जाबालिवचनश्रवणानन्तरकालिकरामवचनं वर्णयन्नाह– जाबालेरित्यादिभिः । जाबालेः वचः श्रुत्वा विप्रतिपन्नया चालयितुमशक्यया सूक्त्या वेदसंमतार्थवचनकारणीभूतया अत एव परया बुद्ध्योपलक्षितो रामः उवाच ॥ २।१०९।१ ॥
तद्वचनाकारमाह– भवानित्यादिभिः । मे प्रियकामार्थं मत्प्रीतीच्छया इह अस्मिन् काले यद्वचनं भवान् उक्तवान् तद्वचनमकार्यं कर्तुमनर्हमपि कार्यसङ्काशं कर्तुमर्हमिव प्रकाशते अपथ्यमहितमपि पथ्यसन्निभं पथ्यवत्प्रकाशते ॥ २।१०९।२ ॥
निर्मर्याद इति । निर्मर्यादः त्यक्तवेदमार्गः अत एव भिन्नचारित्रदर्शनः वेदोक्ताचारप्रतियोगिकभेदविशिष्टाचारदर्शकः अत एव पापाचारसमन्वितः पापाचरणविशिष्टः पुरुषः सत्सु सज्जनसमाजेषु मानं सत्कारं न लभते । एतेन भवदुक्तिः सज्जनैस्तिरस्कृतेति सूचितम् ॥ २।१०९।३ ॥
वेदमर्यादास्वीकारे प्रयोजनान्तरमाह– कुलीनमिति । कुलीनं शोभनकुलोत्पन्नत्वमकुलीनं तद्विपरीतं वा वीरं शौर्यं पुरुषमानिनं तद्रहितत्वं वा शुचिं पवित्रत्वम् अशुचिं तद्विपरीतं वा चारित्रम् आचरणमेव व्याख्याति बोधयति विहिताचरणशीले सुकुलोपन्नत्वादिप्रतीतिः तदशीले तद्विपरीतप्रतीतिराचरणादेवेति तात्पर्यम्, एतेन वेदमर्यादात्यागे साङ्कर्यं प्रसज्जेतेति सूचितम् ॥ २।१०९।४ ॥
साङ्कर्यमेव प्रदर्शयन्नाह– अनार्य इति । अनार्यो नीचः आर्यसंस्थानः श्रेष्ठसदृशः स्यात्, शौचाद्धीनः रहितः शुचिः स्यात्, अलक्षण्यो लक्षणहीनः लक्षण्यवत् लक्षणयुक्तवत् स्यात्, दुःशीलः शीलरहितः शीलवानिव स्यात् ॥ २।१०९।५ ॥
अधर्ममिति । लोकसङ्करं लोकसाङ्कर्यहेतुमधर्मं धर्मविरुद्धं धर्मवेषेण धर्मत्वरूपेण यत् यदि अभिपत्स्ये स्वीकरिष्यामि तर्हि शुभं वेदबोधितत्वेन मङ्गलप्रदं कर्म हित्वा विधिविवर्जितां वेदोक्तहीनां क्रियामभिपत्स्ये प्राप्स्यामि ॥ २।१०९।६ ॥
ननु स्वतःसिद्धनित्यसर्वसम्पत्तिविशिष्टस्य तव फलाभिकाङ्क्षाराहित्यात् वेदविरुद्धाचरणे ऽपि का क्षतिरित्यत आह– क इति । कार्याकार्यविचक्षणः कर्तव्याकर्तव्यविषयकविवेकविशिष्टः इत्यर्थः, कः पुरुषः दुर्वृत्तं वेदविरुद्धवृत्तिविशिष्टमत एव लोकदूषणं प्रवृत्तिजनकविरुद्धस्वाचरणदर्शनेन सर्वजनदूषकं मां बहु मन्येत न को ऽपीत्यर्थः ॥ २।१०९।७ ॥
ननु किं बहुमानेनेत्यत आह– कस्येति । हीनप्रतिज्ञया हीना निवृत्ता प्रतिज्ञा यस्यां तया अनया वृत्त्या वर्तमानो ऽहं वृत्तं स्वधर्मच्युतिरूपवृत्तान्तं कस्य यास्यामि प्रापयिष्यामि कथयिष्यामीत्यर्थः, केन कर्मणा उपलक्षितं जनं स्वर्गमाप्नुयां प्राप्नुयाम् । “दास्यामि” इति भूषणपाठः ॥ २।१०९।८ ॥
ननु ताभ्यामपि भवतो न हानिरिति तदाशङ्कां मनसि निधाय मम दुर्मार्गवर्तित्वे सर्वेषां तद्भविष्यतीत्याह– कामेति । अनु मत्कामवृत्तिदर्शनानन्तरं कृत्स्नः अयं लोकः कामवृत्तः यथेष्टाचरणः समुपवर्तते भविष्यति, तत्र हेतुः यद्वृत्ताः यादृशवृत्तिविशिष्टाः राजानः तद्वृत्ताः तादृशवृत्तिविशिष्टाः प्रजाः सन्ति ॥ २।१०९।९ ॥
धर्मप्रवृत्तौ राजैव निमित्तमिति बोधयन्नाह– सत्यमिति । सत्यमनृशंसं क्रूरताराहित्यं च सनातनं सार्वकालिकं राजवृत्तं राजभिराचरितं तस्माद्धेतोः राज्यं सत्यात्मकं सत्यप्रचुरमत एव लोको जनः सत्ये सत्यप्राप्तौ सत्येव प्रतिष्ठितः प्रतिष्ठावान् भवति ॥ २।१०९।१० ॥
ऋषय इति । ऋषयो देवाश्च सत्यमेव मेनिरे श्रेयःप्रापकत्वेन स्वीचक्रुः । तत्र हेतुः अस्मिंल्लोके सत्यवादी पुरुषः अक्षयं विनाशरहितं परं लोकं गच्छति ॥ २।१०९।११ ॥
उद्विजन्त इति । सर्वे जनाः यथा सर्पादुद्विजन्ते निभ्यति तथा अनृतवादिनः मिथ्याकथनशीलात् उद्विजन्ते एतेनानृतवादः सर्वपापमूलमिति सूचितम् । लोके धर्मः सत्यपरः सत्येनैव पूर्यते पूर्णो भवति अतः सर्वस्य धर्मस्य मूलं सत्यमुच्यते ॥ २।१०९।१२ ॥
सत्यमिति । सर्वाणि कर्माणि सत्यमूलानि भवन्ति अत एव धर्मः सदा नित्यं सत्ये एवाश्रितः अतः सत्यमेव लोके ईश्वरः अतः सत्यात्परमन्यत् पदमाश्रयो नास्ति ॥ २।१०९।१३ ॥
दत्तमिति । दत्तादिकं वेदाश्च सत्यप्रतिष्ठानां सत्येन प्रतिष्ठानं प्रतिष्ठा येषां ते तस्मात् सत्यपरः सत्यनिष्ठः भवेत् कल्याणाभिलाषी जन इति शेषः ॥ २।१०९।१४ ॥
कर्मणां सफलत्वे प्रमाणमाह– एक इति । एकः कश्चित् निरये नरके मज्जति एकः स्वर्गे महीयते पूज्यते । एतेन विचित्रकर्मणां विचित्रफलप्रापकत्वादिदं सर्वं सङ्गच्छत इति सूचितम् ॥ २।१०९।१५ ॥
स इति । सः ज्ञातकर्मफलतत्त्वो ऽहं पितुर्निर्देशमाज्ञां किमर्थं नानुपालये समयी सदाचारसम्पन्नो राजा यतः सत्यप्रतिश्रवः सत्यप्रतिज्ञः अतः सत्येन सत्यपरिपालनहेतुना सत्यमेव कृतमाज्ञापितमित्यर्थः । एतेन धर्मपरिपालनमेव प्राव्राजनहेतुरिति सूचितम् ॥ २।१०९।१६ ॥
नैवेति । यतो ऽहं सत्यप्रतिश्रवः अतः तमोन्वितः तमोरूपेण त्वयान्वितः प्रेरितो ऽपि सन् लोभादिना गुरोः पितुः सत्यस्य सेतुं मर्यादां न भेत्स्यामि । नञ्त्रयोक्त्या सत्यत्यागविषयिणी वार्ता पुनर्न वक्तव्येति सूचितम् ॥ २।१०९।१७ ॥
सत्यप्रतिज्ञात्यागे दोषमाह– असत्येति । असत्यसन्धस्य निवृत्तसत्यप्रतिज्ञत्वस्य अत एव चलस्य धर्माच्च्युतस्य अत एव अस्थिरचेतसः चञ्चलचित्तस्य सतो विद्यमानस्य जनस्य हव्यकव्यादीनि न प्रतीच्छन्ति गृह्णन्तीत्यर्थः, इति नो ऽस्माभिः श्रुतम् ॥ २।१०९।१८ ॥
प्रत्यगिति । सत्यं सत्यरूपमिमं धर्मं प्रत्यगात्मं सर्वात्मविहितं पश्यामि भरो जटादिभरः सत्पुरुषैः चीर्णः कृतः तदर्थं तस्माद्धेतोः अभिनन्द्यते मयेति शेषः ॥ २।१०९।१९ ॥
ननु पालनस्य क्षत्रियधर्मत्वे स एव हठादपि कुतो न स्वीक्रियते इत्यत आह– क्षात्रमिति । अधर्मं विरुद्धधर्मेण गृहीतं पापकर्मभिः क्षुद्रादिभिः सेवितं धर्मसंहितं धर्मत्वेन प्रतीयमानं क्षात्रधर्ममहं त्यक्ष्ये, एतेन पित्राद्याज्ञापनमन्तरा हठाद्राज्यग्रहणमधर्म एवेति सूचितम् ॥ २।१०९।२० ॥
त्रिविधानामपि पापकर्मणामेवं राज्यकरणे प्रवृत्तिर्भविष्यतीति बोधयितुं कर्मणां विभागमाह– कायेनेति । कायेन यत्पापं कुरुते तज्जिह्वया अनृतं यत् आह तच्च मनसा असम्प्रधार्य अनिश्चित्यैव यत्कुरुते दुर्मार्गे धावतीत्यर्थः, तच्च पापमतः पातकं त्रिविधं मनोवाक्कायत्रितयसम्बन्धित्वात् त्रिप्रकारकमेतेन सत्यप्रतिज्ञत्वत्यागपूर्वकैतद्राज्यकरणे त्रिविधपापसम्बन्धे भविष्यतीति सूचितम् ॥ २।१०९।२१ ॥
भूमिरिति । भूम्यादयः सत्यविशिष्टं पुरुषं प्रार्थयन्ति सत्यविशिष्टमित्यध्याहृतमतः सत्यं समनुवर्तन्ते सेवन्ते महान्त इति शेषः, ततस्तस्माद्धेतोः सत्यमेव भजेत् सर्वो जन इति शेषः ॥ २।१०९।२२ ॥
श्रेष्ठमिति । युक्तिकरैः शुष्कतर्कसम्पादितैर्वाक्यैर्भद्रं कल्याणकरमिदं राज्यं त्वं कुरुष्व इति भवान् यच्छ्रेष्ठं वचो ऽवधार्य निश्चित्य मामाह तदनार्यमेव स्यात् ॥ २।१०९।२३ ॥
तद्वचनस्यानार्यत्वं द्योतयन्नाह– कथमिति । गुरोः पितुः अग्रे वनवासं प्रतिज्ञाय गुरोर्वचो हित्वा भरतस्य वचः कथं करिष्यामि ॥ २।१०९।२४ ॥
वनवासत्यागस्यानौचित्यमेव द्रढयन्नाह– स्थिरेति । गुरुसंनिधौ राजसमीपे स्थिरा निश्चला
प्रतिज्ञा मया प्रतिज्ञाता कृता तदा देवी कैकेयी प्रहृष्टमानसा अभवत् ॥ २।१०९।२५ ॥
वनवासमिति । वनवासं वसन् कुर्वन् पित्रादींस्तर्पयन् श्रद्दधानश्च सन् मूलादिभिर्नियतभोजनः अत एव सन्तुष्टपञ्चवर्गः सन्तुष्टः पञ्चवर्गः पञ्चेन्द्रियगणो यस्य सः किञ्च सन्तुष्टेन सन्तोषेण पञ्चौ व्यक्तौ वर्गौ सीतालक्ष्मणौ यस्य स शुचिः अकुहः कापट्यसंसर्गरहितः कार्याकार्यविचक्षणः कर्तव्याकर्तव्यविषयकनिश्चयविशिष्टो ऽहं लोकयात्रां स्वजनमर्यादां प्रवाहये निर्वाहयामि । श्लोकद्वयमेकान्वयि ॥ २।१०९।२६,२७ ॥
ननु नित्यपुरुषाणां कर्मफलं संसर्गित्वाभावेन कर्मफलानां का गतिरित्यत आह– कर्मेति । इमां कर्मभूमिं प्राप्य यच्छुभं कर्म तत्कर्तव्यं, कर्मणां फलभागिनस्तु अग्न्यादयो भवन्तीति शेषः ॥ २।१०९।२८ ॥
कर्मणां सफलत्वे शिष्टाचारं प्रमाणयन्नाह– शतमिति । क्रतूनां यागानां शतमाहृत्य कृत्वा देवराट् इन्द्रः सन् त्रिदिवं स्वर्गं गतः महर्षयः दिवं प्राप्ताः ॥ २।१०९।२९ ॥
अमृष्यमाण इति । उग्रतेजाः नृपतेस्तनूजो रामस्तं जाबालिनोक्तं नास्तिकवाक्यहेतुं निशम्य तस्य वचनानि अमृष्यमाणः अत एव विगर्हमाणः निन्दयन् सन् तं जाबालिं पुनरब्रवीत् ॥ २।१०९।३० ॥
तद्वचनाकारमाह– सत्यमिति । सन्तः सत्यादीनि त्रिदिवस्य पन्थानमाहुः, एतेन त्वदुक्तकर्मनिष्फलवादः सज्जनविरुद्ध इति सूचितम् ॥ २।१०९।३१ ॥
तेनेति । तेन कर्मणां सफलत्वेन हेतुना अर्थं कर्मनिर्वाहकपदार्थं यथावत् आज्ञाय एकोदयं परस्परं सम्मतिं सम्प्रतिपद्य प्राप्य सकलं साङ्गं धर्मं यथावत् चरन्तः विप्राः लोकागमं स्वाभिमतलोकप्राप्ितं काङ्क्षन्ति ॥ १०९।३२ ॥
निन्दामीति । विषमस्थबुद्धिं वेदविरुद्धविषयकनिश्चयवन्तमनया कर्मनिवारिकया बुद्ध्या एवं चरन्तमत एव सुनास्तिकं परलोकाभावविषयकनिश्चयवन्तमत एव धर्मपथादपेतं च्युतं त्वां मत्पिता यत् अगृह्णात् तत् पितुः कृतं कर्म निन्दामि इदं न शोभनं कृतमिति वदामीत्यर्थः, एतेन यत्सम्बन्धादन्यस्य निन्दा तस्य निन्देति किं
वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो व्यक्तः ॥ २।१०९।३३ ॥
यथेति । यथा चोरः तथैव बुद्धः चोरवत् बुद्धो दण्ड्य इत्यर्थः । अत्र अस्मिन् चोरसादृश्ये विद्यमानं तथागतं लोकायतिकं नास्तिकं चार्वाकं च विद्धि जानीहि एतावपि चोरवद्दड्यावित्यर्थः, तस्माद्धेतोः प्रजानां मध्ये यः शक्यतमः दण्डदाने अत्यन्तं समर्थः स एव बुद्धः नास्तिकेन बौद्धादिना अभिमुखः स्यात्, एतेन यो दण्डदाने असमर्थः स नास्तिकं दूरतः परिवर्जयेदिति सूचितम् ॥ २।१०९।३४ ॥
कर्माचरणे शिष्टाचारं प्रमाणयन्नाह– त्वत्त इति । त्वत्तः पूर्वतरे द्विजा जनाः सर्वे द्विजा इत्यर्थः, शुभानि कर्माणि चक्रुस्तस्मात्कर्माचरणस्यावश्यकत्वाद्धेतोः इमं परं च लोकं छित्त्वा सर्वलोकविषकाभिलाषं त्यक्त्वेत्यर्थः, विद्यमानाः द्विजाः स्वस्तिकृतं कल्याणोत्पादकं हुतं यागं चकारेण सत्यसम्भाषणादि च चक्रुः, एतेन नास्तिकमतस्याधुनिकत्वं सूचितम् ॥ २।१०९।३५ ॥
धर्मे इति । सत्पुरुषैः समेताः सहिताः तेजस्विनः दानगुणप्रधानाः अतिदानशीलाः अहिंसकाः हिंसारहिता वीतमलाः मलसंसर्गरहिताः प्रधानाः वसिष्ठादयो मुनयः लोके पूज्याः भवन्ति कर्माचरणस्य निरर्थकत्वे कर्मप्रवर्तकमुनीनां वञ्चकत्वापत्त्या पूज्यत्वं न स्यादिति तात्पर्यम् ॥ २।१०९।३६ ॥
इतीति । महात्मानं सर्वपूज्यस्वरूपमदीनसत्त्वं दैन्यसंसर्गशून्यमिति सरोषं ब्रुवन्तं रामं सानुनयमनुनयसहितं पथ्यं लोकोपकारकं सत्यं कापट्यरहितमास्तिकं वचः विप्रः पुनरुवाच ॥ २।१०९।३७ ॥
तद्वचनाकारमाह– नेति । अहं नास्तिकानां वचनं ब्रवीमि नास्तिको नाहं, तत्र हेतुः यतः किञ्चन परलोकादिकं नास्तीति न सर्वमस्त्येवेत्यर्थः । इति कालं महात्मोपदेशं पुनः पुनः समीक्ष्य विचार्य आस्तिको ऽभवम् । एतेन मयि नास्तिकत्वप्राप्तिशङ्का न कर्तव्येति सूचितम् । ननु किमर्थं नास्तिकवचनमुच्चारितवानित्यत आह– काले अयोध्याकर्मकभवद्गमनार्थं नास्तिकः नास्तिकवचनवक्ता भवेय ॥ २।१०९।३८ ॥
तदेव भङ्ग्यन्तरेणाह– स इति । यतः सः अयोध्यागमनयोग्यः अयं काल उपागतः प्राप्तः अतः कारणात् यत्नतः तव प्रसादनार्थं निवर्तनार्थं च ईरितं सकम्पं नास्तिकवाक् शनैर्मयोदीरिता । एतदिति सामान्ये नपुंसकम् ॥ २।१०९।३९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ २।१०९ ॥