१०७ रामस्य पित्राज्ञापालनकथनम्

भरतवचनश्रवणानन्तरकालिकरामोक्तिं वर्णयन्नाह– पुनरित्यादिभिः । ज्ञातिमध्ये सुसत्कृतो रामः एवं ब्रुवाणं भरतं प्रत्युवाच ॥ २।१०७।१ ॥

तदाकारमाह– उपपन्नमित्यादिभिः । राजसत्तमात् राजश्रेष्ठात् दशरथात् जातस्त्वं यत् वाक्यम् अभाषथाः तत् उपपन्नं युक्तमेव ॥ २।१०७।२ ॥

ननु मदुक्तस्योपपन्नत्वे तथैव क्रियतामित्यत आह– पुरेत्यादिभिः । हे भ्रातः नः पिता ते मातरं समुद्वहन् सन् राज्यशुल्कं तव पुत्र्यां यः पुत्रो भविता तस्मै राज्यं दातास्मीति मूल्यं ते मातामहे मातामहसन्निधौ समाश्रौषीत् प्रतिज्ञामकरोत् ॥ २।१०७।३ ॥

देवेति । देवासुरे सङ्ग्रामे च तव जनन्यै सम्प्रहृष्टः राजा अत्यनुरागवान् पार्थिवः नः पिता वरं वरद्वयं ददौ ॥ २।१०७।४ ॥

तत इति । ततः वरद्वयप्रदानाद्धेतोः सा यशस्विनी वरवर्णिनी विलक्षणगौराङ्गी किञ्च वरदानवृत्तान्तवर्णनकर्त्री तव माता सम्प्रतिश्राव्यं संस्मार्य किञ्च पूर्वदत्तं वरद्वयमिदानीमवश्यं ददामीति प्रतिज्ञां कारयित्वा नरश्रेष्ठं राजानं तव राज्यं मम प्रव्राजनं च द्वौ वरौ अयाचत वरं नियुक्तस्तया प्रार्थितो राजा तस्यै तव मात्रे प्रददौ । श्लोकद्वयमेकान्वयि । जात्यभिप्रायेणैकवचनम् ॥ २।१०७।५,६ ॥

तेनेति । तेन हेतुना अत्र अस्मिन् दण्डकारण्ये वने वरदानिकं वरदानहेतुकं चतुर्दश वर्षाणि वा सम्प्रति पित्रा ऽहं नियुक्तः ॥ २।१०७।७ ॥

स इति । सः पित्राज्ञप्तः पितुः सत्यवादं स्थितः अप्रतिद्वन्द्वः शीतोष्णादिबाधारहितो ऽहमिदं वनं प्राप्तः ॥ २।१०७।८ ॥

भवानीति । अभिषेचनात् अभिषेचनेन स्वकर्तृकराज्यपालनेन राजेन्द्रं पितरं सत्यवादिनं कर्तुं भवान् क्षिप्रं शीघ्रमेवार्हति ॥ २।१०७।९ ॥

ऋणादिति । हे भरत मत्कृते मन्नियोगे सति राजानं पितरं ऋणान्मातृसम्बन्ध्यावश्यदेयात् मोचय अत एव मातरमभिनन्दय पितरं त्राहि सत्यप्रतिज्ञत्वपालनया रक्ष च । त्राहीत्यत्रात्मनेपदाभावः सञ्ज्ञापूर्वकविधेरनित्यत्वात्, व्याख्यानान्तरं च चक्रिँस्त्रायस्वेत्यत्रत्यमनोरमाद्युक्तदिशा ऽवगन्तव्यम् ॥ २।१०७।१० ॥

पितृवचनपालनस्यावश्यकत्वे शिष्टाचारं प्रमाणयन्नाह– श्रूयत इत्यादिभिः । गयेषु गयाभिधतीर्थप्रदेशेषु यजमानेन यागं कुर्वता गयेन तदभिधराजेन पितृ़न्प्रति गीता कथिता श्रुतिः प्रमाणिकात्वेन वेदसदृशवचनविशेषः श्रूयते ॥ २।१०७।११ ॥

ननु का सा श्रुतिरित्यत आह– पुन्नाम्न इति । यस्माद्धेतोः पुन्नाम्नस्तदभिधात् नरकात् पितरं यः सुतस्त्रायते तस्माद्धेतोः स पुत्र इति प्रोक्तः सञ्ज्ञां प्राप्तः अत एव पितृ़न् सर्वतः पाति रक्षति ॥ २।१०७।१२ ॥

एष्टव्या इति । गुणवन्तः सौशील्यादिगुणविशिष्टाः बहुश्रुताः अनेकशास्त्रसम्पन्नाः बहवः पुत्राः एष्टव्या अभिकाङ्क्षणीयाः । तत्प्रयोजनमाह– समवेतानां प्राप्तानां तेषां पुत्राणां मध्ये कश्चित्पुत्रो गयां व्रजेत् ॥ २।१०७।१३ ॥

एवमिति । हे रघुनन्दन यतः सर्वे राजर्षय एवं प्रतीताः विश्वासं प्राप्तास्तस्माद्धेतोः पितरं नरकात् जनापवादशब्दात् त्राहि ॥ २।१०७।१४ ॥

रक्षणप्रकारमाह– अयोध्यामिति । अयोध्यां गच्छ प्रकृतीः प्रजा उपरञ्जय पालयेत्यर्थः ॥ २।१०७।१५ ॥

प्रवेक्ष्य इति । अहमपि अविलम्बयन् सन् दण्डकारण्यं प्रवेक्ष्ये ॥ २।१०७।१६ ॥

तदेव भङ्ग्यन्तरेणाह– त्वमिति द्वाभ्याम् । हे भरत त्वं नराणां राजा भव राजराट् राजराजो ऽप्यहं मृगाणां राजा भवामीति शेषः, अतः सम्प्रहृष्टस्त्वं पुरवरमयोध्यां गच्छ अहमपि दण्डकान् प्रवेक्ष्ये ॥ २।१०७।१७ ॥

छायामिति । हे भरत दिनकरभाः सूर्यतेजांसि प्रबाधमानं पराभावयमानं वर्षत्रं छत्रं ते मूर्ध्नि शीतां छायां करोतु, एतेषां काननद्रुमाणां तां शीतामतिशयनीं निबिडां छायामहमपि श्रयिष्ये ॥ २।१०७।१८ ॥

शत्रुघ्न इति । अतुलमतिः शत्रुघ्नस्ते तव सहायो ऽस्तु, विदितः प्रसिद्धः सौमित्रिः मम प्रधानमित्रमस्तु, अतः हे भरत चत्वारस्तनयवराः पुत्रोत्तमाः वयं नरेन्द्रं पितरं सत्यस्थं सत्यप्रतिज्ञत्वं चराम प्रापयाम अतः मा विषीद ॥ २।१०७।१९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ २।१०७ ॥