रामजाबालिवचनश्रवणानन्तरकालिकां वशिष्ठोक्तिमाह– क्रुद्धमित्यादिभिः । क्रुद्धं नास्तिकवचनश्रवणहेतुककोपविशिष्टं राममाज्ञाय वसिष्ठ उवाच । तद्वचनाकारमाह– अस्य लोकस्य गतागतिं गमनागमनं जाबालिरपि जानीते, एतेन जाबालिर्न नास्तिक इति व्यञ्जितम् ॥ २।११०।१ ॥
ननु तद्वचनज्ञापिततन्नास्तिकत्वं कथं निवर्तयसीत्यत आह– निवर्तयित्विति । त्वां निवर्तयितुकामः एतद्वाक्यमब्रवीत् हे लोकनाथ इमां लोकसमुत्पत्तिं मे निबोध जानीहि ॥ २।११०।२ ॥
उत्पत्तिप्रकारमाह– सर्वमिति । पूर्वं सृष्टेः पूर्वस्मिन्काले सर्वं सलिलमेवासीत् आत्मकार्यभूताकाशकार्यभूतवायुकार्यभूताग्निकारणकं सलिलमसृजदित्यर्थः । तत्र तस्मिन्सलिले पृथिवी निर्मिता तत्प्रकाशपरब्रह्मणेति शेषः, ततः तत् पदब्रह्मैव दैवतैः इन्द्रियाद्यधिष्ठातृदेवैः सह स्वयम्भूर्ब्रह्मा समभवत् । अयं भावः, उत्पत्तिकारणीभूतरजोगुणधारणेन परब्रह्मैव ब्रह्मेति सञ्ज्ञां प्राप्नोत् तदनन्तरं स ब्रह्मा देवान् असृजदिति ॥ २।११०।३ ॥
स इति । सः परब्रह्मशब्दवाच्यः ततः पालनहेतोः वसुन्धरां जलान्तर्वर्तिपृथ्वीं वराहो भूत्वा प्रोज्जहार, अनन्तरं कृतात्मभिः कृतप्रयत्नैः पुत्रैः सह सर्वं जगत् असृजत् ब्रह्मेति शेषः ॥ २।११०।४ ॥
तत्सर्जनप्रकारमाह– आकाशेत्यादिभिः । शाश्वतः सार्वकालिकः अत एव नित्यः ध्वंसाप्रतियोगी अत एव अव्ययः विकारशून्यः आकाशात् आकाशब्रह्मणः प्रभवो यस्य सः यो ब्रह्मा परमपुरुषेच्छामात्रेण गृहीतरजोगुणहेतुकः लब्धब्रह्मसञ्ज्ञं प्रकाशब्रह्मेत्यर्थः । तस्मान्मरीचिः सञ्जज्ञे मरीचेः सुतः कश्यपः सञ्जज्ञे अत एव “सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः” इति भागवतेनैकवाक्यता । तत्र प्रकाशब्रह्मणः परपुरुषत्वं प्रकाशिपरपुरुषतादात्म्यादिति नानुपपत्तिः, आकाशशब्दस्य परब्रह्मत्वं तु “आकाशो ह वै एतयोः नामरूपयोर्निर्वहिता” इत्यादि श्रुतौ प्रसिद्धम् । निर्णीतं चैतद्विशेषेण “आकाशस्तल्लिङ्गात्” इति सूत्रे भाष्ये ॥ २।११०।५ ॥
विवस्वानिति । कश्यपात् विवस्वान् सूर्यः जज्ञे वैवस्वतः विवस्वत्पुत्रः मनुः जज्ञे स मनुः पूर्वं प्रजापतिः मनोः सुतः इक्ष्वाकुः ॥ २।११०।६ ॥
यस्येति । यस्य यस्मै इक्ष्वाकवे प्रथमं पूर्वं समृद्धा मही मनुना दत्ता तमिक्ष्वाकुमयोध्यायां पूर्वकं प्रथमं राजानं विद्धि ॥ २।११०।७ ॥
इक्ष्वाकोरिति । इक्ष्वाकोः सुतः कुक्षिः इत्येव नाम्ना विश्रुतो विख्यातः, कुक्षेः आत्मजः विकुक्षिः उदपद्यत ॥ २।११०।८ ॥
विकुक्षेरिति । विकुक्षेस्तु बाणः उदपद्यत, बाणस्य च अनरण्यः उदपद्यतेति शेषः ॥ २।११०।९ ॥
नेति । सतां वरे महतां स्वीकारकर्तरि अस्मिन् अनरण्ये महाराजे सति अनावृष्टिः दुर्भिक्षश्च न बभूव कश्चन तस्करश्च न बभूव ॥ २।११०।१० ॥
अनरण्यादिति । हे महाराज अनरण्यात् पृथू राजा बभूव । तस्मात्पृथोः त्रिशङ्कुः उदपद्यत ॥ २।११०।११ ॥
स इति । स त्रिशङ्कुः सत्यवचनात् विश्वामित्रसत्यप्रतिज्ञानात् दिवं गतः । त्रिशङ्को धुन्धुमारः सूनुः प्राभवत् ॥ २।११०।१२ ॥
धुन्धुमारादिति । धुन्धुमारात् युवनाश्वो व्यजायत, युवनाश्वसुतः मान्धाता समपद्यत ॥ २।११०।१३ ॥
मान्धातुरिति । मान्धातुः सुसन्धिः उदपद्यत, सुसन्धेः ध्रुवसंन्धिः प्रसेनजित् द्वौ पुत्रौ उदपद्येताम् ॥ २।११०।१४ ॥
यशस्वीति । ध्रुवसन्धेस्तु भरतो ऽजायत, भरतात्तु असितो नाम जायत अजयत अडभावस्तु आगमशास्त्रस्यानित्यत्वात् ॥ २।११०।१५ ॥
यस्येति । यस्य असितस्य हैहयाद्याः चत्वारो राजानः प्रतिशत्रवः उदपद्यन्त, सो ऽसितः तान् हैहयादीन् युद्धे प्रतिव्यूह्य स्वसैन्येनावृत्य विद्यमानो ऽपि राजा पित्रा प्रवासितः शत्रुबाहुल्यात् पराजयशङ्कया विवासितः अत एव रम्ये शैलवरे अभिरतः सन् मुनिः परमात्ममननशीलो बभूव । श्लोकद्वयमेकान्वयि ॥ २।११०।१६,१७ ॥
द्वे इति । अस्य असितस्य द्वे भार्ये गर्भिण्यौ बभूवतुः । तत्र तयोर्मध्ये एका भार्या उत्तमं पुत्रं काङ्क्षिणी सती देववर्चसं भार्गवं च्यवनं ववन्दे वन्दनपूर्वकपुत्ररक्षां सम्प्रार्थ्य स्वगृहे तस्थावित्यर्थः । एका परा गर्भविनाशाय सपत्न्यै गरं विषं ददौ इति श्रुतिः श्रवणम् । श्लोकद्वयमेकान्वयि ॥ २।११०।१८,१९ ॥
भार्गव इति । च्यवनो नाम भार्गवः हिमवन्तमुपाश्रितः प्राप्तः सञ्जातसपत्नीकर्तृकगरदाना असितभार्या कालिन्दी तमृषिं च्यवनमभ्युपागम्य अभ्यवादयत् ॥ २।११०।२० ॥
स इति । सः कालिन्द्या अभिवादितः अत एव प्रीतः च्यवनः पुत्रजन्मनि पुत्रजन्मार्थं वरेप्सुं कालिन्दीं हे देवि लोकविश्रुतः धार्मिकत्वादिगुणविशिष्टः महात्मा ते पुत्रो भविता इति अभ्यवदत् । सार्धश्लोक एकान्वयी ॥ २।११०।२१ ॥
श्रुत्वेति । श्रुत्वा च्यवनोक्तमाकर्ण्य पद्मपत्रसमानाक्षं तं मुनिमनुमान्य सम्पूज्य प्रदक्षिणं कृत्वा च ततः मुनिसमीपाद्गृहमागम्य पत्नी असितस्य स्त्री पुत्रमजायत अजनयत् ॥ २।११०।२२,२३ ॥
सपत्न्येति । य गरः गर्भजिघांसया सपत्न्या दत्तः तेन गरेण सहैव जात इति शेषः, तस्माद्धेतोः सः गरसहितजन्मा सगरः सगरनामा अभवत् ॥ २।११०।२४ ॥
स इति । यः पर्वणि इष्ट्वा दीक्षां गृहीत्वा वेगेन खननशब्दतरसा इमाः प्रजास्त्रासयन् सन् यः समुद्रमखानयत् स्वपुत्रैरिति शेषः, तस्य सगरस्य असमञ्जः पुत्रो ऽभूत् इति नः श्रुतं, सः असमञ्जः पापकर्मकृत् इव पित्रा निरस्तः परित्यक्तः । एव इवार्थे । श्लोकद्वयमेकान्वयि ॥ २।११०।२५,२६ ॥
अंशुमानिति । असमञ्जस्य अंशुमान् पुत्रो ऽभूत्, अंशुमतः पुत्रो दिलीपो ऽभूत्, दिलीपस्य भगीरथो ऽभूत् ॥ २।११०।२७ ॥
भगीरथादिति । भगीरथात्ककुत्स्थो ऽभूत् येन तद्वंशाः काकुत्स्थाः स्मृताः । ककुत्स्थस्य पुत्रो रघुरभूत् येन राघवाः स्मृताः ॥ २।११०।२८ ॥
रघोरिति । रघोः पुत्रस्तु प्रवृद्धादिनामचतुष्टयवान् प्रथितः प्रसिद्धो ऽभवत् ॥ २।११०।२९ ॥
कल्माषेति । कल्माषपादपुत्रः शङ्खणो ऽभूत् यः शङ्खणः तद्वीर्यं वसिष्ठशापवीर्यजनितराक्षसत्वमासाद्य प्राप्य सहसैन्यः व्यनीनशत् विनाशं प्राप्नोत्, राक्षसानां विवेकाभावेन स्वसैन्यमप्यभक्षयदित्यर्थः, इति नः श्रुतम् ॥ २।११०।३० ॥
शङ्खणस्येति । शङ्खणस्य पुत्रः सुदर्शनो ऽभूत्, सुदर्शनस्य अग्निवर्णः अग्निवर्णस्य शीघ्रगः अभूत् ॥ २।११०।३१ ॥
शीघ्रगस्येति । शीघ्रगस्य मरुः मरोः प्रशुश्रवः, प्रश्रुश्रवस्य पुत्रः अम्बरीषः अभूत् ॥ २।११०।३२ ॥
अम्बरीषस्येति । अम्बरीषस्य पुत्रो नहुषो ऽभूत्, नहुषस्य नाभागः पुत्रो ऽभूत् ॥ २।११०।३३ ॥
अज इति । अजः सुव्रतश्च उभौ नाभागस्य सुतौ, अजस्य सुतो राजा दशरथः ॥ २।११०।३४ ॥
तस्येति । तस्य दशरथस्य राम इत्यभिविश्रुतः ज्येष्ठः दायादः सुतः यतस्त्वमसि अतः स्वकं ज्येष्ठस्यैव परम्पराप्राप्तत्वेन स्वकीयं राज्यं गृहाण जगत् तद्व्यवहारमवेक्षस्व च “दायादौ सुतबान्धवौ” इत्यमरः ॥ २।११०।३५ ॥
इक्ष्वाकूणामिति । सर्वेषामिष्वाकूणां पूर्वजः ज्येष्ठ एव राजा भवति । पूर्वजे विद्यमाने सति अवरः गुणैर्न्यूनः अज्येष्ठः कनिष्ठः राजा राज्ञा राजा राजत्वेन वा नाभिषिच्यते ॥ २।११०।३६ ॥
स इति । राघवाणां सम्बन्धी स त्वमात्मनः कुलधर्मं विहातुं त्यक्तुं नार्हसि अतः प्रभूतरत्नामनेकविधरत्नविशिष्टां प्रभूतराष्ट्रां बहुदेशविशिष्टां मेदिनीं पितृवत् अनुशाधि ॥ २।११०।३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे दशाधिकश्ाततमः सर्गः ॥ २।११० ॥