राममातृ़णां वृत्तान्तं वर्णयन्नाह– वशिष्ठ इत्यादिभिः । रामदर्शनतर्षितः वसिष्ठः दशरथस्य दारान् पुरतः अग्रे कृत्वा तं रामाधिष्ठितं देशमभिचक्राम ययौ ॥ २।१०३।१ ॥
राजपत्न्य इति । तत्र तस्मिन् समये गच्छन्त्यो राजपत्न्यः मन्दाकिनीं प्रति मन्दाकिनीसमीपे रामलक्ष्मणसेवितं तीर्थं स्नानादियोग्यं घट्टं ददृशुः ॥ २।१०३।२ ॥
कौसल्येति । बाष्पपूर्णेन परिशुष्यता मुखेन उपलक्षिता कौशल्या सुमित्रामन्याश्च राजयोषितः अब्रवीत् ॥ २।१०३।३ ॥
तद्वचनाकारमाह– इदमिति । ये रामादयो निर्विषयीकृताः अयोध्यादेशरहितत्वं प्रापिताः अनाथानामक्लिष्टकर्मणां सरलस्वभावानां तेषाम् ते विस्तृते वने प्राक्कालनं प्राक् पूर्वं कालनं प्राप्तिर्यस्मिन् तत्पौर्वकालिकप्राप्त्याश्रयीभूतं क्लिष्टं दुर्गममिदं तीर्थं राजते इति शेषः । “प्राक्केवलम्” इति पाठ आधुनिककल्पितः । नापि तत्रार्थसामञ्जस्यमिति कतकः । तत्रापि पाठे प्राक्परिगृहीतमिति शेषः, प्राक्परिगृहीतं तीर्थं जलानयनादिव्यवहारोपयोगी मार्गः । इदमेवेति केवलं निश्चितमित्यर्थो वक्तुं शक्यः । “केवलं निश्चिते क्लीबं वाच्यवच्चैककृत्स्नयोः” इति भट्टाः ॥ २।१०३।४ ॥
इत इति । हे सुमित्रे इतः अस्मादेव मार्गादतन्द्रितः तन्द्रारहितः सौमित्रिः मम पुत्रस्य कारणाद्धेतोः स्वयं जलं हरति ॥ २।१०३।५ ॥
जघन्यमिति । जघन्यं नीचोचितमपि जलाहरणादि कर्म कृतवान् ते पुत्रः नैव गर्हितः कैश्चिन्निन्दितः, तत्र हेतुः भ्रातुः अर्थरहितं यत् तदेव सर्वं गुणैः गुणवद्भिः गर्हितं निन्दितं भवति ॥ २।१०३।६ ॥
अद्येति । क्लेशानामतथोचितः क्लेशप्राप्त्ययोग्यः अयं ते पुत्रः अद्य इदानीं सज्जं प्रसक्तं नीचानर्थसमाचारं नीचं नीचयोग्यमनर्थस्य प्रतिष्ठारूपार्थविरोधिनः स्वसेवायाः स्वेनैव करणस्य समाचारः प्राप्तिर्यस्मिँस्तत् कर्म प्रमुञ्चतु, एतेन रामो ऽयोध्यां गमिष्यतीति सूचितम् । “नीचानर्थसमाचारान्” इति भूषणपाठः ॥ २।१०३।७ ॥
दक्षिणेति । महीतले पृथिव्यां दक्षिणाग्रेषु दर्भेषु कुशेषु न्यस्तं संस्थापितमिङ्गुदिपिण्याकमायतलोचना कौसल्या ददर्श ॥ २।१०३।८ ॥
तमिति । आर्तेन रामेण पितुः पित्रे भूमौ न्यस्तं विधिना संस्थापितं तं पिण्याकं वीक्ष्य सा कौसल्या देवी सर्वाः दशरथस्त्रियः उवाच ॥ २।१०३।९ ॥
तद्वचनाकारमाह– इदमिति । राघवस्य रघुकुलप्रसूतस्य इक्ष्वाकुनाथस्य महात्मनः पितुः राघवेण रामेण यथाविधि दत्तमेतत्पिण्याकं पश्य ॥ २।१०३।१० ॥
तस्येति । भुक्तभोगस्य देवसमानस्य तस्य पार्थिवस्य औपयिकं युक्तं भोजनमेतत् पिण्याकं न मन्ये ॥ २।१०३।११ ॥
तदेव भङ्ग्यन्तरेणाह– चतुरिति । चतुरन्तां चतुःसागरपर्यन्तां महीं भुक्त्वा संपाल्य महेन्द्रसदृशो वसुधाधिपो भुवि स्थितमिङ्गुदिपिण्याकं कथं भुङ्क्ते ॥ २।१०३।१२ ॥
अत इति । ऋद्धिमान् सकलसम्पत्तिविशिष्टो रामः यत्र यस्मिन् समये इङ्गुदीक्षोदमिङ्गुदीपिष्टं पितुर्दद्यात् तस्मिन् समये अत एतद्दानदर्शनजनितदुःखात् दुःखतरमधिकं दुःखं मे किञ्चिन्न प्रतिभाति ॥ २।१०३।१३ ॥
रामेणेति । रामेण दत्तं पितुः पिण्याकं समीक्ष्य जातेन दुःखेन मे हृदयं सहस्रधा कथं न स्फोटति स्फुटति ॥ २।१०३।१४ ॥
श्रुतिरिति । “यदन्नः यद्भक्ष्यकः पुरुषो भवति तदन्नास्तद्भक्ष्यकास्तस्य देवताः भवन्ति” इति
लौकिकी लोकप्रसिद्धा श्रुतिस्तु मे सत्या प्रतिभाति ॥ २।१०३।१५ ॥
एवमिति । एवमार्तां दुःखितां तां कौशल्यां सपत्न्यः आश्वास्य जग्मुः आश्रमे पर्णशालायां स्वर्गच्युतममरं देवविशेषमिव रामं ददृशुश्च ॥ २।१०३।१६ ॥
तमिति । भोगैः सम्परित्यक्तं तं राममार्ता मातरः सम्प्रेक्ष्य सस्वरं यथा स्यात्तथा अश्रूणि मुमुचुः ॥ २।१०३।१७ ॥
तासामिति । सत्यसङ्गरः सत्यप्रतिज्ञो रामस्तासां स्वसमीपे प्राप्तानां मातृ़णां चरणाम्बुजान् चरणकमलानि जग्राह ॥ २।१०३।१८ ॥
ता इति । सुखः स्पर्शो येषां तैः मृदूनि अङ्गुलितलानि येषां तैः शुभैः पाणिभिः आयतलोचनास्ता मातरः रामस्य पृष्ठात्पृष्ठप्रदेशाद्रजः धूलीं प्रममार्जुः ॥ २।१०३।१९ ॥
सौमित्रिरिति । मातृ़ः सम्प्रेक्ष्य दुःखितः सौमित्रिः रामादनन्तरमासक्तमासक्तिविशिष्टं यथा भवति तथा शनैः अभ्यवादयत् ॥ २।१०३।२० ॥
यथेति । यथा रामे वृत्तिं पृष्ठात् राजोमार्जनादि ववृतिरे चक्रुस्तथा दशरथाज्जाते अस्मिन् लक्ष्मणे ववृतिरे ॥ २।१०३।२१ ॥
सीतेति । दुःखिता अश्रुपूर्णाक्षी सीता ऽपि तासां श्वश्रूणां चरणान् उपसङ्गृह्य अग्रतः स्थिता सम्बभूव ॥ २।१०३।२२ ॥
तामिति । वनवासे कृतं प्रयत्नो यस्यास्तामत एव दीनां क्षीणात्वेन प्रतीयमानां दुःखार्तां तां सीतां माता दुहितरमिव परिष्वज्य कौशल्या वाक्यमब्रवीत् ॥ २।१०३।२३ ॥
तद्वचनाकारमाह– विदेहेति । विजने वने रामपत्नी दुःखं कथ्ां सम्प्राप्ता अत्र कारणं न पश्याम इत्यर्थः ॥ २।१०३।२४ ॥
पद्ममिति । आतपेन घर्मेण सन्तप्तं पद्ममिव परिक्लिष्टं मर्दितमुत्पलं रक्तकमलमिव रजसा ध्वस्तं पराभूतं व्याप्तमित्यर्थः । काञ्चनमिव अम्बुदैः मेघैः क्लिष्टं चन्द्रमिव ते मुखं प्रेक्ष्य स्थितां मां व्यसनारणिसम्भवः व्यसनेन सङ्घर्षणेन विशिष्टा या ऽरणिस्तस्मात्सम्भवो यस्य स वह्निः आश्रयमरणिमिव मनसि विद्यमानः शोको दहति । श्लोकद्वयमेकान्वयि ॥ २।१०३।२५,२६ ॥
ब्रुवत्यामिति । जनन्यामेवं ब्रुवत्यां सत्यां भरताग्रजो राघवो रामः आसाद्य वसिष्ठसमीपं प्राप्य वसिष्ठस्य पादौ जग्राह ॥ २।१०३।२७ ॥
तदेव भङ्ग्यन्तरेणाह– पुरोहितस्येति । बृहस्पतेः पादौ अमराधिप इन्द्र इव अग्निसमस्य पुरोहितस्य वशिष्ठस्य पादौ प्रगृह्य राघवो रामः तेन वशिष्ठेन सहैवोपविवेश ॥ २।१०३।२८ ॥
तत इति । ततः रामोपवेशनानन्तरं धर्मवान् स भरतः हितादिभिः सह जघन्यं निम्नदेशमवलोक्य तदाग्रजमग्रजासनमुपोपविष्टः ॥ २।१०३।२९ ॥
उपोपविष्ट इति । उपोपविष्टः रामासनसमीपे स्थितः अतिवीर्यवान् भरतः राघवं रामं तपस्विवेषेण वीक्ष्य प्रजापतिं प्रति महेन्द्र इव कृताञ्जलिर्बभूवेति शेषः ॥ २।१०३।३० ॥
किमिति । राघवं प्रणम्य सत्कृत्य विद्यमानो भरतः अद्य किं वक्ष्यति इतीव एवंरूपं कौतूहलं हर्षविशेषः तस्य आर्यस्य जनस्य हृदि तत्त्वतो बभूव ॥ २।१०३।३१ ॥
स इति । राघवो रामः सत्यधृतिर्लक्ष्मणश्च भरतश्च सुहृद्भिर्विरेजिरे, तत्र दृष्टान्तः अध्वरे यागे सदस्यैः सहितास्त्रयो ऽग्नय इव ॥ २।१०३।३२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्र्युत्तरशततमः सर्गः ॥ २।१०३ ॥