्य तव च आचार्यः अतः मम वचनं कुर्वन्सन् सतां गतिं सज्जनमार्गं त्वं नातिवर्तेः उल्लङ्घयेथाः ॥ २।१११।४ ॥
इमा इति । इमास्ते परिषदः प्रजाः ज्ञातयश्च नृपाः खण्डमण्डलेश्वराश्च एषु धर्मं यथा स्यात्तथा चरन् तत्तत्प्रार्थनां स्वीकुर्वन्नित्यर्थः, एष त्वं नातिवर्तेः ॥ २।१११।५ ॥
वृद्धाया इति । मातुः शुश्रूषणमिति शेषः, अवर्तयितुम् अप्रवर्तयितुं नार्हसि अस्याः वचनं कुर्वन्सन् सतां गतिं नातिवर्तेः ॥ २।१११।६ ॥
भरतस्येति । हे सत्यधर्मपराक्रम आत्मानं त्वां याचमानस्य प्रार्थयतो भरतस्य वचस्त्वं नातिवर्तेः ॥ २।१११।७ ॥
एवमिति । एवमनेन प्रकारेण मधुरं यथा स्यात्तथा गुरुणा उक्तः स रामः समासीनं वशिष्ठं प्रत्युवाच ॥ २।१११।८ ॥
तद्वचनाकारमाह– यदिति । तनये पुत्रे यद्वृत्तं सेवामित्यर्थः, मातापितरौ कुरुतः तत् सुप्रतिकरं न, तस्य प्रत्युपकृतिर्नास्तीत्यर्थः । तदेव विशदयन्नाह– मात्रा पित्रा च यथाशक्ति शक्तिमनतिक्रम्य प्रदानेन भोजनादिप्रापणेन स्वापनोच्छादनेन स्वापनं शयनप्रवर्तनमुच्छादनं तैलादिना अङ्गप्रमर्दनं ताभ्यां नित्यं प्रियवादेन प्रियवचनेन च संवर्धनेन संवृद्ध्युपाकरणेन न यत्कृतं तत् न सुप्रतिकरम् । न सुप्रतिकरमित्युभयान्वयि । श्लोकद्वयं सम्मिलितान्वयि ॥ २।१११,१० ॥
स इति । मम जनयिता प्रकटनहेतुः अत एव पिता राजा दशरथः यद्यस्माद्धेतोः मामाज्ञापयत् भवदाज्ञातः पूर्वमेव न्ययोजयत्तस्माद्धेतोस्तस्य राज्ञः नियोजनं मिथ्या न भविष्यति ॥ २।१११।११ ॥
एवमिति । रामेण एवमुक्ते सति विपुलोरस्कः विशालवक्षाः परमदुर्मनाः भरतः प्रत्यनन्तरं समीपववर्तिनं सूतमुवाच ॥ २।१११।१२ ॥
तद्वचनाकारमाह– इहेति । हे सारथे इह स्थण्डिले भूमिविशेषे कुशान् शीघ्रमास्तर । तत्प्रयोजनमाह आर्यं प्रति राममुद्दिश्य यावन्मे न प्रसीदति तावत् प्रत्युपवेक्ष्यामि कुशास्तरणभूमौ संस्थास्यामि ॥ २।१११।१३ ॥
प्रत्युपस्थितिप्रकारमाह– निराहार इति । निराहारः आहाररहितः निरालोकः दीपादिप्रकाशरहितो ऽहं शालायां पुरस्ताद्धनहीनो द्विज एव यावन्न प्रतियास्यति अयोध्यां गमिष्यति तावच्छये शयनं करोमि ॥ २।१११।१४ ॥
स इति । दुर्मनाः स भरतः राममवेक्षन्तं कुशास्तरणकरणाय रामाज्ञां सम्प्रतीच्छन्तं सुमन्त्रं प्रेक्ष्य अवलोक्य कुशोत्तरं भूमौ स्वयमुपस्थाप्य संस्तीर्य आस्थितः ॥ २।१११।१५ ॥
तमिति । राजर्षिसत्तमो रामस्तं भरतमुवाच । तद्वचनाकारमाह– हे भरत मिमपकरणमिति शेषः, कुर्वाणं मामुद्दिश्य प्रत्युपवेक्ष्यसे मया न किञ्चिदपकृतमिति तात्पर्यं तेन प्रत्युपवेशनमनुचितमिति सूचितम् ॥ २।१११।१६ ॥
ब्राह्मण इति । एकपार्श्वेन एकपार्श्वशयनादिना नरान् स्वापकारिजनान् रोद्धुमपकृतेर्निवर्तयितुं
ब्राह्मण एवार्हति अतः मूर्धाभिषिक्तानां राजन्यानां प्रत्युपवेशने न विधिः, एतेन विधिविरुद्धकरणे त्वां पापं प्राप्स्यतीति बोधितम् ॥ २।१११।१७ ॥
पापस्पर्शाभावे उपायं वदन्नाह– उत्तिष्ठेति । नरशार्दूल एतदुक्तं दारुणं व्रतं हित्वा इतो ऽस्माद्वनान् पुरवर्या पुरश्रेष्ठामयोध्यां क्षिप्रं याहि ॥ २।१११।१८ ॥
आसीन इति । आसीन एव भरतः सर्वतः चतुर्दिक्षु प्रेक्ष्य अवलोक्य यूयमार्यं रामं किं किमर्थं नानुशासथ इति पौरजानपदं जनमुवाच ॥ २।१११।१९ ॥
त इति । ते भरतेन प्रबोधिताः जनाः काकुत्स्थं रामं राघवो भवान् सम्यग्वदति इति वयं जानीम इति महात्मानं भरतमूचुः ॥ २।१११।२० ॥
ननु मम वचनस्य सम्यक्त्वे रामः कथं न भवद्भिः बोध्यते इत्यत आहुः– एष इति । महाभागः एष रामो ऽपि पितुर्वचसि आज्ञायां तिष्ठति अत एव व्यावर्तयितुं निवर्तयितुं न शक्ताः स्मः ॥ २।१११।२१ ॥
तेषामिति । तेषां पौरजनानां वचनमाज्ञाय रामो ऽब्रवीत् भरतमिति शेषः । तद्वचनाकारमाह– धर्मचक्षुषां सुहृदामेवं वचनं निबोध जानीहि ॥ २।१११।२२ ॥
वचनाकारमाह– एतदिति । राघव हे भरत एतत्पौरजनैः मया चोच्चारितमुभयं श्रुत्वा सम्यक् सम्पश्य द्वयोर्वचनयोः साम्यं निश्चिनु तस्मात् हे महाबाहो त्वमुत्तिष्ठ मामुदकं च स्पृश, एतेन अविहितप्रत्युषवेशनस्य प्रायश्चित्तं जलादिस्पर्श इति प्रबोधितम् ॥ २।१११।२३ ॥
अथेति । अथ प्रायश्चित्तोपदेशरूपरामवचनश्रवणानन्तरं भरतः उत्थाय जलं तदुपलक्षितरामं च स्पृष्ट्वा वाक्यमब्रवीत् । तद्वचनाकारमाह– परिषदादयो यूयं मद्वचनं श्रृण्वन्तु, तत्र परिषदः सभ्याः श्रेणयः प्रजासमूहाः ॥ २।१११।२४ ॥
तद्वचनाकारमाह– नेति । पितरं पितुः राज्यं नानुयाचे अन्वयाचं, मातरं नानुशासामि अन्वशासं परमधर्मज्ञं राघवं रामं नानुजानामि वनवासायानुमतिं नाकार्षम्, एतेन स्वापराधाभावः सूचितः ॥ २।१११।२५ ॥
तात्कालिकं स्वकर्तव्यं बोधयन्नाह– यदीति । यदि पितुर्वचः अवश्यं कर्तव्यमत एव वने अवश्यं वस्तव्यं तर्हि अहमेव वने निवत्स्यामि रामप्रतिनिधिभूतत्वेन वनवासं करिष्यामि ॥ २।१११।२६ ॥
धर्मात्मेति । सत्येन भ्रातुः भरतेन वाक्येन विस्मितः धर्मात्मा रामः सम्प्रेक्ष्य निश्चित्य पौरजानपदं जनमुवाच ॥ २।१११।२७ ॥
तद्वचनाकारमाह– विक्रीतमिति । जीवता पालयता मम पित्रा यद्विक्रीतं मूल्यं गृहीत्वा कस्मैचिद्दत्तमाहितं न्यासरूपतया संस्थापितं क्रीतं मूल्यं दत्त्वा स्वीकृतं तन्मया भरतेन वा लोपयितुमन्यथा कर्तुं न शक्यमेतेन तुल्यन्यायात्प्रीतिदत्तमप्यन्यथा कर्तुं न शक्यते इति ध्वनितम् ॥ २।१११।२८ ॥
ननु प्रतिनिधिकरणे तद्वचनत्यागो न भवतीत्यत आह– उपाधिरिति । यतः युक्तं मम योग्यं कैकेय्या उक्तमत एवं पित्रा सुकृतमङ्गीकृतमतः जुगुसितः असामर्थ्यसूचकत्वेन निन्दितः उपाधिः प्रतिनिधिः मया न कार्यः ॥ २।१११।२९ ॥
भरतस्य राज्ययोग्यतां बोधयन्नाह– जानामीति । क्षान्तं क्षमाशीलं गुरुसत्कारकारिणं अतिसत्कारकरणशीलं भरतमहं जानामि अत एव सत्यसन्धे सत्यप्रतिज्ञे अत्र अत्मिन् भरते सर्वं कल्याणमेव, एतेन राज्यपरिपालनस्य क्षतिर्न भवितेति सूचितम् ॥ २।१११।३० ॥
अनेनेति । वनात्पुनः प्रत्यागतो ऽहं धर्मशीलेन भ्रात्रा भरतेन सह पृथिव्याः उत्तमः पतिर्भविष्यामि ॥ २।१११।३१ ॥
वृत इति । राजा कैकेय्या वृतः वरदायकत्वेन स्वीकृतः मया च तद्वचनं कृतं स्वीकृतमतः अनेन त्वत्कर्तृकराज्यपरिपालनेन मत्कर्तृकवनवाससंमतिदानेन च पितरमनृतात् मृषासंसर्गात् मोचय ॥ २।१११।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकादशाधिकशततमः सर्गः ॥ २।१११ ॥