भरतोक्तिं वर्णयितुमुपक्रमते– तत इति । सुहृद्गणैर्वृतानां शोचतां रामानयनोपायं चिन्तयतामित्यर्थः । पुरुषसिंहानां भरतादीनां दुःखेनैव रजनी रात्रिर्व्यत्यवर्तत ॥ २।१०५।१ ॥
रजन्यामिति । रजन्यां सुप्रभातायां सत्यां सुहृद्वृतास्ते भ्रातरो भरतादयः मन्दाकिन्यां तत्समीपे हुतं जप्तं जपं च कृत्वा राममुपागमन् रामसमीपे प्रापुः ॥ २।१०५।२ ॥
तूष्णीमिति । यतस्ते रामादयस्तूष्णीमुपासीनाः अतः कश्चित्पुरुषः किञ्चिदपि नाब्रवीत् भरतस्तु अब्रवीत् ॥ २।१०५।३ ॥
तद्वचनाकारमाह– सान्त्वितेति । येन त्वया मामिका माता सान्त्विता मम मह्यं यत् राज्यं च दत्तं तस्य तव तुभ्यं तत् राज्यं ददामि अतः अकण्टकं कण्टकरहितमिदं राज्यं भुङ्क्ष्व ॥ २।१०५।४ ॥
ननु त्वयैव कुतो न भुज्यते इत्यत आह– महतेति । जलागमे वर्षागमकाले अम्बुवेगेन भिन्नः सेतुरिव राजिशोभितमखण्डम् खण्डरहितं राज्यानां खण्डानि यस्मिन्निति वा महदिदं राज्यं त्वदन्येन मयेत्यर्थः, दुरावरं ग्रहीतुमशक्यम् ॥ २।१०५।५ ॥
तदेव दृष्टान्तान्तराभ्यामाह– गतिमिति । अश्वस्य गतिं गमनं खरो गर्दभ इव तार्क्ष्यस्य गरुडस्य गतिं पतत्त्रिणः बकादय इव तव गतिं सामर्थ्यमित्यर्थः, अनुगन्तुं प्राप्तुं मे शक्तिर्न ॥ २।१०५।६ ॥
ननु राज्यस्य मम किं प्रयोजनमित्यत आह– सुजीवमिति । यः राजा परैः जनैः उपजीव्यते सेव्यते तस्य सुजीवं शोभनां स्थितिमवेहि यो राजा तु परानुपजीवति तेन तस्य दुर्जीवं दुःखं जीवनमवेहि तस्येत्यर्थे तेनेत्यार्षमिति भट्टाः । “सुजीवन्” इति भूषणपाठः ॥ २।१०५।७ ॥
इदानीं तव वनागमनमनुचितमिति बोधयन्नाह– यथेति । यो वृक्षः पुरुषेण फलाभिकाङ्क्षिणा जनेन रोपितः आरोपितः पश्चाद्विवर्धितः अत एव ह्रस्वकेन वामनेन दुरारोहो जातः स एव रुढस्कन्धो महाद्रुमः यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् तदा स वृक्षारोपको जनः यस्य हेतोः प्ररोपितस्तस्याभावादिति शेषः, तां वृक्षविषयिणीं प्रीतिं नानुभवेत् यत्र यस्मिन् काले वृषभः सर्वश्रेष्ठः भर्ता त्वमस्मान्भृत्यान्न शाधि तदा एषा तव उपमा हे महाबाहो तत् तस्माद्धेतोस्तदर्थं राज्यरूपार्थं वेत्तुं लब्धुमर्हसि । श्लोकत्रयमेकान्वयि । “वृषभः श्रेष्ठवृषयोः” इति मेदिनी ॥ २।१०५।८१० ॥
स्वाभिलाषं प्रार्थयते– श्रेणय इति । अग्र्याः श्रेष्ठाः श्रेणयः नानाविधजनाः प्रतपन्तमादित्यमिव राज्यस्थितं त्वां पश्यन्तु ॥ २।१०५।११ ॥
तवेति । हे काकुत्स्थ तवानुयाने त्वत्कर्तृकायोध्यागमने कुञ्जराः मत्ताः सन्तो नर्दन्तु सुसमाहिताः अन्तःपुरचरा नार्यो नन्दन्तु ॥ २।१०५।१२ ॥
तस्येति । विविधाः नागराः जनाः रामं प्रत्यनुयाचतः प्रार्थयतस्तस्य भरतस्य वचः श्रुत्वा साधु समीचीनमनुमन्यन्त अन्वमन्यन्त ॥ २।१०५।१३ ॥
तमिति । एवं विलपन्तं कथयन्तं दुःखितं भरतं प्रेक्ष्य आत्मवान् अतिधैर्यवान् कृतात्मा कृतः आत्मा वनगमनाय प्रयत्नो येन स रामः भरतं समाश्वासयत् ॥ २।१०५।१४ ॥
तमिति । एवं विलपन्तं कथयन्तं दुःखितं भरतं प्रेक्ष्य आत्मवान् अतिधैर्यवान् कृतात्मा कृतः आत्मा वनगमनाय प्रयत्नो येन स रामः भरतं समाश्वासयत् ॥ २।१०५।१४ ॥
आश्वासनप्रकारमाह– नात्मन इत्यादिभिः । आत्मनः जीवस्य कामकारः स्वेच्छावर्तनं नास्ति हि यतः अयं पुरुषो जीवः अनीश्वरः स्वेच्छावर्तने असमर्थः । अत एवं इतो ऽस्माल्लोकादितरतः स्वर्गादेश्च एनं जीवं कृतान्तः कालः परिकर्षति ॥ २।१०५।१५ ॥
सर्वे इति । सर्वे निचयाः सङ्गृहीताः क्षयान्ताः क्षयेण विनाशेन अन्तः अभावो येषां ते, समुच्छ्रयाः उन्नतप्रदेशाः पतनान्ताः पतनेन अधस्खलनेन अन्तः येषां ते, संयोगाः विप्रयोगान्ताः विप्रयोगेन वियोगेन अन्तो येषां ते सन्तीति शेषः, जीवितं जीवनं मरणान्तं मरणेन प्राणवियोगेन अन्तो यस्य तत् अस्तीति शेषः । एतेन जीवप्रारब्धानुसार्येव सुखादीनि सूचितं तेन त्वत्कर्तृकवनगमने प्रजानां सुखं न भवितेति न वक्तव्यमिति व्यञ्जितम् ॥ २।१०५।१६ ॥
मुख्यं दुःखं मरणदुःखमिति तस्यैव प्रतिक्रिया विचारणीयेति बोधयन्नाह– यथेति । यथा पक्वानां फलानां तालादिजन्यानां पतनात् अन्यत्र अन्यस्मिन् काले भयं काकादिपक्षिभक्षणभीतिर्नास्ति तथा जातस्य नरस्य मरणात् मर्त्यलोकादन्यत्र भयं नास्ति । एतेन मर्त्यलोकादन्यत्र नयने यत्नः कर्तव्य इति सूचितम् ॥ २।१०५।१७ ॥
अस्मिन् लोके प्राकृतानां मृत्युरवश्यं भावीति बोधयन्नाह– यथेति । दृढं स्थूलं यस्मिंस्तदागारं गृहं यथा जीर्णं भूत्वा उपसीदति विनश्यति तथा जरामृत्युवशं गताः नरा अवसीदन्ति ॥ २।१०५।१८ ॥
मृत्युग्रस्तस्य पुनर्न निवृत्तिरित्यत्र दृष्टान्तमाह– अतीति । या रजनी रात्रिः अत्येति सा न प्रतिनिवर्तते एवं मृत्युना ग्रस्तस्य पुनर्न निवृत्तिरित्यर्थः । मृत्योरनिवार्यत्वे दृष्टान्तमाह– पूर्णमुदकैः परिपूरितमुदकार्णवमुदकसमुद्रं यमुना यात्येव एवं मृत्युरपि प्राकृतजनं प्राप्नोत्येवेत्यर्थः ॥ २।१०५।१९ ॥
कालगतिर्दुर्लक्ष्येति बोधयन्नाह– अहोरात्राणीति । गच्छन्ति गमनकर्तृ़णि अहोरात्राणि ग्रीष्मे अंशवः सूर्यकिरणाः जलमिव सर्वेषां प्राणिनामायूंषि क्षपयन्ति विनाशयन्ति ॥ २।१०५।२० ॥
प्राकृतानां दुःखानि निवर्तनीयानीति बोधयन्नाह– आत्मानमिति । स्थितस्य कदाचिदिहलोके विद्यमानस्य गतस्य कदाचिद्देवलोकं प्राप्तस्य च यस्य प्राकृतजनस्य आयुः हीयते तमात्मानं शरीरिणमनुशोच तद्दुःखनिवर्तकयत्नं कुर्वित्यर्थः, अन्यं प्राकृतविलक्षणं मां किं किमर्थमनुशोचसि ॥ २।१०५।२१ ॥
सहेति । मृत्युः सहैव व्रजति गच्छति सहैव निषीदति तिष्ठति सहैव दीर्घं विरजापर्यन्तं संलग्नमध्वानं गत्वा निवर्तते विरजापारं न गच्छतीत्यर्थः, एतेन लोकानां विरजापारप्राप्त्युपायः कर्तव्य इति व्यञ्जितम् ॥ २।१०५।२२ ॥
गात्रेष्विति । यस्य गात्रेषु शरीरेषु वलयः जराकृताकारविशेषाः प्राप्ताः अत एव शिरोरुहाः केशाः श्वेताः स जरया जीर्णः पुरुषः किं कृत्वा प्रभावयेत् मृत्युनिवर्तने समर्थो भवेत्, एतेन अस्मत्प्रयत्नमन्तरा मृत्युनिवृत्तिर्न भवितेति सूचितम् ॥ २।१०५।२३ ॥
नन्दन्तीति । आदित्ये उदिते सति केचित् नन्दन्ति केचित् अस्तमिते नन्दन्ति मनुष्याः जनाः आत्मनो जीवितक्षयमुदितमस्तमितं च नावबुध्यन्ते ॥ २।१०५।२४ ॥
हृष्यन्तीति । येषाम् ऋतूनां परिवर्तेन परिवर्तनेन प्राणिनां प्राणसङ्क्षयो भवति । तदागतं नवं नवमृतुमुखं दृष्ट्वा हृष्यन्ति । एतेन लोकानां स्वाहिताज्ञत्वं सूचितम् ॥ १०५।२५ ॥
यथेति । कञ्चन कालमासाद्य प्राप्य महार्णवे यथा काष्ठं च काष्ठं च काष्ठद्वयमित्यर्थः, समेयातामेकीभूयवर्तेयातां समेत्य तु कञ्चित्कालमासाद्य व्यपेयातां वियुज्येयाताम् । एवं भार्यादयः समेत्य संयुज्य व्यवधावन्ति वियुज्यन्ते अतः एषां भार्यादीनां विनाभवः वियोगः ध्रुवः निश्चितः । श्लोकद्वयमेकान्वयि ॥ २।१०५।२६,२७ ॥
नेति । अत्र अस्मिन् संसारे यथाभावं यथाकालप्राप्तं सुखदुःखादिकं कश्चित् प्राणी न
समतिवर्तते उल्लङ्घते तेन तस्मिन्नुल्लङ्घने प्रेतस्य प्रयतमानस्येत्यर्थः, अनुशोचतः पुरुषस्य सामर्थ्यं न विद्यते तेन ते एव शोच्या इति ध्वनितम् ॥ २।१०५।२८ ॥
यथेति । यथा गच्छन्तं सार्थं वणिक्समूहं भवतां पृष्ठतः अहमप्यागमिष्यामि इति पथि स्थितः कश्चित् ब्रूयात् कथनपूर्वकं गच्छेत् एवं यस्य व्यतिक्रमो व्यत्ययः नास्ति पूर्वैः पितृपैतामहैः गतो यो मार्गः तं मार्गमापन्नः प्राप्तः स पुरुषः कथं शोचेत् ऽसार्थो वणिक्समूहे स्यादपि सङ्घातमात्रकेऽ इति मेदिनी । श्लोकद्वयमेकान्वयि ॥ २।१०५।२९३० ॥
वयस इति । स्रोतसः नदीप्रवाहस्य वा इव अनिवर्तिनः पतमानस्य वयसः कौमारादेः सम्बन्धी आत्मा सुखे तत्साधनीभूतधर्मे नियोक्तव्यः राज्ञा उपदेष्टव्य इत्यर्थः, अत एव प्रजाः सुखभाजः स्मृताः ॥ २।१०५।३१ ॥
प्राकृतानां दुःखस्य राजनिवार्यत्वेन तद्विषयकशोकानर्हत्वमुपपाद्य प्राकृतविलक्षणानां तु दुःखास्पृष्टत्वेन तद्विषयकशोकस्याप्यनर्हत्वमुपपादयन्नाह– धर्मेति । हे तात असुशुभैः असूनि इन्द्रियाणि शुभानि दिव्यानि येषु तैः किञ्च सुशुभैः प्राकृतविलक्षणैरित्यर्थः । कृत्स्नैः सकलैः अवयवैः प्राप्तदक्षिणैः क्रतुभिश्च सहितः सतां सत्कृतः यो धर्मात्मा मम पिता स्वः सर्वलोकपरं लोकं साकेतं गतः प्राप्तः स न शोच्यः ॥ २।१०५।३२ ॥
तदेव भङ्ग्यन्तरेणाह– भृत्यानामिति । भृत्यादीनां भरणादिभ्यः आज्ञाप्य नः पिता त्रिदिवं त्रिभिर्ब्रह्मादिभिः दिवं स्तुत्यमप्रकटसाकेतं गतः शरीरेण सह प्राप्तः अतो न शोच्य इत्यनुकृष्यते ॥ २।१०५।३३ ॥
ननु सशरीरं लोकान्तरं गते ऽपि एतद्राज्यैश्वर्यत्यागहेतुकः शोकः कार्य एवेत्यत आह– स इति । जीर्णं बहुकालं भुक्तं मानुषं प्राकृतमनुष्यसम्बन्धिनं देहमैश्वर्यवृद्धिं परित्यज्य ब्रह्मलोकविहारिणीं ब्रह्मादीनां लोकेषु विहारयति प्रापयति तच्छीलां यथेच्छं सर्वलोकगमनसम्पादिकामित्यर्थः, दैवीं प्राकृतविलक्षणाम् ऋद्धिं सम्पत्तिमनुप्राप्तः ॥ २।१०५।३४ ॥
तमिति । तं प्राकृतविलक्षणसम्पत्तिविशिष्टं राजानमेवंविधः राजसदृशः कश्चित् प्राज्ञः त्वद्विधो मद्विधश्च श्रुतवान् शास्त्रज्ञः बुद्धिमत्तरः शोचितुं नार्हति ॥ २।१०५।३५ ॥
वस्तुतस्तु शोकमात्रपरित्यागः कर्तव्य इति बोधयन्नाह– एते इति । विविधाः शोकाः वर्जनीयाः विलापरुदिते च वर्जनीये, वर्जनीया इत्यस्य लिङ्वचनविपरिणामेनान्यत्राप्यन्वयः ॥ २।१०५।३६ ॥
स इति । यतः वशिना स्वतन्त्रेण पित्रा त्वं तथा नियुक्तो ऽसि अतः स्वस्थो भव शोकः मा न प्राप्नोतु इति शेषः, अत एव तां पित्राज्ञप्तां पुरीमयोध्यां यात्वा प्राप्य स त्वमावस ॥ २।१०५।३७ ॥
यत्रेति । यत्र यस्मिन् वनवासरूपे कर्मणि पुण्यकर्मणा पित्रा नियुक्तः तत्रैव स्थितो ऽहं पितुरनुशासनं करिष्यामि ॥ २।१०५।३८ ॥
नेति । त्वया मया ऽपि तस्य शासनं त्यक्तुं न शक्यं, तत्र हेतुः सदा मान्यः पूजनीयः ॥ २।१०५।३९ ॥
तदिति । धर्मचारिणां सम्मतं तत्पितुर्वचः वनवासेन कर्मणा पालयिष्यामि ॥ २।१०५।४० ॥
तत्र हेतुमाह– धार्मिकेणेति । परलोकं जिगीषता धार्मिकेण पुरुषेण्ा गुरुवर्तिना पित्राद्याज्ञानुसरणेन भवितव्यम् ॥ २।१०५।४१ ॥
आत्मानमिति । नः पितुः दशरथस्य शुभं वृत्तं सत्यप्रतिज्ञत्वमित्यर्थः, निशाम्य संस्मृत्य आत्मानं स्वमनः स्वभावे पालकत्वरूपराजधर्मे अनुतिष्ठ संस्थापय ॥ २।१०५।४२ ॥
इतीति । महात्मा रामः पितुः निदेशप्रतिपालनार्थमेवमर्थवद्वचनं यवीयसं यवीयांसं कनिष्ठं
भ्रातरं मुहूर्तादुक्त्वा विरराम ॥ २।१०५।४३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चाधिकशततमः सर्गः ॥ २।१०५ ॥