रामस्यैव वचनान्तराण्याह– तमित्यादिभिः । तं स्वसमीपे प्राप्तं भरतं गुरुवत्सलं गुरुविषयकातिप्रीतिमन्तं समाज्ञाय स्वस्थतया स्थितं ज्ञात्वा भ्रात्रा लक्ष्मणेन सह रामः प्रष्टुं समुपचक्रमे ॥ २।१०१।१ ॥
प्रश्नाकारमाह– किमिति । यस्मात्कारणाच्चीरजटाजिनी चीरजटाजिनविशिष्टस्त्वमिमं देशमागतः प्राप्तः तस्माद्धेतोस्त्वया प्रव्याहृतं कथितमेतत्किम् किमपि कारणमहं श्रोतुमिच्छेयम् ॥ २।१०१।२ ॥
यदिति । कृष्णाजिनजटाधरः सन् राज्यं हित्वा इमं देशं यन्निमित्तं यदर्थं त्वं प्रविष्टस्तत्सर्वं वक्तुमर्हसि ॥ २।१०१।३ ॥
इतीति । महात्मना काकुत्स्थेन रामेण बलवत्प्रगृह्य भरतमालिङ्ग्य भूयः अत्यन्तमुक्तः कैकेयीपुत्रो भरतः प्राञ्जलिः सन् इति इदं वाक्यमब्रवीत् ॥ २।१०१।४ ॥
तद्वचनाकारमाह– आर्येति । हे आर्य स्त्रिया मत्पत्न्या प्रार्थितयेति शेषः, मम मात्रा कैकेय्या नियुक्तः प्रार्थितस्तातः सुदुष्करं कर्तुमशक्यं कर्म कृत्वा त्वां प्रव्राज्येत्यर्थः, पुत्रशोकाभिपीडितः सन् परित्यज्य प्रकटायोध्यामिति शेषः, स्वर्गमप्रकटसाकेतं गतः अतः सा कैकेयी आत्मयशोहरं त्वत्प्रव्राजनकर्त्रीत्वेन इयं रामस्य अतिप्रियेति स्वयशोविध्वंसकमिदं महत्पापं चकार । स्त्रिया प्रार्थितयेत्यनेन मन्थरामाण्डव्योरतिप्रीतिः सूचिता । तेन माण्डवीकर्तृकमेवेदं सर्वमिति सूचितम् श्लोकद्वयमेकान्वयि ॥ २।१०१।५,६ ॥
सेति । सा कृतरामप्रव्राजना कैकेयी राज्यफलं राज्ये फलं स्वयशोनिष्पत्तिमप्राप्य विधवा पतिसांनिध्यरहिता अत एव शोककर्षिता सती महाघोरे नरके नरोच्चारितनिन्दाशब्दे पतिष्यति अपतत् लृडुपात्तभविष्यत्वस्याविवक्षा ॥ २।१०१।७ ॥
तस्येति । दासभूतस्य मम प्रसादं कर्तुमर्हसि । तदुपायमाह– अद्यैव मघवानिव अभिषिञ्चस्व अभिषेचय आत्मानमिति शेषः ॥ २।१०१।८ ॥
इमा इति । विधवाः स्वामिरहिताः याः प्रकृतयः प्रजाः मातरश्च त्वत्सकाशं त्वत्समीपं प्राप्तास्तासां प्रसादं कर्तुं त्वमर्हसि ॥ २।१०१।९ ॥
तथेति । यतस्तथा अभिषेचनयोग्यया आनुपूर्व्या आनुपूर्वीघटकप्रथमात्वेन त्वं युक्तः अतः आत्मनि युक्तं धर्मेण राज्यं आप्नुहि अत एव सुहृदः सकामान् कुरु ॥ २।१०१।१० ॥
भवत्विति । समग्रा सम्पूर्णा भूमिः अविधवा धवराहित्यरहिता पतिना त्वया भवतु, तत्र दृष्टान्तः शशिना रजनी रात्रिरिव ॥ २।१०१।११ ॥
एभिरिति । मया शिरसा याचितस्त्वं भ्रातृत्वादिविशिष्टस्य मम प्रसादं कर्तुमर्हसि ॥ २।१०१।१२ ॥
तदिति । शाश्वतं कुलपरम्पराप्राप्तं पूजितं सत्कृतं पित्र्यं पितृसम्बन्धि सर्वं सचिवमण्डलमतिक्रमितुमुल्लङ्घितुं नार्हसि ॥ २।१०१।१३ ॥
एवमिति । महाबाहुः भरतः एवमुक्त्वा रामस्य पादौ शिरसा पुनर्जग्राह ॥ २।१०१।१४ ॥
तमिति । मत्तं मातङ्गं गजमिव निश्वसन्तं भरतं परिष्वज्य इदमब्रवीत् ॥ २।१०१।१५ ॥
तद्वचनाकारमाह– कुलीन इति । कुलीनः सत्कुले प्रादुर्भूतः अत एव सत्त्वसम्पन्नः शुद्धसत्त्वगुणयुक्तः अत एव तेजस्वी चरितानि व्रतानि येन सः त्वद्विधः त्वत्सदृशो जनः राज्यहेतोः राज्यार्थं पापं कथमाचरेत् कथमपि नेत्यर्थः, यदि त्वत्सदृशो नाचरेत्तर्हि त्वं नाचरेः इति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । एतेन त्वयि राज्याकाङ्क्षा नास्तीत्यस्माभिर्ज्ञातमिति
सूचितम् ॥ २।१०१।१६ ॥
नेति । हे अरिसूदन सूक्ष्ममपि दोषं त्वयि न पश्यामि अतो बाल्यान्मात्रभिप्रायाविज्ञानाद्धेतोः जननीं विगर्हितुं निन्दितुं नार्हसि । एतेन तद्विगर्हणे त्वयि दोषः स्यादिति सूचितम् ॥ २।१०१।१७ ॥
तद्गर्हाभावे हेतुं वदन्नाह– कामकार इति । हे अनघ उपपन्नेषु स्वसम्मतेषु दारेषु पुत्रेषु च गुरूणां कामकारः स्वेच्छया वर्तनं विधीयते शास्त्रेणेति, शेषः, एतेन पित्रादयः कथञ्चिदपि न दूष्या इति ध्वनितम् ॥ २।१०१।१८ ॥
वयमिति । यथा येन प्रकारेण लोके भार्यादयः साधुभिः धर्मज्ञैः सङ्ख्याताः गुर्वधीनत्वेन कथितास्तथा अस्य पितुः वयमपि सङ्ख्याता इति ज्ञातुमर्हसि ॥ २।१०१।१९ ॥
वन इति । चीरवसनादिविशिष्टं मां वने राज्ये वा आवासयितुं महाराज एव ईश्वरः समर्थः ॥ २।१०१।२० ॥
तथैव जनन्यपि मन्तव्येति बोधयन्नाह– यावदिति । यावत् गौरवं गुरुत्वं पितरि तावत् जनन्यामपि वर्तते इति शेषः ॥ २।१०१।२१ ॥
एताभ्यामिति । एताभ्यां मातापितृभ्यां वनं गच्छेति उक्तो ऽहमन्यत्तद्विरुद्धं कथं समाचरे ॥ २।१०१।२२ ॥
त्वयेति । त्वया भरतेन अयोध्यायां राज्यं प्राप्तव्यं मया रामेण अरण्ये वस्तव्यमेवं विभागं विभागबोधकं वाक्यमुक्त्वा केकयीसन्निधौ प्रतिज्ञायेत्यर्थः, लोकसंनिधौ व्यादिश्य मामाज्ञाप्य च महातेजाः महाराजो दशरथः दिवं ब्रह्मादिस्तुत्यमप्रकटसाकेतं गतः । श्लोकद्वयमेकान्वयि ॥ २।१०१।२३,२४ ॥
स इति । लोकगुरुः स प्रसिद्धो राजा तव प्रमाणपतः पित्रा दत्तं भागं यथा यथावत् उपभोक्तमर्हसि ॥ २।१०१।२५ ॥
चतुर्दशेति । चतुर्दश समाः वर्षाणि अरण्यमाश्रितो ऽत एव यत् तद्विषयकयत्नवानहं पित्रा दत्तं भागमुपभोक्ष्ये ॥ २।१०१।२६ ॥
यदिति । नरलोकसत्कृतः महात्मा पिता यन्मामब्रवीत्तदेवाहं हितं मन्ये अव्ययं विनाशरहितं सर्वलोकेश्वरभावं सर्वलोकेश्वरत्वं तु न हितं मन्ये ॥ २।१०१।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुरधिकशततमः सर्गः ॥ २।१०४ ॥
रामवचनश्रवणानन्तरकालिकं भरतवृत्तान्तमाह– रामस्येति । भरतः प्रत्युवाच तत्प्रतिवचनमेवाह धर्मात्स्वकुलोचितरीतेः विहीनस्य मे राजधर्मः रामधर्मोपदेशः किं करिष्यति धर्माचरणरहितेषूपदेशो निरर्थक इति तात्पर्यम् ॥ २।१०१।१ ॥
धर्मच्युतिमेवोपपादयन्नाह– शाश्वत इति । ज्येष्ठपुत्रे स्थिते सति कनीयान् कनिष्ठः नृपो न भवेत् इति शाश्वतः सार्वकालिकः अयं धर्मः अस्मासु अस्मत्पूर्वजेषु सदा नित्यं स्थितः ॥ २।१०१।२ ॥
ननु कथं तस्य धर्मस्य स्थितिरित्यत आह– स इति । नो ऽस्माकमस्य कुलस्य कुलधर्मस्य भवाय स्थित्यै मया सह अयोध्यां गच्छ आत्मानं च अभिषेचय ॥ २।१०१।३ ॥
ननु महाराजस्य विद्यमानत्वे कथमेवं प्रार्थनेत्यत आह– राजानमिति । यं मानुषं राजानं प्राहुः यस्य धर्मार्थसहितं वृत्तं वृत्तान्तममानुषं प्राहुः स मत्पिता देवत्वे नित्यप्रमोदे सम्मतः प्रापत इत्यर्थः ॥ २।१०१।४ ॥
ननु स्वाभाविकनित्यप्रमोदविशिष्टस्य तस्य किमिदमुच्यते इत्यत आह– केकयस्थ इति । मयि केकयस्थे केकयराजवेश्मस्थे सति त्वयि च अरण्यमाश्रिते सति यायजूकः अश्वमेधादियागकर्ता सतां मतः इष्टः धीमान् राजा स्वर्गमप्रकटसाकेतं गतः प्राप्तः ॥ २।१०१।५ ॥
गमने हेतुं वदन्नाह– निष्क्रान्तेति । सहसीते सीतासहिते भवति निष्क्रान्ते सति दुःखशोकाभिभूतो राजा त्रिदिवं ब्रह्मादित्रयस्तुत्यमप्रकटसाकेतमभ्यगात् ॥ २।१०१।६ ॥
उत्तिष्ठेति । हे पुरुषव्याघ्र पितुः लोकान्तरप्राप्तपित्रुद्देश्यकमुदकदानं क्रियताम् । अहं शत्रुघ्नश्च पूर्वमेव कृतोदकौ, एतेन आवाभ्यां न कर्तव्यमिति सूचितम् ॥ २।१०१।७ ॥
उदकक्रियाकरणे प्रयोजनमाह– प्रियेणेति । हे राघव प्रियेण प्रीतिविशिष्टेन पुत्रेण दत्तमुदकादिकं पितृलोके पित्राद्यभिमानिदेवविशेषसंनिधौ अक्षयं विनाशरहितं भवति इति आहुः । तत्त्वज्ञा इति शेषः । दानयोग्यत्वं प्रतिपादयति हि यतः भवान् पितुः प्रियः ॥ २।१०१।८ ॥
प्रियत्वमेवोपपादयन्नाह– त्वामिति । तव दर्शनेप्सुः त्वद्दर्शनविषयकेच्छावान् ते पिता त्वामेव स्मरन् त्वामेव शोचंश्च सन् त्वय्येव सक्तां बुद्धिमनिवर्त्य गतः ॥ २।१०१।९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोण्याकाण्डे एकोत्तरशततमः सर्गः ॥ २।१०१ ॥