१०० रामस्य कुशलप्रश्नः

रामोक्तिं वर्णयितुमुपक्रमते– जटिलमिति । जटिलं रामवृत्तान्तश्रवणोत्तरकाले धृतजटं चीरवसनं युगान्ते भास्करमिव भुवि पतितं प्राञ्जलिं भरतं रामो ददर्श ॥ २।१००।१ ॥

कथञ्चिदिति । विवर्णवदनं वियोगदुःखातिशयेन प्राप्तविवर्णताविशिष्टमुखविशिष्टं कृशं भ्रातरं भरतं कथञ्चित् अनुमानादिना अभिविज्ञाय पाणिना जग्राह ॥ २।१००।२ ॥

आघ्रायेति । राघवं भरतं मूर्ध्नि आघ्राय अङ्के आरोप्य सादरं पर्यपृच्छत ॥ २।१००।३ ॥

प्रश्नाकारमाह– क्वेत्यादिभि । हे तात ते पिता क्व अभूत् प्राप्नोत् यत् येन हेतुना त्वमरण्यमागतः । प्रश्ने हेतुमाह– जीवतः प्रजाः पालयतः तस्य राज्ञः हित्वा वनमागन्तुं नार्हसि सम्बन्धसामान्यविवक्षया षष्ठी, एतेन पिता ध्रुवं लोकान्तरं गत इति स्वनिश्चयः सूचितः ॥ २।१००।४ ॥

चिरस्येति । दूरात् अतिदूरदेशस्थितमातुलगृहादागतं दुष्प्रतीकं ज्ञानाभावप्रापककृशत्वादिप्रतीत्या दुरवयवं भरतं त्वां चिरस्य बहुकालानन्तरं पश्यामि हे तात अस्मिन् अरण्ये गजादिसेवितमहावेन विद्यमानं वनमाम्रादिवृक्षसमूहं किं किमर्थमागतः “अङ्गं प्रतीको ऽवयवः” इत्यमरः ॥ २।१००।५ ॥

कच्चिदिति । यत् यं त्यक्त्वेति शेषः, त्वमिहागतः सः राजा धरते प्रजाः पाल्यत्वेन स्वीकरोति कच्चित् राजा दीनः सँल्लोकान्तरं न गतः कच्चित् ॥ २।१००।६ ॥

कच्चिदिति । शाश्वतं सार्वकालिकं बालस्य ते तव राज्यं भ्रष्टं न कच्चित्, हे सत्यपराक्रम हे तात पितुः शुश्रूषसे कच्चित् कर्मणः शेषत्वविचक्षया षष्ठी ॥ १००।७ ॥

कच्चिदिति । सत्यसङ्गरः निष्कपटयोद्धा राजसूयाश्वमेधानामाहर्ता कर्ता धर्मे निश्चितं निश्चयो यस्य सः राजा कुशली कच्चित् ॥ २।१००।८ ॥

स इति । धर्मनित्यः धर्मः नित्यो यस्य सनित्यं धर्मविशिष्ट इत्यर्थः, विद्वान् निखिलनिगमागमज्ञाता ब्राह्मणः कृतपरब्रह्मसाक्षात्कारः ब्रह्मपुत्रो वा स वसिष्ठः यथावत् पूज्यते, त्वयेति शेषः ॥ २।१००।९ ॥

तातेति । हे तात कौसल्यादिः सुखिनी कच्चित् ॥ २।१००।१० ॥

कच्चिदिति । विनयसम्पन्नः विनीतियुक्तः कुलपुत्रः शुद्धकुलप्रसूतः अनसूयुः असूयारहितः अनुद्रष्टा सकलसत्कर्मनिपुणः ते तव स्वयस्कः पुरोहितः वसिष्ठपुत्रः सत्कृतः कच्चित् सवयस्क इति षष्ठीमहिम्ना लब्धम् ॥ २।१००।११ ॥

कच्चिदिति । विधिज्ञो हवनविधिज्ञाता मतिमान् प्रशस्तबुद्धिः ऋजुः सरलस्वभावः अग्निकार्येषु ते त्वया युक्तो नियुक्तः पुरोहितः हुतं होष्यमाणं च वह्निं काले यथोचितसमये वेदयते यथाविधि चेतयते ॥ २।१००।१२ ॥

कच्चिदिति । देवादीनभिमन्यसे कच्चित् ॥ २।१००।१३ ॥

इष्विति । इष्वस्त्रवरसम्पन्नमिषुषु अस्त्रवरेषु च सम्पन्न तद्विषयकातिज्ञानवन्तमर्थशास्त्रविशारदं राजनीतिप्रतिपाकेषु निपुणं सुधन्वानं तन्नामकमुपाध्यायं मन्यसे कच्चित् । अस्त्रवरशब्देनैवेषूणां ग्रहणे सिद्धे पुनरिषूपादानं तद्विषयकज्ञानवत्ताया अतिशयत्वप्रतिपादनाय ॥ २।१००।१४ ॥

कच्चिदिति । आत्मसमाः स्वसदृशाः शूराः शौर्यविशिष्टाः श्रुतवन्तो बहुश्रुताः इङ्गितज्ञाः कथनमन्तराप्यभिप्रायविज्ञातारः मन्त्रिणः ते त्वया कृताः सम्पादिताः कच्चित् ॥ २।१००।१५ ॥

मन्त्रिसम्पादने प्रयोजनं वदन्नाह– मन्त्र इति । हे राघव मन्त्रः राज्ञां विजयमूलं भवति अतो मन्त्रिधुरैः मन्त्रिनिपुणैः अमात्यैः सुसंवृतो भवति राजेति शेषः ॥ २।१००।१६ ॥

कच्चिदिति । निद्रावशं न एषि प्राप्नोषि, काले यथोचितसमये अवबुध्यसे जागर्षि अपररात्रेषु

रात्रिपरभागेषु अर्थनैपुण्यमर्थसम्पादनरीतिं चिन्तयसि विचारयसि ॥ २।१००।१७ ॥

कच्चिदिति । नैकः न एकः स्वान्यसाधारणजनो यस्य स त्वं मन्त्रयसे बहुभिः सह न मन्त्रयसे अत एव ते मन्त्रितो मन्त्रः राष्ट्रं न परिधावति अन्ये न जानन्तीत्यर्थः ॥ २।१००।१८ ॥

कच्चिदिति । अर्थं स्वार्थं विनिश्चित्य लघुमूलमल्पयत्नसाध्यं महोदयं महाफलकं कर्म क्षिप्रमारभसे दीर्घयसि विलम्बयसि तु न ॥ २।१००।१९ ॥

कच्चिदिति । कृतरूपाणि प्रारम्भविषयीभूतानीत्यर्थः, ते तव सर्वकार्याणि सुकृतानि सुनिष्पादितान्येव पार्थिवाः खण्डमण्डलेश्वराः विदुः कर्तव्यानि कर्तुं योग्यानि करिष्यमाणानीत्यर्थः, न विदुः कच्चित् ॥ २।१००।२० ॥

कच्चिदिति । अपरिकीर्तिता अकथिता अपि ये तव मन्त्रास्ते तर्कैर्युक्त्या वा न बुध्यन्ते परैरिति शेषः, मन्त्रितमन्यमन्त्रविषयीभूतं त्वया तवामात्यैर्वा बुध्यते, बुध्यते इत्यस्य वचनविपरिणामेनान्यत्राप्यन्वयः ॥ २।१००।२१ ॥

कच्चिदिति । मूर्खाणां सहस्रैः सहस्राणि परित्यज्येति शेषः, एकं पण्डितमिच्छसि । ननु किमेतेनेत्यत आह– अर्थकृछ्रेषु अर्थसङ्कटेषु प्राप्तेषु सत्सु पण्डितो महत् निःश्रेयसं कल्याणं कुर्यात् ॥ २।१००।२२ ॥

सहस्राणीति । मूर्खाणां सहस्राणि अथवा अयुतानि दशसहस्राणि महीपतिः यद्युपास्ते तदापि तेषु उपासितेषु सहायता साहाय्यकर्तृत्वं नास्ति, एतेन मूर्खजनेष्वतिस्नेहो न कार्य इति ध्वनितम् ॥ २।१००।२३ ॥

एक इति । मेधावी शास्त्रसंस्कारजनितमेधाविशिष्टः अत एव विचक्षणः नीतिनिपुणः एकोप्यमात्यः महतीं श्रियं प्रापयेत् ॥ २।१००।२४ ॥

कच्चिदिति । महदादिषु कर्मसु मुख्यादयः भृत्याः क्रमेणैव योजिताः । तत्र मुख्या महान्तः जघन्याः निकृष्टाः, एतेन विपरीतयोजना न कर्तव्येति सूचितम् ॥ २।१००।२५ ॥

अमात्यानिति । उपधातीतान् उपधा सुपरीक्षा अतीता व्यतीता येषां तान् सुपरीक्षितानित्यर्थः, शुचीन् कापट्यरहितान् अमात्यान् श्रेष्ठेषु कर्मसु त्वं नियोजयसि कच्चित् “उपधा सुपरीक्षा स्यात्” इति वैजयन्ती । उपधा उत्कोचः तमतीतान् तदग्राहिण इति भट्टाः ॥ २।१००।२६ ॥

कच्चिदिति । उग्रेण शास्त्रातिवर्तिना दण्डेन उद्वेजिताः भयं प्रापिताः प्रजाः मन्त्रिणो वा तव त्वामनुजानन्ति अवमन्यन्ते न कच्चित् ॥ २।१००।२७ ॥

कच्चिदिति । याजकाः पतितं सुरापानादिना यागानर्हमिव त्वां नावजानन्ति कच्चित् । तत्र दृष्टान्तः– उग्रप्रतिग्रहीतारं हीनजातिस्त्रीस्वीकारकारिणमत एव कामयानं कामयमानं तत्रैवासक्तमित्यर्थः, जनं स्त्रियः पाणिगृहीत्य इव ॥ २।१००।२८ ॥

उपायेति । ऐश्वर्यकामं स्वातन्त्र्येण राजैश्वर्यभोगेच्छावन्तमत एव भृत्यसन्दूषणे भृत्यचित्तचालकयत्ने रतमुपायेषु रोगप्रवर्तननिर्वर्तनयत्नेषु कुशलं निपुणं शूरं वैद्यं भिषजं यो न हन्ति स हन्यते तेन वैद्येनेति शेषः ॥ २।१००।२९ ॥

कच्चिदिति । हृष्टः युद्धोत्साहविशिष्टः धृतिमान् धैर्यवान् अनुरक्तः स्वविषयकानुरागविशिष्टः दक्षः सामदानादिसमर्थः सेनापतिः कृतः कच्चित् ॥ २।१००।३० ॥

बलवन्त इति । दृष्टापदानाः दृष्टानि पूर्वं बहुवारमनुभूतानि अपदानानि वृत्तानि येषां ते विक्रान्ताः स्वसमीपं प्राप्ताः बलवन्तः सत्कृत्य वचनसत्कारं कृत्वा मानिताः वस्त्राभरणादिदानेन सन्तोषिताः ॥ २।१००।३१ ॥

कच्चिदिति । सम्प्राप्तः कालो दानसमयो यस्य तत् अत एव दातव्यं द्रुतं देयं बलस्य सैन्यजनस्य भक्तं प्रतिदिनं देयमन्नादिकं वेतनं च यथोचितं ददासि विलम्बसे तु न ॥ २।१००।३२ ॥

विलम्बे दोषमाह– कालेति । भृताः भृतिजीवनवन्तो भृत्या भक्तवेतनयोः नियुक्तान्नभृत्योः कालातिक्रमणे सति भर्तुः भर्त्रे अतिकुप्यन्ति स कोपः सुमहान् अनर्थः अर्थविघातकः स्मृतः ॥ २।१००।३३ ॥

कच्चिदिति । प्रधानतः प्रधानाः कुलपुत्राः तव कुलप्रसूताः त्वामनुरक्ताः त्वद्विषयकानुरागवन्तः सन्तीति शेषः, अत एव तवार्थेषु प्रयोजनेषु समाहिताः सन्तः प्राणान् संन्त्यजन्ति त्यागानुकूलव्यापारानुकूलकृतिमन्तो भवन्तीत्यर्थः ॥ २।१००।३४ ॥

कच्चिदिति । विद्वान् नीतिज्ञः दक्षिणः चतुरः प्रतिभानवान् विस्मृतिरहितः पण्डितः सदसत्कार्यविवेकी अत एव यथोक्तवादी सन्देशप्रतिसन्देशयोर्यथोक्तं वक्ता दूतस्ते त्वया कृतः ॥ २।१००।३५ ॥

कच्चिदिति । अविज्ञातैः परस्परमन्यैर्वा ज्ञानरहितैः त्रिभिस्त्रिभिः एकैकस्मिन्विषये नियुक्तैरिति शेषः, चारणैः चारैः, अन्येषु अन्यराजसमीपेषु अष्टादशतीर्थानि मन्त्र्यादीनि स्वपक्षे स्वसमीपे दशपञ्च मन्त्रिपुरोहितयुवराजान् सन्त्यज्य दशपञ्चसङ्ख्याकानि तीर्थानि त्वं वेत्सि परीक्षया जानासि कच्चित् । मन्त्र्यादयस्तु १ मन्त्री, २ पुरोहितः, ३ पुवराजः, सेनापतिः, ५ दौवारिकः, ६ अन्तःपुराधिकृतः, ७ बन्धनागाराधिकृतः, ८ धनाध्यक्षः, ९ राजाज्ञाया आज्ञाप्येषु वक्ता, १० प्राड्विवाकसञ्ज्ञो व्यवहारप्रष्टा, ११ धर्मासनाधिकृतः, १२ व्यवहारनिर्णेता सभ्याख्यः, १३ सेनाया जीवितभृतिदानाध्यक्षः, १४ कर्मान्ते वेतनग्राही, १५ नगराध्यक्षः, १६ राष्ट्रान्तःपालः अयमेवाटविकः, १७ दुष्टानां दण्डनाधिकारी, १८ जलगिरिवनदुर्गस्थलपालः इति । “योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि” इति कोशः ॥ २।१००।३६ ॥

कच्चिदिति । व्यपास्तान् देशविशेषात् निष्काशितान् अत एव दुर्बलान् प्रतियातान् पुनः स्वदेशं कथञ्चित्प्राप्तान् अहितान् शत्रून् अवज्ञाय अतिदुर्बलत्वान्न कञ्चिदपकारं कर्तुं समर्था इमे इति बुद्ध्या अनुपेक्ष्य वर्तसे कच्चित् ॥ २।१००।३७ ॥

कच्चिदिति । ब्राह्मणान् ब्राह्मणकुलोत्पन्नान् अपि लोकायतिकान् प्रत्यक्षमात्रप्रमाणकान् शुष्कतर्कवादिनश्च तदुपलक्षितचार्वाकबौद्धादीनपि न सेवसे कच्चित् । तत्सेवने दोषमाह– बालाः परलोकविषयकज्ञानाभाववन्तः पण्डितमानिनः पडितंमन्याः एते लोकायतिकप्रभृतयः अनर्थकुशलाः अनर्थे सर्वार्थविघातके परमार्थबुद्धिनिवर्तने कुशलाः निपुणाः सन्तीति शेषः ॥ २।१००।३८ ॥

अनर्थकुशलत्वं प्रकटयन्नाह– धर्मेति । मुख्येषु प्रमाणप्रधानेषु धर्मशास्त्रेषु विद्यमानेषु सत्सु दुर्बुधाः वेदविरुद्धज्ञानवन्तस्ते लोकायतिकादयः आन्वीक्षिकीं शुष्कतर्कजनितां बुद्धिं प्राप्य निरर्थं परमार्थशून्यं प्रवदन्ति । एतेन स्वहिताकाङ्क्षिभिः बौद्धादिसंसर्गः दूरतः परहिर्तव्य इति सूचितम् ॥ २।१००।३९ ॥

वीरैरिति । हे तात अस्माकं पूर्वकैः वीरैः पूर्वमध्युषितामधिष्ठितां दृढद्वारां दृढानि द्वाराणि यस्यास्तां हस्त्यश्वरथसङ्कुलां हस्त्यादिव्याप्तां स्वकर्मनिरतैः जितानि इन्द्रियाणि यैस्तैः महोत्साहैः दुःखास्पृष्टत्वेनात्युत्साहविशिष्टैः अत एव आर्यैः श्रेष्ठैः सहस्रशो ब्राह्मणादिभिः वृतां विविधाकारैः अनेकविधाकारविशिष्टैः प्रासादैर्वृतां वैद्यजनैः वैद्यानां जनकैर्मुख्यभिषग्भिरित्यर्थः, आकुलां व्याप्तां समुदितां सम्यगुदितं स्वकल्याणार्थमुच्चारणं यस्यास्तां सत्यनामां सत्यमन्वर्थं नाम यस्यास्तां स्फीतामतिसमृद्धामयोध्यां परिरक्षसे कच्चित् । श्लोकत्रयमेकान्वयि सत्यनामामित्यत्र “डाबुभाभ्यां–”

इति डाप् ॥ २।१००।४०४२ ॥

कच्चिदिति । चैत्यशतैः शतशो ऽग्निचयनैः अनेकविधयागैरित्यर्थः, जुष्टः सेवितः प्रीतो वा सुनिविष्टजनैः सुनिविष्टाः सर्वत्र प्रविष्टबुद्धय एव जनास्तैः आकुलः व्याप्तः देवस्थानादिभिरुपशोभितः तत्र प्रपाः पानीयशालाः “प्रपापानीयशाला स्यात्” इति हलायुधः । प्रहृष्टाः नरनार्यो यस्मिन् सः समाजोत्सवशोभितः समाजेषु सभासु य उत्सवास्तैः शोभितः सुकृष्टाः विदारिताः सीमा यैस्ते एव पशवः तद्वान् हिंसाभिः अभिवर्जितो रहितः अदेवमातृकः वृष्टिनिष्पाद्यसस्यविशिष्टदेशभिन्नः नद्यम्बुजीवन इत्यर्थः, “नद्यम्बुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः” इति हलायुधः । रम्यः रमणीयः श्वापदैः क्रूरजन्तुभिः परिवर्जितः सर्वैर्भयैः परित्यक्तः खनिभिः स्वर्णाद्याकरैः उपशोभित पापैः पापविशिष्टैः नरैः विवर्जितः स्फीतः स्वच्छः जनपदः कोशलदेशः सुखं वसति “खनिः स्त्रियामाकरः स्यात्” इत्यमरः । श्लोकचतुष्टयमेकान्वयि ॥ २।१००।४३४६ ॥

कच्चिदिति । ते दयिताः प्रियाः कृषिगोरक्षजीविनः वैश्याः वार्तायां कृषिगोरक्षवाणिज्यकुसीदात्मिकायां वर्तन्ते इति शेषः, संश्रितो यदाश्रितः अयं लोकः सुखमेधते ॥ २।१००।४७ ॥

तेषामिति । तेषां वैश्यानां गुप्तिपरीहारैः गुप्तयः इष्टप्रापणानि परीहाराः अनिष्टनिवारणानि तैर्भरणं रक्षणं कच्चित्ते कृतं हि यतः विषयवासिनः स्वदेशवर्तिनः सर्वे जनाः राज्ञा धर्मेण रक्ष्याः ॥ २।१००।४८ ॥

कच्चिदिति । स्त्रियः स्वभार्याः सान्त्वयसे कच्चित् ताः स्त्रियः ते त्वया सुरक्षिताः आसां स्त्रीणां न श्रद्दधासि अतिविश्वासं करोषि कच्चित् अत एव गुह्यमप्राकाश्यं न भाषसे कच्चित् ॥ २।१००।४९ ॥

कच्चिदिति । नागवनं गजसेव्यारण्यं गुप्तं छेदकेभ्यः रक्षितं कच्चित्, धेनुकाः धेनवः सन्ति कुशलिन्य इति शेषः, स्वार्थे कः । गणिकाश्वानां करिणी तुरङ्गमानां कुञ्जराणां च कच्चिन्न तृप्यसि एतत्सम्पादने तृप्तिं न प्राप्नोषि “वेश्याकरिण्योर्गणिका” इति वैजयन्ती ॥ २।१००।५० ॥

कच्चिदिति । मानुषाणां मानुषैः भृत्यवर्गैरित्यर्थः, विभूषितमलङ्कृतमात्मानमिति शेषः, पूर्वाह्णे उत्थायोत्थाय महापथे राजमार्गे दर्शयसे कच्चित् प्रतिदिनं दर्शनेन प्रजानां सन्तोषातिशयो भवतीति सूचितम् ॥ २।१००।५१ ॥

कच्चिदिति । सर्वे कर्मान्ताः कर्मसु नियुक्ताः अविशङ्कया शङ्काराहित्येन ते प्रत्यक्षाः अतिसमीपवर्तिनस्तु न वा अथवा सर्वे ते उत्सृष्टाः अतिदूरं प्रापितास्तु न मध्यभाग एव संस्थाप्या इत्यर्थः । तत्र हेतुः– अत्र अतिनिकटादिषु मध्यं मध्यस्थितिरेव कारणं प्रयोजनसाधकम् ॥ २।१००।५२ ॥

कच्चिदिति । सर्वाणि दुर्गाणि धनादिभिः यन्त्रैः शतघ्न्यादिभिश्च शिल्पिधनुर्धरैः क्रियाकुशलधनुर्धारिभिश्च पूर्णानि सन्तीति शेषः ॥ २।१००।५३ ॥

आय इति । आयो धनागमः विपुलः अधिकः कच्चिद्व्ययः भोगाद्यर्थं त्यागः अल्पतरः आयापेक्षया न्यूनः कच्चित्, अपात्रेषु दानानर्हेषु ते कोशः न गच्छति अपात्रेभ्यो न ददासीत्यर्थः ॥ २।१००।५४ ॥

देवतेति । देवतार्थादौ ते व्ययः त्यागाश्रयीभूतद्रव्यं गच्छति प्राप्नोति कच्चित् ॥ २।१००।५५ ॥

कच्चिदिति । अपकर्मणा स्तेयादिदोषेण आक्षारितः मिथ्याभिशस्तः किञ्च क्षारितस्त्यक्तः अत

एव शास्त्रकुशलैः अदृष्टः अदृष्टप्रापकः अत एव शुद्धात्मा शुद्धमनस्कः अत एव शुचिः अत एव आर्यः श्रेष्ठः लोभाद्बध्यते तु न “आक्षारितो ऽभिशस्तः स्यात्” इत्यमरः ॥ २।१००।५६ ॥

गृहीत इति । काले चुरासमये दृष्टः वस्तुस्वामिना ऽवलोकितः अत एव सकारणः बन्धनकारणविशिष्टः अत एव गृहीतः चोरोचितबन्धनेन बद्धः पृष्टः प्रश्नेनाप्यवधारितचौर्यः चोरः धनलोभाच्चोराद्धनलाभवाञ्छया मुच्यते तु न कच्चित् ॥ २।१००।५७ ॥

व्यसन इति । आढ्यस्य प्रचुरद्रव्यवतः दुर्बलस्य द्रव्यरहितत्वेन बलरहितस्य व्यसने परस्परनिमित्तकदुःखप्राप्तिहेतुकविवादे सति बहुश्रुताः तवामात्याः विरागाः आकोचविषयकानुरागरहिताः सन्तः अर्थं यथार्थं पश्यन्ति कच्चित् ॥ २।१००।५८ ॥

मृषाभिशंसने दोषमाह– यानीति । हे राघव मिथ्याभिशस्तानां दोषवत्त्वाभावे ऽपि दोषवत्तया कथितानां जनानां यानि अस्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमेकत्र प्रीतिसम्पादनार्थम् अनुशासतः पुरुषस्य पुत्रपशून् पुत्रान् पशूंश्च घ्नन्ति विनाशयन्ति ॥ २।१००।५९ ॥

कच्चिदिति । दानेन ईप्सितप्रापणेन मनसा अभिलाषातिशयेन वाचा मृदुवचनेन च एभिः त्रिभिः वृद्धादीन् बुभूषसे प्राप्तुमिच्छसि कच्चित् ॥ २।१००।६० ॥

कच्चिदिति । गुर्वादीन् नमस्यसि कच्चित् तत्र चैत्याः अग्निचयनस्य स्थलानि सिद्धः अर्थो येभ्यस्तानिति बहुव्रीहिः ॥ २।१००।६१ ॥

कच्चिदिति । अर्थेन धर्मोचितब्राह्म्यमुहूर्तादौ द्रव्यादिप्रयत्नेन धर्मं धर्मेण द्रव्याद्यर्जनकाले धर्मचिन्तनेन अर्थं वा प्रीतिलोभेन प्रीत्या लोभो विमोहनं यस्मिंस्तेन कामेन धर्मार्थार्जनसमये कामसेवनेन उभौ धर्मार्थौ वा कच्चिन्न विबाधसे ॥ २।१००।६२ ॥

कच्चिदिति । सर्वानर्थादीन् त्रीन् काले तत्तत्सेवनोचितसमये विभज्य सेवसे कच्चित् ॥ २।१००।६३ ॥

कच्चिदिति । पौरादिभिः सह सर्वशास्त्रार्थकोविदा ब्राह्मणास्ते शर्म कल्याणमाशंसन्ते कच्चित् ॥ २।१००।६४ ॥

नास्तिक्यमिति । नास्तिक्यं परलोको नास्तीति वादमनृतं लोभादिना मिथ्याभाषणं क्रोधं ब्राह्मणसंप्रदानकं कोपानुचितान्यसम्प्रदानकं वा यागादौ सर्वसंप्रदानकं वा कोपं प्रमादमनवधानतां दीर्घसूत्रतां चिरक्रियत्वं ज्ञानवतां परमार्थविषयकज्ञानिनामदर्शनं कामाद्यासक्त्या दर्शनाभावमालस्यं पञ्चवृत्तितां चक्षुरादिपञ्चेद्रियवशत्वम् “दीर्घसूत्रश्चिरक्रियः” इत्यमरः ॥ २।१००।६५ ॥

अर्थानां राजनिर्वाहकवस्तूनामेकचिन्तनमेकेन द्वितीयराहित्येन चिन्तनं विचारमनर्थज्ञैः विरुद्धार्थबोधकजनैः मन्त्रणं संमतिकरणं निश्चितानां श्वकर्तव्यत्वेन निश्चयं प्राप्तानां कार्याणामनारम्भं मन्त्रस्य मन्त्रविषयीभूतार्थस्य अपरिरक्षणं परिरक्षणाभावं प्रकटनमित्यर्थः ॥ २।१००।६६ ॥

मङ्गलाद्यप्रयोगं मङ्गलानां माङ्गलिकशब्दानामादौ कार्यप्रारम्भसमये अप्रयोगं सर्वतः नीचेभ्यो ऽपि प्रत्युत्थानमेतान् चतुर्दश राजदोषान् वर्जयसि कच्चित् । श्लोकत्रयमेकान्वयि । “मङ्गलातिप्रयोगम्” इति भूषणपाठः ॥ २।१००।६७ ॥

दशेति । दशपञ्चचतुर्वर्गान् दशवर्गान् पञ्चवर्गान् चतुर्वर्गांश्च सप्तवर्गादिकं च तिस्रो विद्याश्च इन्द्रियाणां जयं जयोपायं च दैवं देवकृतं व्यसनं मानुषं मनुष्यकृतं च व्यसनं कृत्यं नृपकृत्यं च विंशतिवर्गं च प्रकृतिमण्डलं पञ्चप्रकृतीश्च द्वादशमण्डलानि च यात्रादण्डविधानं यात्राविधानं दण्डविधानं च द्वियोनी सन्धिविग्रहौ च एतान् प्रसिद्धान् बुद्ध्वा यथावत् अनुमन्यसे कांश्चिदुपादेयत्वेन कांश्चित् हेयत्वेन चावबुध्यसे । दशवर्गास्तु– “मृगया ऽक्षा २ दिवास्वप्नः ३ परिवादः

४ स्त्रियो ५ मदः । ६ तौर्यत्रिकं ९ वृथाट्या १० च कामजो दशको गणः ॥ " इति मनुनोक्तः तत्र तौर्यत्रिकमतिनृत्यगीतवाद्यम्। वृथाट्या अकारणकपर्यटनम्। पञ्चवर्गास्तु– “औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा। इति दुर्गं पञ्चविधं पञ्चवर्ग उदाहृतः” इति मनुः। तत्र इरिणं सर्वसस्यशून्यप्रदेशः तत्सम्बन्धिदुर्गमैरिणं तस्यापि परैर्गन्तुमशक्यत्वेन दुर्गत्वमक्षतम्। चतुर्वर्गस्तु– “साम दानं च भेदश्च दण्डश्चेति चतुर्गणः” इति कामन्दकीये। सप्तवर्गस्तु “स्वाम्यमात्यश्च राष्ट्रं च दुर्गकोशौ बलं सुहृत्। परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते” इति। अष्टवर्गस्तु “पैशून्यं साहसं द्रोहमीर्ष्यासूयार्थदूषणम्। वाक्दण्डयोश्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” इति। कामन्दकस्तु “कृष्टिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्। खन्याकरकरादानं शून्यानां च निवेशनम्। अष्टवर्गमिमं साधुः स्वस्थवृत्तिर्न लोपयेत्” इति। त्रिवर्गो धर्मार्थकामाः, प्रभुशक्तिरुत्साहशक्तिर्मन्त्रशक्तिश्चेति वा। तिस्रो विद्यास्तु त्रयी वार्ता दण्डनीतिरिति, तत्र त्रयी वेदत्रयी वार्ता कृष्यादिचतुष्टयं नीतिर्दण्डनिर्णायकशास्त्रम्। षड्गुगुणास्तु “सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः” इति। तत्र द्वैधं शत्रुवर्ग्याणां दूरीकरणम्। दैवकृतव्यसनं तु– “हुताशनो जलं व्याधिर्दुर्भिक्षो मरकस्तथा” इति। तत्र मरको मरणनिमित्तं महामार्यादि, मानुषं तु– “आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाच्च व्यसनं मानुषं त्विदम् ॥

" इति । तत्र आयुक्तकाः अधिकारिणः । कृत्यं तु– “अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । क्रुद्धश्च कोपितो ऽकस्मात्तथाभीतश्च भीषितः । भेद्याः शत्रौ च चत्वारो नृपकृत्यमिदं स्मृतम् ॥ " इति कामन्दकः। विंशतिवर्गस्तु– “बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥

विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतः बलव्यसनसंयुतः ॥ अदेशस्थो बहुरिपुर्युक्तो कालेन यश्च सः । सत्यधर्मारतश्चैव विंशतिः पुरुषा अमी । एतैः सख्यं न कुर्वीत विगृह्णीयात्तु केवलम् ॥ " इति कामन्दकप्रदिष्टाः। प्रकृतयस्तु– “अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः। एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः” इति कामन्दकोक्तेः। मण्डलानि द्वादशात्मकानि तत्र मध्ये विजिगीषुः “अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। मित्रारिंमित्रमित्रं च विजिगीषोः पुरःसराः ॥

पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अत्र आसाराविति द्विवचनान्तेन तयोर्द्वैविध्यम् पार्ष्णिग्राहासार आक्रन्दासारश्च । आसारपृष्ठभागस्थौ मध्यमोदासीनौ । तथाहि “अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभुः” इति । “मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः” इति । यात्राविधानं पञ्चविधं, तथाहि– “विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्ष्यश्चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ " इति। तत्र बलवत्तया पार्ष्णिग्राहादिभिर्विगृह्य शत्र्वन्तरे गमनं विगृह्य यानं, तैः सन्धिं कृत्वाऽन्यत्र गमनं सन्धाय यानम्, सामन्तैः सह गमनं सम्भूय यानम्, अन्योद्देशेन यात्रोद्योगं कृत्वा अन्यं प्रति गमनं प्रसङ्गतो यानम्, अतिप्रौढतया शत्रुमुपेक्ष्य तन्मित्रं प्रति गमनमुपेक्ष्य यानम्। दण्डविधानम् दण्डः सैन्यं तद्विधानं व्यूहरचनया तत्संस्थापनम्। “दण्डो धर्मे मानभेदे लकुटे मदसैन्ययोः” इति कोशः। द्वियोनी द्विहेतुकौ सन्धिविग्रहाविति। “सन्धिर्ना विग्रहो यानम्” इत्यादिना षड्गुणानां मध्ये यद्यप्युक्तौ तथापि षड्गुणान्तःपातिनौ द्वैधीभावसमाश्रयपराविति भेदः तत्र द्वैधीभावो नाम “बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितम् ॥

" इति । अरिभिः पीड्यमानस्य बलवदाश्रयणं समाश्रयः । कालप्रतीक्षया तूष्णीमवस्थानमासनम् । श्लोकत्रयमेकान्वयि ॥ २।१००।६८७० ॥

मन्त्रिभिरिति । यथोद्दिष्टं शास्त्रमनतिक्रम्य समस्तैर्मिलितैः व्यस्तैरमिलितैश्च चतुर्भिः त्रिभिर्वा

मन्त्रिभिर्मन्त्रं संमतिं मन्त्रयसे करोषि ॥ २।१००।७१ ॥

कच्चिदिति । वेदा अधीतसामादयः सफलाः तदनुष्ठानादिरूपफलसहिताः कच्चित् ते क्रिया अनुष्ठानानि सफलाः महत्समागमरूपफलसहिताः कच्चित्, दाराः सफलाः सत्पुत्रादिरूपफलसहिताः श्रुतं शास्त्रश्रवणं सफलं विनम्रताप्रापणरूपफलसहितं कच्चित् ॥ २।१००।७२ ॥

कच्चिदिति । उक्ता कथिता एष बुद्धिर्निश्चयः यथा मम तथा ते तवापि अस्तीति शेषः ॥ २।१००।७३ ॥

यामिति । या सत्पथगा सत्पथैर्महात्मभिः सेव्या अत एव शुभा शुभमूलम् अत एव यामेव नः प्रपितामहाः वर्तन्ते अत एव यामेव तातो वर्तते तां वृत्तिं कच्चिद्वर्तसे ॥ २।१००।७४ ॥

कच्चिदिति । स्वादुकृतं स्वादुपूर्णं भोज्यम् एको नाश्नासि कच्चित् । आशंसमानेभ्यः प्रशंसापूर्वकमिच्छद्भ्यः मित्रेभ्यः सम्प्रयच्छसि ॥ २।१००।७५ ॥

राजेति । राजा सर्वत्र प्रकाशमानेन धर्मेणोपलक्षितः प्रजानां दण्डधरो महीपतिः कृत्स्नां सकलां वसुधामवाप्य सम्प्राप्य यथावत् पालयित्वा इतो लोकाच्च्युतो गतो ऽपि स्वर्गमुपैति ॥ २।१००।७६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे शततमः सर्गः ॥ २।१०० ॥