रामोक्तिं वर्णयितुमुपक्रमते– सुसंरब्धमिति । भरतमवलोक्य सुसंरब्धं शत्रुभ्रमाद्युद्धोद्योगवन्तमत एव क्रोधमूर्छितं लक्ष्मणं परिसान्त्व्य इदं वचनमब्रवीत् ॥ २।९७।१ ॥
तद्वचनाकारमाह– किमिति । अत्र अस्मिन्समये धनुरादिना किं कार्यम् । ननु शत्रुनिवारणार्थमपेक्षितमित्यत आह– महोत्साहः अस्मद्दर्शनविषयकौत्सुक्यविशिष्टः महाबलो भरत एव स्वयमागतः एवेन शत्र्वागमनव्यवच्छेदः ॥ २।९७।२ ॥
नन्वेवं चेद्राज्यपरिपालनार्थमयोध्यागमनोद्योगः कर्तव्य इत्यत आह– पितुरिति । आहवे राक्षससङ्ग्रामार्थं पितुः सत्यं चतुर्दशवर्षपरिमितवनवासबोधकवाक्यं प्रतिश्रुत्य करिष्यामीति प्रतिज्ञाय सापवादेन निन्दासहितेन राज्येन इदानीं राज्यग्रहणेन हत्वा निवर्त्य च भरतं किं करिष्यामि सापवादपुरुषस्य स्वजनादिप्राप्तिरपि दुःखदैवेति तात्पर्यम् ॥ २।९७।३ ॥
यदिति । बान्धवानां मित्राणां वा क्षये तदीयत्वेन स्वीकारिते राज्यादौ यद्द्रव्यं भवेत् उत्पद्येत तदहं न प्रतिगृह्णीयां, तत्र दृष्टान्तः विषकृतान् विषमिश्रितान् भक्ष्यानिव ऐतेनेदानीं राज्यग्रहणे दत्तापहारदोषो ऽप्यापतिष्यतीति सूचितम् ॥ २।९७।४ ॥
वस्तुतस्तु स्वार्थं किञ्चिन्न स्वीकुर्म इत्याह– धर्ममिति । भवतामर्थे एव धर्मादिकमिच्छामि एतत्प्रतिश्रृणोमि प्रतिजानामि ॥ २।९७।५ ॥
तदेव द्रढयन् भङ्ग्यन्तरेणाह– भ्रातृ़णामिति । सङ्ग्रहार्थं स्वसमीपस्थापनार्थं सुखार्थं च राज्यमिच्छामि सत्येन सत्यत्वेन बोधनार्थमायुधमालभे शपथविधिना स्पृशामि ॥ २।९७।६ ॥
नेति । इयं मही शक्रत्वं च मम दुर्लभा दुर्लभं च न यत् यस्मै इच्छेयं तत्तस्मै दद्यामित्यर्थः, तथापि अधर्मेण हेतुना नेच्छेयं यथेच्छं दातुमिति शेषः । दुर्लभेति लिङ्गविपरिणामेनान्यत्राप्यन्वेति ॥ २।९७।७ ॥
भरतादिपरिपालनमेव नित्यं ममेप्सितमिति बोधयन्नाह– यदिति । यत्किञ्चित्सुखं भरतादीन् विना भरतादिसम्बन्धशून्यं सत् भवेत् प्राप्तियोग्यतां प्राप्नुयात्तत्सुखं शिखी वह्निः भस्म कुरुताम् ॥ २।९७।८ ॥
मन्य इति । अयोध्यामागतः स्नेहेनाक्रान्तहृदयो भरतः मां प्रव्राजितं श्रुत्वा शोकेनाकुलितेन्द्रियः सन् मां द्रष्टुमागतः इत्यहं मन्ये निश्चिनोमि, एतेनानयनार्थकत्वमपि तस्य सूचितम् । ननु आनयनार्थमागतस्य भरतस्येप्सितभङ्गे बलात्कारेणाप्यानेष्यतीति सावधानतया भवितव्यमित्यत आह– अन्यथा बलात्कारेण मां नेतुमागतः । श्लोकत्रयमेकान्वयि ॥ २।९७।९।११ ॥
भरतस्नेहमेव दृढीकुर्वन्नाह– अम्बामिति । अप्रियं रामप्रव्राजनं मम प्रीतिविरोधीति वदन् सन् कैकेयीमम्बां रुष्य प्रव्राजनहेतुत्वेन किञ्चित्परुषमुक्त्वेत्यर्थः, अपितरं पितृरहितं मां प्रसादी प्रसादनशीलः सन् मे राज्यं दातुमागतः ॥ २।९७।१२ ॥
प्राप्तेति । प्राप्तः कालः अनेकविधोपदेशो यस्मात्तं मां प्राप्तेति शेष्ाः, यथा यथावत् अस्मान् द्रष्टुमर्हति अस्मासु मनसापि अप्रियं बलात्कारेणायोध्यानयनं नाचरेत्, प्राप्तं कालं प्राप्तोपदेशो यथा भवति तथेति क्रियाविशेषणं वा ॥ २।९७।१३ ॥
विप्रियमिति । यद्यस्माद्बलात्कारानयनाद्धेतोः अभयं भयनिवर्तकं मदीयत्वं विशङ्कसे तदीदृशं विप्रियं बलात्कारकरणं कदानु कदापि भरतेन कृतपूर्वं किं नेत्यर्थः ॥ २।९७।१४ ॥
नहीति । निष्ठुरं परुषमप्रियं प्रियविरोधि वचः त्वया भरतो न वाच्यः । तत्र हेतुः– भरतस्य अप्रिये त्वत्कर्तृकाप्रियाचरणे कृते वचनेनापि सम्पादिते सति अहमप्रियं त्वद्विषयकप्रीत्यभाववान् स्याम् ॥ २।९७।१५ ॥
भरतविरोधस्यायोग्यत्वं बोधयन्नाह– कथमिति । प्राणं प्राणवत्प्रियं पितरं पुत्राः कथं हन्युः दुरुक्त्या ताडयेयुः, भ्राता भ्रातरं वा कथं हन्यान्न सम्भवतीत्यर्थः ॥ २।९७।१६ ॥
यदीति । यदि राज्यस्य हेतोः इमां सावधानभवनार्थिकामहितां वाचं प्रभाषसे तदा भरतं दृष्ट्वा अस्मै लक्ष्मणाय राज्यं प्रदीयतामिति भरतं वक्ष्यामि ॥ २।९७।१७ ॥
ननु ततः किमित्यत आह– उच्यमान इति । अस्मै लक्ष्मणाय राज्यं प्रयच्छ देहि इति वचः मया उच्चमानो भरतः बाढमङ्गीकृतमित्येव मंस्यते क्षिप्रं दास्यतीत्यर्थः, एतेन अप्रियं नैव वक्तव्यमिति सूचितम् ॥ २।९७।१८ ॥
तथेति । धर्मशीलेन भ्रात्रा तथोक्तः लक्ष्मणः लज्जया स्वानि गात्राणि प्रविवेश इव अत्याकुञ्चितस्वशरीरः सन् तस्थावित्यर्थः, एतेन सेनालिङ्गकानुमानेन भरते लक्ष्मणशङ्का जातेति ध्वनितम् ॥ २।९७।१९ ॥
तदिति । लक्ष्मणः तद्वाक्यं श्रुत्वा व्रीडितः सन् प्रत्युवाच, तद्वचनाकारमाह– त्वां द्रष्टुं पिता दशरथः एव स्वयमायातः इति भरतमहं मन्ये, एतेन अप्रियं प्रवदिष्यामीति सूचितम् ॥ २।९७।२० ॥
व्रीडितमिति । राघवो रामः प्रत्युवाच व्रीडादूरीकारकवचनमुच्चारयामासेत्यर्थः । तत्प्रवचनाकारमाह– अस्मान्द्रष्टुमागतः एष भरतः महाबाहुर्दशरथः सत्कारार्हत्वेन दशरथसदृशः इति मन्ये तेनोचितमेव त्वयोक्तमिति सूचितम् ॥ २।९७।२१ ॥
अथेति । नौ आवां सुखोचितौ मन्यमानः भरतः वनवासं वनवासक्लेशमनुध्याय सञ्चिन्त्य गृहाय अथ प्रतिनेष्यति माङ्गलिकानयनानुकूलव्यापारं करिष्यति इत्यहं मन्ये ॥ २।९७।२२ ॥
इमामिति । एषः भरतः मे वैदेहीं पिता इव आदाय आनयनानुकूलव्यापारं कृत्वा यास्यति । चशब्द इवार्थे ॥ २।९७।२३ ॥
भरतशत्रुघ्नागमनचिह्नं बोधयन्नाह– एताविति । गोत्रवन्तौ प्रशस्तकुलौ वायुवेगसमौ वायुवेगसदृशवेगवन्तौ जवनौ जं मृत्युञ्जयत्वं वनतो रचयतः तौ स्वारोहकमृत्युप्रहारकलक्षणवन्तावित्यर्थः, अत एव न पौनरुक्त्यम्, एतौ तुरगोत्तमौ सम्प्रकाशेते “जो ना मृत्युञ्जये जन्यां तातमात्रे जनार्दने” इति मेदिनी ॥ २।९७।२४ ॥
इदानीं राजागमनचिह्नं बोधयन्नाह– स इति । सुमहाकायः अतिबृहच्छरीरः वृद्धः वयोधिकः शत्रुञ्जयों नाम तातस्य नागो हस्ती वाहिनीमुखे सेनाग्रे कम्पते शनैश्चलति राजाप्यागच्छतीत्यनुमीयते इति तात्पर्यम् ॥ २।९७।२५ ॥
इदानीं राजानागमनचिह्नं बोधयन्नाह– नेति । लोकविश्रुतं सर्वत्र प्रसिद्धं पाण्डुरं तद्दिव्यं पितुः छत्रं न पश्यामि अत इह अस्मिन् विरुद्धदर्शनद्वये मे अतीव संशयो भवति ॥ २।९७।२६ ॥
वृक्षेति । हे लक्ष्मण वृक्षाग्रादवरोह इतीव इति वचः रामः सौमित्रिमुवाच ॥ २।९७।२७ ॥
अवतीर्येति । शालाग्रादवतीर्य समितिञ्जयः सङ्ग्रामतेजा लक्ष्मणः रामस्य पार्श्वतः पार्श्वे तस्थौ ॥ २।९७।२८ ॥
भरतेनेति । संमर्दो बाधा न भवेदिति भरतेनादिष्टा सेना शैलस्य समन्ताद्वासमकल्पयत् ॥ २।९७।२९ ॥
अध्यर्धमिति । पर्वतस्य पार्श्वे अध्यर्धं योजनं षट्षट्क्रोशानावृत्त्य गजवाजिरथाकुला इक्ष्वाकुचमूः न्यविशत् ॥ २।९७।३० ॥
सेति । धर्मं पुरस्कृत्य प्रवर्त्य दर्पं भटादीनां गर्वं विधूय त्याजयित्वा नीतिमता भरतेन प्रणीता
शिक्षिता सा सेना चित्रकूटे रघुनन्दनस्य रामस्य प्रसादनार्थं विरोचते ॥ २।९७।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तनवतितमः सर्गः ॥ २।९७ ॥