०९९ श्रीरामदर्शनम्

सेनासंनिवेशानन्तरकालिकं वृत्तान्तमाह– निविष्टायामिति । सेनायां निविष्टायां संस्थापितायां सत्यामुत्सुकः भ्रातृदर्शनविषयकोत्साहवान् भरतः शत्रुघ्नमनुदर्शयन् भ्रातरं द्रष्टुं जगाम । “दृशेश्च” इति कर्मत्वं शत्रुघ्नस्य ॥ २।९९।१ ॥

ऋषिमिति । मे मातृ़ः शीघ्रमानयेति वसिष्ठं सन्दिश्य सम्प्रार्थ्य गुरुवत्सलः रामविषयकातिप्रीतिमान् स भरतः त्वरितमग्रे जगाम ॥ २।९९।२ ॥

सुमन्त्र इति । शत्रुघ्नमदूराच्छत्रुघ्नसमीपवर्तित्वं यथा भवति तथा सुमन्त्रो ऽप्यन्ववर्तत, तत्र हेतुः– रामदर्शनजः ईप्सितरामदर्शनजनितः तर्षो ऽत्यभिलाषः भरतस्येव तस्य सुमन्त्रस्याप्यस्तीति शेषः । चो ऽप्यर्थे ॥ २।९९।३ ॥

गच्छन्निति । गच्छन्नेव भरतस्तापसालयसंस्थितां तापसकुटीमध्ये वर्तिनीं भ्रातुः पर्णकुटीं पत्रप्रचुरशालामुटजं गृहान्तर्वर्ति काष्ठादिनिर्मितोन्नतस्थानविशेषं च ददर्श ॥ २।९९।४ ॥

शालाया इति । अवभग्नानि हवनोपयोगितया छिन्नानि काष्ठानि अपचितानि पूजाङ्गत्वेन सम्पादितानि पुष्पाणि च शालाया अग्रतः अग्रे ददर्श ॥ २।९९।५ ॥

स इति । आश्रममेयुषः नदीसमीपादिदेशाद्गमनकर्तुः लक्ष्मणस्य रामस्य च कृतं कुशचीरैः दर्भैः पटखण्डैश्च वृक्षेषु क्वचित्क्वचित्कस्याञ्चित्कस्याञ्चिच्छाखायां कृतमभिज्ञानं मार्गबोधकचिह्नं ददर्श ॥ २।९९।६ ॥

ददर्शेति । तस्मिन्प्रत्यक्षीभूते भवने पर्णशालासमीपे शीतकारणाच्छीतनिवारणहेतोः मृगानां महिषाणां च करीषैः कृतान् सञ्चयान् ददर्श “गोविट् गोमयमस्त्रियाम् । तत्तुशुष्कं करीषो ऽस्त्री” इत्यमरः ॥ २।९९।७ ॥

गच्छन्निति । तदा रामस्थितिबोधकचिह्नादिदर्शनोत्तरकाले हृष्टो महाबाहुर्भरतः शत्रुघ्नं सर्वशो ऽमात्यांश्च अब्रवीत् । सर्वश इत्यनेन सुमन्त्रातिरिक्तानामप्यागमनं सूचितम् ॥ २।९९।८ ॥

तद्वचनाकारमाह– मन्ये इति । यं देशं भरद्वाजो ऽब्रवीत् तं देशं वयं प्राप्ताः स्म इति मन्ये असाधारणलक्षणैर्निश्चिनोमि अत एव इतः अस्मात्स्थानान्नातिदूरे समीपे एवेत्यर्थः, मन्दाकिनीं नदीं मन्ये निश्चिनोमि ॥ २।९९।९ ॥

लक्षणान्येवाह– उच्चैरिति । यतः उच्चैः अत्युन्नतवृक्षप्रदेशे बद्धानि चीराणि लक्ष्यन्त इति शेषः । अतः विकाले अन्धकारादिसमये गन्तुं जलाद्याहरणार्थमिति शेषः, इच्छता लक्ष्मणेन अभिज्ञानकृतः लक्ष्मणकर्तृकचिह्नज्ञाप्यः पन्थाः रामाश्रमप्रापको मार्गः अयं भवेत् ॥ २।९९।१० ॥

इदमिति । इदमुदात्तदन्तानां महादन्तविशिष्टानां तरस्विनामत एव अन्योन्यमभिगर्जतां गजानां परिक्रान्तं परिक्रमणं मार्ग इत्यर्थः ॥ २।९९।११ ॥

यमिति । यं सततमाधातुं विधिना संस्थापयितुं तापसा इच्छन्ति तस्य कृष्णवर्त्मनो वह्नेः असौ धूमो दृश्यते “कृष्णवर्त्मा पुमानग्नौ दुराचारे विधुन्तुदे” इति मेदिनी ॥ २।९९।१२ ॥

अत्रेति । पुरुषव्याघ्रं पुरुषश्रेष्ठं गुरुसत्कारकारिणमतिसत्कारकरणशीलं महर्षिमिव राघवं रामं द्रक्ष्यामि ॥ २।९९।१३ ॥

अथेति । अथ एवं विचारकरणादनन्तरं मन्दाकिनीमनुप्राप्तो राघवो भरतः चित्रकूटं मुहूर्तं मुहूर्तेन गत्वा तममात्यादिजनमिदमब्रवीत् ॥ २।९९।१४ ॥

तद्वचनाकारमाह– जगत्यामिति । जनेन्द्रो रामः निर्जनं जनराहित्यं प्राप्य वीरासने रतः कृतवीरासन इत्यर्थः, जगत्यां राजोचितासनरहितभूमौ आस्ते अतः सजीवितं जीवितसहितं मे जन्म धिक् ॥ २।९९।१५ ॥

ननु तव को ऽपराधो यदात्मानं धिक्कारोषीत्यत आह– मदिति । लोकनाथो महाद्युतिः यो राघवः सर्वान् कामान् परित्यज्य वने वसति सः मत्कृते मत्प्रयत्ने मत्कर्तृकमातुलगृहप्राप्तौ सत्यामित्यर्थः, व्यसनं वननिवासक्लेशं प्राप्तः । एतेन मत्कर्तृकस्थितौ तत्प्रव्राजनं न स्यादिति सूचितं तेन चिरं कालमन्यत्र स्थितिमत्त्वेन ममैवापराध इति ध्वनितम् ॥ २।९९।१६ ॥

इतीति । इति अनेन प्रकारेण लोको विचारः तेन समाकृष्टः व्याकुलचित्तो ऽहं रामं प्रसादयन्सँल्लक्ष्मणस्य सन्निधौ तस्य रामस्य सीतायाश्च पादेषु अद्य पतिष्यामि लक्ष्मणस्य सन्निधावित्यनेन मदतिप्रार्थनादर्शनं तस्मिन्नप्यार्द्रचित्तत्वं जनयिष्यतीति व्यञ्जितम् ॥ २।९९।१७ ॥

एवमिति । एवं विलपन् दशरथात्मजो भरतः महतीं विशालां पुण्यां पुण्यप्रापिकां मनोरमां पर्णशालां ददर्श ॥ २।९९।१८ ॥

शालेति । शालतालाश्वकर्णानां सालादित्रयवृक्षविशेषाणां बहुभिः विपुलैः पर्णैः पत्रैः प्रावृतामध्वरे यज्ञे विशालां विपुलस्थलवतीं वेदीमिव कुशैर्मृदुविस्तीर्णां शक्रायुधनिकाशैः शक्रधनुस्सदृशैः भारसाधनैः गुर्ववयवविशिष्टैः रुक्मपृष्ठैः सुवर्णपृष्ठविशिष्टैर्महासारैः अतिपुष्टैः शत्रुबाधकैः कार्मुकैर्धनुर्भिः शोभिताम् ॥ २।९९।१९,२० ॥

अर्करश्मिप्रतीकाशैः सूर्यकिरणसदृशैर्धघौरैर्भयङ्करैः शरैः दीप्तवदनैः सर्पैर्भोगवतीमिव शोभिताम् ॥ २।९९।२१ ॥

महारजतवासोभ्यां स्वर्णमयकोशविशिष्टाभ्यामसिभ्यां खड्गाभ्यां विराजितां रुक्मबिन्दुभिः स्वर्णपुष्पैर्विचित्राभ्यां चर्मभ्यां च शोभिताम् ॥ २।९९।२२ ॥

चित्रकाञ्चनभूषितैः आसक्तैः संस्थापितैः गोधाङ्गुलित्रैर्मृगैः सिंहगुहामिव अरिसङ्घैः अनाधृष्याम् ॥ २।९९।२३ ॥

प्रागुदक्प्रवणामीशानदिग्भागे निम्नां दीप्तः पावको यस्यां तां पुण्यां वेदीं तत्र प्रसिद्धे रामनिवेशने पर्णशालायां भरतो ददर्श । षण्णामेकत्रान्वयः ॥ २।९९।२४ ॥

निरीक्ष्येति । निरीक्ष्य अवलोक्य पर्णशालामिति शेषः, उटजे काष्ठादिनिर्मितोन्नतस्थानविशेषे आसीनं गुरुं रामं ददर्श ॥ २।९९।२५ ॥

तदेव भङ्ग्यन्तरेणाह– कृष्णेति । पावकोपमं रामं ददर्श ॥ २।९९।२६ ॥

सिंहेति । सागरान्तायाः पृथिव्याः भर्तारं प्रकटतयापि रक्षकं दर्भैः कुशैः संस्तीर्णे स्थण्डिले शाश्वतं नित्यं ब्रह्माणमिव उपविष्टं तं रामं भरतो दृष्ट्वा दुःखमोहपरिप्लुतः सन् अभ्यधावत द्रुतमगच्छत् । श्लोकत्रयमेकान्वयि ॥ २।९९।२७२९ ॥

दृष्ट्वेति । दृष्ट्वैव आर्तः सेवकादिरहितरामदर्शनजनितखेदं प्राप्तो भरतः धैर्याद्वारयितुं खेदं निवारयितुमशक्नुवन् अत एव वचनं व्यक्तवाचमब्रुवन् सन् बाष्पसन्दिग्धया गद्गदाक्षरयेत्यर्थः, गिरा विललाप ॥ २।९९।३० ॥

विलापाकारमाह– य इत्यादिभिः । यः रामः संसदि राजादिसेवितसभायां प्रकृतिभिः प्रजाभिः उपासितुं सेवितुं युक्तो भवेत् सः वन्यैः मृगैरुपासीन आस्ते ॥ २।९९।३१ ॥

वासोभिरिति । यः बहुसाहस्रैरसङ्ख्यातैर्वासोभिरुचितः स मृगाजिने प्रवस्ते ॥ २।९९।३२ ॥

अधारयदिति । यः विविधाः चित्राः सुमनसः स्रजः पुरा अधारयत् सः राघवः इमं जटाभारं कथं सहते ॥ ९९।३३ ॥

यस्येति । यथादिष्टैः विधिवदनुष्ठितैः यस्य यज्ञैः धर्मसञ्चयो युक्तः योग्यः सः शरीरक्लेशसम्भूतं धर्मं परिमार्गते ॥ २।९९।३४ ॥

चन्दनेनेति । महार्हेण अतिप्रशंसनीयेन चन्दनेन यस्याङ्गमुपसेवितं तस्याङ्गं मलेन कथं सेव्यते ॥ २।९९।३५ ॥

यदिति । अहमेव निमित्तं यस्मिन् तद्दुःखं रामः प्राप्तः अतः नृशंसस्य मम लोकविगर्हितं जीवितं धिक् ॥ २।९९।३६ ॥

इतीति । प्रस्विन्नमुखपङ्कजो भरतः इत्येवं विलपन्सन् रामस्य पादौ अप्राप्य रुदन् सन् पपात ॥ २।९९।३७ ॥

दुःखेति । दीनं यथा स्यात्तथा हे आर्येति सकृदुक्त्वा पुनः किञ्चन नोवाच ॥ २।९९।३८ ॥

वचनाभावे हेतुं वदन्नाह– बाष्पैरिति । रामं प्रेक्ष्य बाष्पैः पिहितकण्ठो भरतो व्याहर्तुं वक्तुं नाशकत् ॥ २।९९।३९ ॥

शत्रुघ्न इति । शत्रुघो रुदन् सन् ववन्दे, उभौ तौ शत्रुघ्नरामौ समालिङ्ग्य अतिष्ठतामिति शेषः, रामो ऽपि अश्रूणि अवर्तयत् अत्यजत् ॥ २।९९।४० ॥

तत इति । राजसुतौ रामलक्ष्मणौ सुमन्त्रेण गुहेन च समीयतुः आलिलिङ्गतुः, तत्र दृष्टान्तः अम्बरे आकाशे दिवाकरो निशाकरश्च शुक्रबृहस्पतिभ्यां यथा ॥ २।९९।४१ ॥

तानिति । महत्यरण्ये समागतान्वारणयूथपार्हांस्तारामादीन् पार्थिवान् राजपुत्रान् वनौकसः समीक्ष्य हर्षं दर्शनजनितानन्दं प्रविहाय सन्त्यज्य अश्रूणि अमुञ्चन् ॥ २।९९।४२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे नवनवतितमः सर्गः ॥ २।९९ ॥