भरतवृत्तान्तं वर्णयन्नाह– एवमित्यादिभिः । एवमर्थवद्वचः उक्त्वा रामे विरते निवृत्ते सति प्रकृतिवत्सलं रामं धार्मिको भरतः धार्मिकं धर्मसहितं चित्रम् अनेकविधयुक्तिविशिष्टं वचः उवाच । तद्वचनाकारमाह– हे अरिन्दम यादृशः यादृशगुणविशिष्टस्त्वमसि ईदृशः लोके भुवने कः स्यान्न को ऽपीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ २।१०६।१,२ ॥
नेति । दुःखं दुःखश्रवणं त्वां न प्रव्यथयेत् न वा प्रीतिः प्रीतिवचनं प्रहर्षयेत् । तथापि वृद्धानां सम्मतस्त्वं तान् वृद्धान् संशयान् पृच्छसि, एतेन मर्यादापालनार्थमेव तव प्रश्न इति सूचितम् ॥ २।१०६।३ ॥
यथेति । यथा मृतः लोकान्तरं प्राप्तः तथा जीवन् इह लोके स्थितो ऽपि यथा सति सत्पुरुषे यथा ऽपराधदण्डस्तथा असति असत्पुरुषे ऽपि यस्य एष बुद्धिलाभः स्यात् स केन हेतुना परितप्यते न केनापीत्यर्थः ॥ २।१०६।४ ॥
परावरज्ञ इति । हे मनुजाधिप यथा त्वं परावरज्ञः निखिलतत्त्वज्ञः तथा यः स्यात् सः पुरुषः एवं व्यसनं दुःखं प्राप्यापि विषीदितुं विषत्तुं नार्हति ॥ २।१०६।५ ॥
अमर इति । राघव हे राम अमरोपमसत्त्वः देवतुल्यपराक्रमः महात्मा सर्वपूज्यस्वरूपः सत्यसङ्गरः सत्यवक्ता सर्वज्ञः निखिलज्ञाता सर्वदर्शी सर्वनियन्ता बुद्धिमान् अतिशयबुद्धिविशिष्टस्त्वमसि ॥ २।१०६।६ ॥
नेति । एवं पूर्वोक्तैः गुणैर्युक्तमत एव प्रभवाभवकोविदं प्रवृत्तिनिवृत्तिकारणतत्त्वज्ञाननिपुणं त्वाम् विषह्यतममन्यैरसह्यमपि दुःखमासादयितुमाक्रमितुं नार्हति ॥ २।१०६।७ ॥
प्रोषिते इति । मत्कारणात् मदभावहेतोः क्षुद्रया मात्रा मातृसदृशीत्वेन माननीयया मन्थरया यत्पापं कृतं तत् मे अनिष्टम् ईप्सितं न अतः मम भवान् प्रसीदतु । अयं मातृशब्द आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ २।१०६।८ ॥
धर्मेति । धर्मबन्धेन स्त्री न हन्तव्येति वचनरूपबन्धनेन बद्धो ऽस्मि अत एव पापकारिणीं पापकर्मप्रयोजिकामत एव दण्डार्हां मातरं मातृसदृशीं मन्थरां तीव्रेण दण्डेन न हन्मि ॥ २।१०६।९ ॥
कथमिति । शुभाभिजनकर्मणः शुभे अभिजनकर्मणी यस्य तस्माद्दशरथाज्जातः अत एव धर्ममधर्मं च जानन् अहं जुगुप्सितं कर्म कथं कुर्याम् ॥ २।१०६।१० ॥
गुरुरिति । क्रियावान् निखिलविहितक्रियाविशिष्टः वृद्धः ज्ञानवयोभ्यामधिकः अत एव गुरुः पूजनीय इत्यर्थः, प्रेतः लोकान्तरं प्राप्तः यो राजा पिता तं दैवतं तातं संसदि सभायामहं न गर्हे ॥ २।१०६।११ ॥
ननु तत्र किं गर्हणीयमित्यत आह– क इति । किल्बिषं सर्वजनदुःखहेतुत्वेन पापरूपमत एव जुगुप्सितं सुजनैर्निन्दितमत एव हीनं त्यक्तव्यमीदृशं प्रतिज्ञाताभिषेकनिवृत्तिरूपं प्रियपुत्रप्रव्राजनरूपं कर्म धर्मार्थयोः हेतोः स्त्रियाः प्रियं चिकीर्षुः सन् धर्मवित् धर्मरचनाशीलः कः पुरुषः कुर्यात् न को ऽपीत्यर्थः । एतेन राज्याभिषेकनिवर्तनं नोचितमिति सूचितम् ॥ २।१०६।१२ ॥
अन्तेति । अन्तकाले लोकान्तरगमनसमये भूतानि प्राणिनो मुह्यन्ति इति पुरा पौर्वकालिकी या श्रुतिः श्रवणविषयीभूतवाक्यं सा श्रुतिः एवं विवेकराहित्यहेतुकाभिषेकनिवृत्तिं कुर्वता राज्ञा प्रत्यक्षा कृता ॥ २।१०६।१३ ॥
साध्विति । क्रोधात् कैकेयीकोपभयात् मोहात् चित्तविक्षेपाद्वा साहसात् विचाराभावाद्वा अर्थमभिसन्धाय अर्थबुद्धिं कृत्वा तातस्य यदतिक्रान्तमभिषेकातिक्रमणं तद्भवान्प्रत्याहरतु निवर्तयतु ॥ २।१०६।१४ ॥
पितुरिति । पितुः समतिक्रान्तं साधुपथात्प्रच्युतिं यः साधुः मन्यते बोधयति तत्प्रच्युतिं निवर्तयतीत्यर्थः, तदेवापत्यं लोके मतमतो विपरीतं साधु न मन्यते इत्यर्थः, तर्हि अन्यथा अपत्यं न भवतीत्यर्थः ॥ २।१०६।१५ ॥
तदिति । यतः अतियत् अतिप्रयत्नवान् भवान् तदपत्यम् अतः धीरविगर्हितं धीरैर्निन्दितं यत् पितुः कृतं निष्पादितं दुष्कृतं कर्तुमनर्हं कर्म तद्भवान् मास्तु न स्थापयतु अभिषेकं कारयत्वित्यर्थः । अन्तर्भावितणिजर्थो ऽस्तिः ॥ २।१०६।१६ ॥
कैकेयीमिति । कैकेय्यादीन् त्रातुमर्हतीति शेषः ॥ २।१०६।१७ ॥
वनवासस्यायोग्यतां वर्णयन्नाह– क्वेति । क्व अरण्यं क्व च क्षात्रं क्व जटाः पालनं क्व च द्वयोर्द्वन्द्वयोः परस्परं संयोगः न सम्भवतीत्यर्थः, अतः व्याहतं विरुद्धम् ईदृशं संयोजनरूपं कर्म कर्तुं भवान्नार्हति ॥ २।१०६।१८ ॥
ननु वानप्रस्थधर्मस्य क्षत्रियाणां विहितत्वात्कथं विरोध इत्यत आह– एष इति । हे महाप्राज्ञ येन धर्मेण प्रजानां परिपालनं शक्यं स एष अभिषेचनं धर्मः प्रथमः पूर्वं विहितः, एतेन पूर्वप्राप्तधर्मस्य परित्यागो ऽनुचित इति सूचितम् ॥ २।१०६।१९ ॥
वस्तुतस्तु अयमेव धर्मः क्षत्रियैः कर्तव्य एवेति बोधयन्नाह– क इति । प्रत्यक्षं शास्त्रतो लोकतश्च पूर्वं प्राप्तिमत्त्वेन प्रत्यक्षसुखरूपफलप्रापकत्वेन चेन्द्रियविषयीभूतं पालनरूपं धर्ममुत्सृज्य त्यक्त्वा आयतिस्थमुत्तरकालभावि अत एव अलक्षणं न लक्षयति सुखं साक्षादनुभावयति अत एव अनिश्चितमेतस्मिन् काले एतत्सुखं भविष्यतीति निश्चयरहितमत एव संशयस्थं संशयविषयीभूतं धर्मं कः क्षत्रबन्धुश्चरेत् न को ऽपीत्यर्थः । तथा च श्रुतिः “को हि तद्वेद यद्यमुष्मिँल्लोके अस्ति न वा” इति ॥ २।१०६।२० ॥
ननु शरीरक्लेशदानमुत्कृष्टो धर्म इत्यत आह– अथेति । क्लेशजं शरीरक्लेशजनितमेव धर्मं चरितुं कर्तुं यदीच्छसि तर्हि धर्मेण चतुरो वर्णान् पालयन् चाराद्यद्वारीकृत्य रक्षन् क्लेशं शरीरखेदमाप्नुहि ॥ २।१०६।२१ ॥
चतुर्णामिति । हे धर्मज्ञ चतुर्णामाश्रमाणां मध्ये गार्हस्थ्यं श्रेष्ठं त्रयाणामाश्रयीभूतत्वात्प्रधानमाश्रममाहुः तमाश्रमं त्यक्तुं कथमिच्छसि न त्यक्तव्य इत्यर्थः । “श्रेष्ठमाश्रमम्” इति पाठः ॥ २।१०६।२२ ॥
ननु त्वयैव पाल्यतामित्यत आह– श्रुतेनेति । जन्मना अवरकालप्रादुर्भूत्वा अत एव स्थानेन उचितनिम्नदेशस्थित्या च श्रुतेन विद्यया च भवतो बालः अवरो यः सो ऽहं भवति तिष्ठति सति भूमिं कथं पालयिष्यामि ॥ २।१०६।२३ ॥
तदेव भङ्ग्यन्तरेणाह– हीनेति । हीनाः त्वद्बुद्धिगुणेभ्यः अवराः बुद्धिगुणाः यस्य सः अत एव हीनस्थानेन निम्नदेशस्थित्या उपलक्षितः भवता विनाभूतो रहितश्च बालो ऽहं वर्तयितुं प्रजाः पालयितुं नोत्सहे ॥ २।१०६।२४ ॥
इदमिति । अकण्टकं विघ्नरहितम् अग्र्यं पौर्वकालिकं निखिलम् इदं पित्र्यं राज्यं स्वधर्मेण अनुशाधि पालय ॥ २।१०६।२५ ॥
इहेति । हे मन्त्रवित् सवसिष्ठाः वसिष्ठसहिताः ऋत्विजः प्रकृतयश्च सह एकीभूय इहैव त्वामभिषिञ्चन्तु ॥ २।१०६।२६ ॥
अभिषिक्त इति । अस्माभिरभिषिक्तस्त्वं तरसा वेगेन लोकान् विजित्य मरुद्भिर्देवैः सहितः वासव इन्द्र इव पालने पालनार्थम् अयोध्यां व्रज ॥ २।१०६।२७ ॥
ऋणानीति । त्रीणि ऋणानि देवऋणादीनि अपाकुर्वन् मोचयन् सन् दुर्हृदः दुष्टहृदयान् निर्दहन् सुहृदः कामैस्तदिछाविषयीभूतपदार्थैस्तर्पयन् सन् त्वमेवात्रायोध्यायां मामनुशाधि शिक्षय ॥ २।१०६।२८ ॥
तदेव भङ्ग्यन्तरेणाह– अद्येति । हे आर्य ते अभिषेचने सुहृदः मुदिताः सन्तु ये दुःप्रदाः दुःखदानमनस्काः ते भीताः सन्तः पलायन्तु ॥ २।१०६।२९ ॥
आक्रोशमिति । हे पुरुषर्षभ मम मातुश्च आक्रोशं जनापवादं प्रमृज्य तत्रभवन्तं पूज्यं पितरं किल्बिषात्पश्चात्तापाद्रक्ष ॥ २।१०६।३० ॥
शिरसेति । शिरसा नम्रीभूतमूर्ध्ना त्वा त्वामभियाचे प्रार्थये । भूतेषु महेश्वरो महादेव इव करुणां दयां कुरुष्व ॥ २।१०६।३१ ॥
अथवेति । अथवा यदि पृष्ठतः कृत्वा मत्प्रार्थनां तिरस्कृत्य इतो अस्माद्देशात् वनमेव भवान् गमिष्यति तदा भ्ावता सार्धम् अहमपि गमिष्यामि ॥ २।१०६।३२ ॥
तथेति । ताम्यता ग्लानिं प्राप्नुवता भरतेन तथा तेन प्रकारेण प्रसाद्यमानः पितुस्तद्वचने तदाज्ञाविषयीभूतवनवासे प्रतिष्ठितः कृतनिश्चयः रामः गमनाय मतिं नैव चक्रे ॥ २।१०६।३३ ॥
तदिति । अद्भुतं प्राकृतविलक्षणं स्थैर्यं सत्ये व्यवस्थितिं राघवे अवेक्ष्य दुःखितो जनः समं दुःखेन सहितं हर्षमवाप । तदेव विवृण्वन् अयोध्यां न याति इति हेतोः दुःखितः स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितश्चाभवत् जन इति शेषः ॥ २।१०६।३४ ॥
तमिति । ऋत्विगादयः विसञ्ज्ञा एव अश्रुकला मातरश्च सह एककालावच्छेदेनैव तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रशशंसुः तं रामं प्रणम्य चकारेण यथोचितं प्रत्यभिवाद्य सहभरतप्रार्थनासमानकाले ययाचिरे प्रार्थयामासुः । तत्र नैगमाः पुरवासिनः “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । यूथवल्लभा मन्त्र्यादिगणस्वामिनः प्रणम्य एव रामस्तमिति कर्मधारयो वा ॥ २।१०६।३५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षडधिकशततमः सर्गः ॥ २।१०६ ॥