रामकर्तृकाश्वासनानन्तरकालिकं वृत्तान्तमाह– आश्वासयन्तमित्यादिभिः । भरतमाश्वासयन्तं रामं धर्मापेतं वेदोक्तधर्मरहितमिदं वचः ब्राह्मणोत्तमः जाबालिरुवाच ॥ २।१०८।१ ॥
तद्वचनाकारमाह– साध्वित्यादिभिः । हे राघव आर्यबुद्धेः प्रशस्तबुद्धिमतः तपस्विनः कर्मनिरतस्य प्राकृतस्य नरस्य निरर्थिका परमार्थरहिता बुद्धिरिव एवं इयं ते बुद्धिः साधु यथा स्यात्तथा मा भूत्, प्राकृतस्येवेत्युक्त्या रामस्य प्राकृतविलक्षणत्वं सूचितम् ॥ २।१०८।२ ॥
तद्बुद्धेर्निरर्थकत्वं बोधयन्नाह– क इति । यतः जन्तुः एक एव जायते उत्पद्यते एकः पुत्रादिरहित एव विनश्यति अतः कः पुरुषः कस्य बन्धुः अनुरागवान् केनचित्पुरुषेण कस्य पुरुषस्य किं वस्तु प्राप्यं स्वकीयत्वेन प्राप्यं केनचित्कस्यचित्सम्बन्धाभावात्सर्वं निरर्थकमित्यर्थः ॥ २।१०८।३ ॥
तस्मादिति । तस्मात्सम्बन्धाभावाद्धेतोः इयं मम माता अयं च मत्पिता इति बुद्ध्या यः सज्जेत आसक्तो भवेत् सः उन्मत्त इव ज्ञेयः यतः कस्यचित् सम्बन्धी कश्चिन्नास्ति ॥ २।१०८।४ ॥
यथेति । यथा ग्रामान्तरं गच्छन् कश्चिन्नरः बहिः वसेत् अपरे अहनि तमावासमुत्सृज्य परित्यज्य प्रतिष्ठेत अन्यत्र गच्छेत् एवं मनुष्याणां पित्रादिः आवासमात्रं मार्गगृहसदृशम् अतः अत्र पित्रादिषु सज्जनाः न सज्जन्ते । श्लोकद्वयमेकान्वयि ॥ २।१०८।५,६ ॥
पित्र्यमिति । सः ज्ञाततत्त्वस्त्वं राज्यं समुत्सृज्य बहुकण्टकं विषमं निम्नोन्नतविशिष्टमत एव दुःखं दुःखप्रदं कुपथं कुत्सितमार्गमास्थातुं त्वं नार्हसि ॥ २।१०८।७ ॥
समृद्धायामिति । आत्मानमभिषेचय हि यतः नगरी अयोध्या एकवेणीधरा सती त्वां सम्प्रतीक्षते, एकवेणीधरात्वं प्रोषितभर्तृकाया लक्षणं तेनायोध्यानिष्ठो ऽत्यनुरागः सूचितः ॥ २।१०८।८ ॥
राजभोगानिति । महार्हान् अतिप्रश्ांसनीयान् राजभोगान् अनुभवन् सन् त्रिविष्टपे स्वर्गे शक्र इव अयोध्यायां विहर ॥ २।१०८।९ ॥
ननु पित्रा वनवासाय नियुक्तत्वात्कथमेवं शक्यमित्यत आह– नेति । तस्मात्सम्बन्धाभावाद्धेतोः यन्मयोच्यते तत्कुरु ॥ २।१०८।१० ॥
नन्वेतद्देहस्य पितुरुपादानत्वात् कथं सम्बन्धाभाव इत्यत आह– बीजेति । यतः ऋतुमती चासौ माता च तया संयुक्तं संयोजितं यत् शुक्रं शोणितं च तत्तस्मादेवास्य इह जन्म, एतेन शुक्रशोणितयोरुपादानत्वं सूचितं पिता बीजमात्रहेतुरेव न तूपादानमित्यर्थः ॥ २।१०८।११ ॥
ननु निमित्तत्वे ऽपि सम्बन्धाभावो ऽनुपपन्न इत्यत आह– गत इति । यत्र तेन नृपतिना गन्तव्यं तत्र गतः एतेन एकस्य सम्बन्धिनो नष्टात्वात्सम्बन्धो ऽपि नष्ट इत्यर्थः, अतः यया पितृत्वादिविषयिण्या प्रवृत्त्या त्वं मिथ्या विहन्यसे पराभाव्यसे सा एषा प्रवृत्तिः भूतानां प्राकृतजन्तूनाम्, एतेन तवायं त्यागो नोचित इति सूचितम् ॥ २।१०८।१२ ॥
अर्थेति । ये ये पुरुषाः अर्थधर्मपराः अर्थधर्मयोरर्जने कृतश्रमास्तांस्तान् शोचामि तच्छ्रमाणां निरर्थकत्वात्पश्चात्तापं करोमीत्यर्थः । निरर्थकत्वमेवोपपादयति– ते कृतश्रमा जनाः इहास्मिन् भोगसमये दुःखं सत्कर्मश्रमजनितखेदं प्राप्य विनाशं स्वविध्वंसं लेभिरे, एतेन भोगं चिकीर्षोर्विनाशस्यावश्यकत्वात् श्रमस्यैव तेषां लाभ इति सूचितम् ॥ २।१०८।१३ ॥
धर्मपराणामज्ञानं बोधयन्नाह– अष्टकेति । अष्टका तदुपलक्षितश्राद्धकर्मजातं पितृदैवत्यं पितृभोक्तृकमित्यर्थः । इति बुद्ध्या प्रसृतः श्राद्धकर्मणि प्रवृत्तो जनः अन्नस्य जीवद्भोग्यस्य उपद्रवं विनाशं करोति हि यतः मृतः ध्वंसप्रतियोगी जनः किं कथमशिष्यति, एतेन मृतानामपि भोगकर्तृत्वे ध्वंसप्रतियोगिभिर्घटादिभिरपि जलाहरणादिक्रया प्रसज्जेत इति सूचितम् ॥ २।१०८।१४ ॥
पित्रुदेश्यकपिण्डदानादेर्वैयर्थ्यमुपपाद्य तदुद्देश्यकब्राह्मणभोजनस्यापि वैयर्थ्यमुपपादयन्नाह– यदीति । यदि अन्येन भुक्तमन्नमन्यस्य देहं गच्छति प्राप्नोति तदा प्रवसतां प्रवसतः विदेशं प्राप्तानुद्दिश्य श्राद्धं श्रद्धया निष्पादितमन्नं दद्यात् ब्राह्मणान्भोजयेदित्यर्थः, तद्ब्राह्मणभुक्तं प्रवसतां पथ्यशनं न भवेत् भवेदेवेत्यर्थः । प्रवसतामित्युभयान्वपि ॥ २।१०८।१५ ॥
ननु श्राद्धादेर्वैयर्थ्ये तत्र शास्त्राणि कथं प्रवृत्तानीत्यत आह– दानेति । यजस्व संन्त्यज धनादि दत्त्वा गृहत्यागं कुरु, एते दानसंवननाः दानरचनावन्तो ग्रन्थाः मेधाविभिः बुद्धिमद्भिः कृताः धनप्राप्त्यर्थं रचिताः ॥ २।१०८।१६ ॥
स इति । हे महामते सः ज्ञाततत्त्वस्त्वं परमितो ऽन्यत् भोग्यं नास्ति इति बुद्धिं कुरु अतः यदेतत् प्रत्यक्षं राज्यमुखं तदातिष्ठ गृहाणेत्यर्थः, परोक्षं प्रत्यक्षभिन्नं पृष्ठतः कुरु त्यजेत्यर्थः ॥ २।१०८।१७ ॥
उपसंहरन्नाह– सतामिति । सर्वलोकनिदर्शिनीं सर्वजनबोधनशीलां सतां प्रत्यक्षैकप्रमाणवादिसज्जनानां बुद्धिज्ञानं पुरस्कृत्य आश्रित्य भरतेन प्रसादितस्त्वं राज्यं निगृह्णीष्व ॥ २।१०८।१८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टाधिकशततमः सर्गः ॥ २।१०८ ॥