भरतवृत्तान्तमाह– निवेश्येति । पादवतां वरः द्विपदानां श्रेष्ठः भरतः सेनां निवेश्य यथोचितं संस्थाप्य गुरुवर्तकं पितृवचनपरिपालकं राममभिगन्तुमियेष ॥ २।९८।१ ॥
निविष्टेति । यथोद्देशं भरतोपदेशमनतिक्रम्य सैन्ये निविष्टमात्रे सति भरतः शत्रुघ्नमब्रवीत् ॥ २।९८।२ ॥
तद्वचनाकारमाह– क्षिप्रमिति । लुब्धैः निषादैः सहितैरेभिर्नरसङ्घैः स्वभृत्यसमूहैः इदं वनं क्षिप्रमन्वेषितुमर्हसि ॥ २।९८।३ ॥
गुह इति । ज्ञातिसहस्रेण परिवृतो गुहः अस्मिन्वने काकुत्स्थौ रामलक्ष्मणौ समन्वेषतु ॥ २।९८।४ ॥
अमात्यैरिति । अमात्यादिभिः परिवृतः स्वयमहं सर्वं वनं चरिष्यामि ॥ २।९८।५ ॥
यावदिति । यावन्न द्रक्ष्यामि तावत्कालं मे शान्तिर्न भविष्यति ॥ २।९८।६ ॥
तदेव भङ्ग्यन्तरेणाह– यावदिति । चन्द्रसङ्काशं चन्द्रसदृशम् ॥ २।९८।७ ॥
यावदिति । पार्थिवव्यञ्जनान्वितौ पार्थिवव्यञ्जनैः पार्थिवचिह्नैः रेखाध्वजकुलिशापतत्रादिभिः अन्वितौ भ्रातुश्चरणौ यावच्छिरसा न प्रग्रहीष्यामि तावच्छान्विर्न भविष्यति ॥ २।९८।८ ॥
यावदिति । यावन्नाभिषिक्तः तावच्छान्तिर्न ॥ २।९८।९ ॥
सिद्धार्थ इति । यः सौमित्रिर्लक्ष्मणः रामस्य मुखं पश्यति स सिद्धार्थः ॥ १८।१० ॥
कृतकृत्येति । या वैदेही सागरान्तायाः पृथिव्याः भर्तारमनुगच्छति सा कृतकृत्या कृतार्था ॥ २।९८।११ ॥
स्विति । यस्मिन् काकुत्स्थो रामो वसति सो ऽसौ चित्रकूटः सुशुभः अत्यन्तं शुभकारकः ॥ २।९८।१२ ॥
कृतेति । यन्महाराजो रामः अध्यास्ते तदिदं वनं कृतकार्यम् ॥ २।९८।१३ ॥
एवमिति । महाबाहुर्भरतः एवमुक्त्वा पद्भ्यामेव महद्वनं प्रविवेश ॥ २।९८।१४ ॥
स इति । गिरिसानुषु जातानि द्रुमजालानि द्रुमसमूहान् मध्येन वदतां वरो भरतः जगाम ॥ २।९८।१५ ॥
स इति । स भरतः चित्रकूटस्य सालं वृक्षविशेषमारुह्य रामाश्रमगतस्य अग्नेर्ध्वजं धूमं ददर्श ॥ २।९८।१६ ॥
तमिति । तं धूमं दृष्ट्वा अत्रैव राम इति ज्ञात्वा अम्भसो ऽगाधजलस्य पारं गत इव मुमोद ॥ २।९८।१७ ॥
स इति । स भरतः पुण्यजनैर्महात्मभिः उपपन्नं सेवितं रामाश्रमं निशम्य चमूमन्वेषणार्थं सहागतसैन्यं पुनर्निवेश्य संस्थाप्य गुहेन सार्धं त्वरितः सन् जगाम ॥ २।९८।१८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टनवतितमः सर्गः ॥ २।९८ ॥