भरतवचनश्रवणानन्तरकालिकं रामवृत्तान्तमाह– तामित्यादिभिः । मरणसंहितामन्यागम्यलोकान्तरगमनकर्तृत्वेन मरणसदृशगमनसंयुक्तामत एव करुणां शोकप्रापिकां भरतेनोक्तां तां वाचं श्रुत्वा राघवो रामः गतचेतनः तिरोहितचैतन्यो बभूव ॥ २।१०२।१ ॥
तमिति । आहवे सङ्ग्रामे दानवारिणा इन्द्रेणोत्सृष्टं वज्रमिव भरतेनोक्तममनोज्ञं वाग्वज्रं श्रुत्वेति शेषः । बाहू प्रगृह्य शिरसि कृत्वा परशुना कृत्तः विदारितः पुष्पिताङ्गो द्रुमो यथा तथा भुवि पपात । श्लोकद्वयमेकान्वयि ॥ २।१०२।२,३ ॥
तथेति । कूलघातेन कूलविदारणेन परिश्रान्तमत एव सुषुप्तं कुञ्जरमितं महेष्वासं शोककर्शितमत एव जगत्यां पतितं रामं वैदेह्या सह रुदन्तो भ्रातरः सलिलेन मोहापमार्जकजलेन सिषिचुः । श्लोकद्वयमेकान्वयि ॥ २।१०२।४,५ ॥
स इति । स जलेन सिक्तो रामः पुनः सञ्ज्ञां लब्ध्वा अस्रमश्रु उत्सृजन् सन् बहु अधिकं कृपणं भाषितुमुपाक्रामत ॥ २।१०२।६ ॥
तदेव भङ्ग्यन्तरेणाह– स इति । पितरं स्वर्गतमप्रकटसाकेतं प्राप्तं श्रुत्वा भरतमुवाच ॥ २।१०२।७ ॥
तद्वचनाकारमाह– किमिति । दिष्टामतिभाग्यलभ्यां गतिं ताते गते सति अयोध्यायां किं करिष्यामि राजवराद्धीनां तामयोध्यां कः पालयिष्यति ॥ २।१०२।८ ॥
किमिति । दुर्जातेन दुःखेन पितृकर्तृकातियागादिना जातं जनिर्यस्य तेन मया महात्मनस्तस्य पितुः किं कार्यम् । यः पिता मम शोकेन अमृतः लोकान्तरगमनकर्तृत्वेन मृतसदृशः सः मया न संस्कृतः यात्राकाले मत्कर्तृकसंस्कारं न प्राप्तः ॥ २।१०२।९ ॥
अहो इति । शत्रुघ्नेन सहितेन येन त्वया सर्वेषु प्रेतकृत्येषु प्रेतेषु लोकान्तरं गतेषु यानि कृत्यानि पुत्रैः कर्तव्यानि तेषु राजा सत्कृतः स त्वं धन्यो ऽसि ॥ २।१०२।१० ॥
निरिति । नरेन्द्रेण विनाकृतामत एव निष्प्रधानां प्रधानरहितामत एव अनेकाग्रां स्वास्थ्यरहितामयोध्यां गन्तुं निवृत्तवनवासो ऽपि नोत्सहे ॥ २।१०२।११ ॥
समाप्तेति । ताते लोकान्तरं गते सति समाप्तवनवासं मामयोध्यायां कः अनुशासिष्यति ॥ २।१०२।१२ ॥
पुरेति । सुवृत्तं शोभनवृत्तिमन्तं मां प्रेक्ष्य सान्त्वयन् शान्तिं शिक्षयन् सन् कर्णसुखानि यानि वाक्यानि पिता आह तानि पुनः कुतः कस्मात् श्रोष्यामि ॥ १०२।१३ ॥
एवमिति । भरत एवमुक्त्वा भार्यामभ्येत्य अभिमुखो भूत्वा शोकसन्तप्तो राघवो रामः उवाच ॥ २।१०२।१४ ॥
तद्वचनाकारमाह– सीते इति । हे सीते ते श्वशुरः अमृतो लोकान्तरगमनकर्तृत्वेन मृतसदृशः हे लक्ष्मण त्वं पितृहीनो ऽसि । तज्ज्ञापकहेतुमाह पृथिवीपतेः स्वर्गतिं भरतः दुःखं यथा भवति तथा आचष्टे कथयति ॥ २।१०२।१५ ॥
तत इति । काकुत्स्थे रामे तथा ब्रुवति सति कुमाराणामेषां लक्ष्मणादीनां नेत्रेषु बहुगुणमत्यधिकं बाष्पमश्रु अजायत ॥ २।१०२।१६ ॥
तत इति । ततः रामोक्तिश्रवणानन्तरं सर्वे भ्रातरः भृशमत्यन्तं राघवं राममाश्वास्य पितुः उदकमुदकक्रिया क्रियतामित्यब्रुवन् ॥ २।१०२।१७ ॥
सेति । नृपं श्वशुरं स्वर्गलोकगतं स्वः स्वर्गे गीयते स्तूयते इति स्वर्गः स एव लोको प्रकटसाकेतस्तं गतं प्राप्तं श्रुत्वा अश्रुपूर्णाभ्यां नेत्राभ्यां प्रियं पतिम् ईक्षितुं द्रष्टुं न शशाक ॥
२।१०२।१८ ॥
सान्त्वयित्वेति । रुदतीं तां जनकात्मजां सान्त्वयित्वा दुःखितो रामः दुःखितं वचः लक्ष्मणमुवाच । दुःखितमिति लक्ष्मणविशेषणं वा ॥ २।१०२।१९ ॥
तद्वचनाकारमाह– आनयेति । इङ्गुदिपिण्याकं तापसोपभोग्येङ्गुदिफलसारांशमुत्तरं चीरं च आनय महात्मनस्तातस्य जलक्रियार्थं गमिष्यामि ॥ २।१०२।२० ॥
गमनप्रकारं बोधयन्नाह– सीतेति । पुरस्तात् अग्रे सीता व्रजतु एनां सीतामभितः समीपतः पश्चादित्यर्थः, त्वं व्रज पश्चादहं गमिष्यामि हि यतः एषा गतिर्गमनं सुदारुणा शोकहेतुत्वेन क्रूरा । तथा च सूत्रम् “सर्वे कनिष्ठप्रथमानुपूर्वा इतरे तु स्त्रियो ऽग्रतः” इति ॥ २।१०२।२१ ॥
तत इति । ततः रामोक्तिश्रवणानन्तरं तेषां इक्ष्वाकूणां नित्यानुगः नित्यानुचरः विदितात्मा विदितः प्रख्यातः आत्मा स्वरूपं यस्य सः मृदुः सरलस्वभावः दान्तः नियमितोभयकरणः कान्तस्तेजस्वी रामे दृढभक्तिमाँश्च सुमन्त्रः नृपसुतैर्भरतादिभिः सह राघवं रामम् आश्वास्य आलम्ब्य रामबाहुं गृहीत्वेत्यर्थः, शिवां नित्यकल्याणस्वरूपां मन्दाकिनीमुद्दिश्य अवतारयत् अवातारयत् । श्लोकद्वयमेकान्वयि ॥ २।१०२।२२,२३ ॥
ते इति । सुतीर्थां शोभनस्नानमार्गविशिष्टां शीघ्रस्रोतसं शीघ्रप्रवाहवतीं मन्दाकिनीं नदीं यशस्विनस्ते सीताप्रभृतयः कृछ्रादुपगम्य प्राप्य तत्र अकर्दमं कर्दमरहितं शिवं कल्याणप्रदं तीर्थम् ऋषिभिः सेवितम् उदकमासाद्य गृहीत्वेत्यर्थः, तत हे तात एतज्जलं भवतु त्वत्सन्निधौ तिष्ठतु इतिवचनेन सिषिचुः । ततेति नामगोत्रयोरप्युपलक्षणमिति न न्यूनता । श्लोकद्वयमेकान्वयि ॥ २।१०२।२४,२५ ॥
प्रगृह्येति । महीपालो रामो ऽब्रवीत् ॥ २।१०२।२६ ॥
तदाकारमाह– एतदिति । अक्षयं ध्वंसाप्रतियोगि एतत् मद्दत्तं ते तव उपतिष्ठतु ॥ २।१०२।२७ ॥
तत इति । ततः जलप्रदानानन्तरं भ्रातृभिः सह राघवो रामः मन्दाकिनीतीरं प्रत्युत्तीर्य समागत्य पितुर्निर्वापं पिण्डदानं चकार । न च पितृमरणश्रवणे दशाहाशौचस्य स्मृतिषु नियमितत्त्वात् श्रवणदिने एव पिण्डप्रदानादिकमनुचितमिति वाच्यम्, अशौचस्य शरीरदाहविषयत्वेनादोषात् । एवमधिकारिनिरूपणमपि विगतदेहविषयकमिति न भरतकर्तृकपिण्डदानस्यानुपपत्तिः । राज्ञो यथा सशरीरगमनं तथा ऽवोचाम । “मन्दाकिनीतीरात्” इति भूषणपाठः । तत्र तीरात् जलप्रदानदेशादित्यर्थः ॥ २।१०२।२८ ॥
तत्प्रकारमाह– ऐङ्गुदमिति । बदरैः बदरफलपिष्टैः मिश्रम् ऐङ्गुदम् इङ्गुदीफलसम्बन्धि पिण्याकं पिष्टं दर्भसँस्तरे कुशास्तरणे न्यस्य रामः अब्रवीत् ॥ २।१०२।२९ ॥
तद्वचनाकारमाह– इदमिति । हे महाराज यतो वयं यदशनाः यत् पिण्याकमेव अशनं येषामतः तत् इदं पिण्याकं भुङ्क्ष्व । ननु महाराजाय मह्यं कथमिदं ददासीत्यत आह– पुरुषः यदन्नः यद्भक्ष्यको भवति तस्य देवता अपि तदन्नाः भवन्ति । अक्षराधिक्यं छन्दसां वैलक्षण्यद्योतनाय ॥ २।१०२।३० ॥
तत इति । ततः पिण्डदानानन्तरं तेन आगमनसाधकेनैव मार्गेण सरित्तटात् प्रत्युत्तीर्य रम्यसानुं मनोहरशिखरवन्तं महीधरं चित्रकूटमारुरोह ॥ २।१०२।३१ ॥
तत इति । ततः आरोहणानन्तरं पर्णकुटीद्वारमासाद्य प्राप्य पाणिभ्यामुभौ भरतलक्ष्मणौ परिजग्राह ग्रहणपूर्वकं रोदनं चकार शत्रुघ्नस्य भरते ऽन्तर्भावान्न पृथयुक्तिः ॥ २।१०२।३२ ॥
तेषामिति । नर्दतां सिंहानामिव वैदेह्या सह रुदतां भ्रातृ़णां प्रतिशब्दः प्रतिध्वनिः गिरौ अभवत् ॥ २।१०२।३३ ॥
महाबलानामिति । पितुः उदकं कुर्वतां रुदतां महाबलानां तुमुलं शब्दं विज्ञाय त्रस्ताः भरतसैनिकाः भरतः रामेण ध्रुवं सङ्गतः संमिलितः मृतं मृतसदृशं पितरं शोचतां तेषां रामादीनामेव महान् शब्द इत्यब्रुवन् । श्लोकद्वयमेकान्वयि ॥ २।१०२।३४,३५ ॥
अथेति । अथ प्रतिध्वनिश्रवणानन्तरमेकमनसः समानहृदयाः सर्वे सैनिकाः वाहान् परित्यज्य स्वनं प्रातध्वनिमभिमुखाः सन्तः यथास्थानं यथोचितं प्रधाविताः सन्तः जग्मुः ॥ २।१०२।३६ ॥
हयैरिति । अन्ये सुकुमाराः हयादिभिर्ययुः अन्ये पद्भिरेव ययुः ॥ २।१०२।३७ ॥
तदेव भङ्ग्यन्तरेणाह– अचिरेति । अचिरप्रोषितमल्पकालकप्रवासविशिष्टं रामं चिरविप्रोषितमिव द्रष्टुकामः सर्वो जनः जगाम ॥ २।१०२।३८ ॥
सयानगमनकर्तृ़णां वृत्तमाह– भ्रातृ़णामिति । भ्रातृ़णां रामादीनां समागमं परस्परं सम्मेलनं द्रष्टुकामास्ते बहवो भरतसैनिकाः खुरनेमिसमाकुलैः खुरसमाकुलाः अश्वादयः नेमिसमाकुलाः रथादयः तैर्विविधैर्यानैः त्वरिताः सन्तो ययुः ॥ २।१०२।३९ ॥
सेति । बहुभिर्यानैरुपलक्षिता अत एव खुरनेमिसमाहता सा भरतसेनाधिष्ठिता भूमिः अत्र समागमे द्यौरिव तुमुलं शब्दं मुमोच चकार ॥ २।१०२।४० ॥
तेनेति । तेन तुमुलशब्देन वित्रासिताः करेणुभिः हस्तिनीभिः परिवारिता युक्ताः नागाः गजाः गन्धेन स्वच्युतमदजनितामोदेन आवासयन्तः सन्तः ततस्तस्माद्वनादन्यद्वनं जग्मुः ॥ २।१०२।४१ ॥
वराहेति । वराहादयः वित्रेसुः तत्र स्रृमरगोकर्णौ मृगविशेषौ ॥ २।१०२।४२ ॥
रथाह्वेति । रथाह्वः चक्रवाकः, नत्यूहः जलः कुक्कुटः, प्लवाः स्थूलबकविशेषाः ॥ २।१०२।४३ ॥
तेनेति । तेन शब्देन वित्रस्तैस्त्रासविशिष्टैः पक्षिभिः आकाशं वृतं मनुष्यैर्भूमिरावृता इति हेतोः उभयं प्रबभौ ॥ २।१०२।४४ ॥
तत इति । अकल्मषं कल्मषनिवर्तकं स्थण्डिले आसीनं रामं जनः ददर्श ॥ २।१०२।४५ ॥
विगर्हमाण इति । मन्थरासहितां कैकेयीं विगर्हमाणः जनः राममभिगम्य रामसम्मुखं प्राप्य बाष्पपूर्णमुखो ऽभवत् । अत्र विगर्हणं शिखी नष्ट इत्यादाविव विशेषणांशे पर्यवसन्नमत एवोत्तरत्र रामालिङ्गनं सङ्गच्छते ॥ २।१०२।४६ ॥
तानिति । तानागतान् सुदुःखितान् नरान् समीक्ष्य धर्मज्ञो रामः पर्यष्वजत ॥ २।१०२।४७ ॥
स इति । स रामः तत्र तस्मिन् समये कांश्चिन्नरान् परिषस्वजे केचिन्नरास्तु तं राममभ्यवादयन् तदा तस्मिन् समये नृपात्मजो रामः सर्वान् समासाद्य प्राप्य यथार्हं यथोचितसत्कारं चकार ॥ २।१०२।४८ ॥
तत इति । तेषां समागतानां रुदतां महात्मनामयोध्यावासिनां स्वनः भ्वादिकमनुविनादयन् सन् मृदङ्गघोषप्रतिमः मृदङ्गघोषसदृशः विशुश्रुवे श्रवणविषयीभूतो बभूव ॥ २।१०२। ४९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्व्यधिकशततमः सर्गः ॥ २।१०२ ॥