मन्दाकिनीदर्शनानन्तरकालिकं वृत्तान्तमाह– तामित्यादिभिः । गिरिनिम्नगां तां मन्दाकिनीं मैथिलीं दर्शयित्वा मांसेन तापसोपभोग्यफलादिना सीतां छन्दयन् तत्प्रीतिमुत्पादयन् सन् गिरिप्रस्थे पर्वतैकशिलायां निषसाद ॥ २।९६।१ ॥
छन्दनप्रकारं निरूपयन्नाह– इदमिति । इदं फलं मेध्यं शुद्धमत एव इदमग्निना निष्टप्तमेवमुक्त्वा सीतया सह धर्मत्मा राघवः आस्ते ॥ २।९६।२ ॥
तथेति । तत्र शैलप्रस्थे तथा तेन प्रकारेण आसतः तिष्ठतस्तस्य रामस्य समीपे उपयायिनः रामसमीपमागच्छतः भरतस्य नभस्पृशौ सैन्यरेणुः शब्दः सैन्यस्वनश्च प्रादुरास्ताम् ॥ २।९६।३ ॥
एतस्मिन्निति । एतस्मिन्नन्तरे सैन्यरेणुशब्दप्रादुर्भावसमये ततः महता सेनाशब्देन अर्दिताः मनोव्यथां प्राप्ताः सयूथाः यूथसहिताः मत्ताः यूथपाः दिशः दुद्रुवुः ॥ २।९६।४ ॥
स इति । सैन्यसमुद्धूतं तं शब्दं राघवो रामः शुश्राव विद्रुताँस्तान्यूथपानन्ववैक्षत अवालोकत च ॥ २।९६।५ ॥
तानिति । विप्रद्रुतान् तान्यूथपान्दृष्ट्वा तं महास्वनं च श्रुत्वा रामः दीप्ततेजसं लक्ष्मणमुवाच ॥ २।९६।६ ॥
तद्वचनाकारमाह– हन्तेति । हे लक्ष्मण कौसल्या सुप्रजास्त्वमिह पश्य । ननु किं पश्यामि इत्यत आह– भीमं भयङ्करं स्तनितं मेघशब्दः तद्वद्गम्भीरं यथा स्यात्तथा तुमुलः स्वनः त्वया हन्त श्रूयते । एतेन एतच्छब्दकारणं त्वया निश्चीयतामिति सूचितम् ॥ २।९६।७ ॥
शब्दस्य भयङ्करत्वे हेतुं वदन्नाह गजेति । महावने सिंहैर्वित्रासिता इव गजयूथप्रभृतयः अरण्ये अस्मिन्वने दिशः प्रद्रुता एको वा इवार्थे । एतेन सकारणकमेवेदमिति सूचितम् ॥ २।९६।८ ॥
कारणमेव बोधयन्नाह– राजेति । राजा मृगयामटते राजपुत्रो वा अटते अन्यत्किञ्चिच्छ्वापदं वा हे सौमित्रे एतत्सर्वं ज्ञातुं निश्चेतुं त्वमर्हति ॥ २।९६।९ ॥
कश्चिन्महान् प्रबलो ऽयमागत इति सूचयन्नाह– सुदुश्चर इति । हे लक्ष्मण पक्षिणां देशान्तरवर्तिखगानामपि अयं गिरिः सुदुश्चरः किञ्च अयं गिरिः पक्षिणां सहाययुक्तानामपि सुदुश्चरः स्वतन्त्रतया चरितुमशक्यः अत एतत्सर्वं यथातत्त्वं याथार्थ्यमनतिक्रम्य विज्ञातुं निश्चेतुं त्वर्महसि ॥ २।९६।१० ॥
स इति । सः रामेणानुज्ञातः संत्वरितो लक्ष्मणः पुष्पितं शालं वृक्षविशेषमारुह्य दिशः प्रेक्षमाणः सन् पूर्वां दिशमवैक्षत ॥ २।९६।११ ॥
उदङ्मुख इति । प्रेक्षमाणः गजादिभिः सम्बाधां निबिडां यत्नैः अतिप्रयत्नैः पदातिभिः युक्तां महतीं चमूं ददर्श ॥ २।९६।१२ ॥
तामिति । अश्वादिभिः सम्पूर्णां रथध्वजविभूषितां तां सेनां रामाय शशंस महती सेनेयमिति कथयामास इदं वचनं चाब्रवीत् ॥ २।९६।१३ ॥
तद्वचनाकारमाह– अग्निमिति । अग्निमग्न्याकारसेनाक्रोधमार्यो भवान् संशमयतु । संशमनप्रकारमाह– सीता गुहां भजतां प्राप्नोतु चापं सज्यं ज्यासहितं कुरुष्व शरान् कवचं च गृहाणेति शेषः ॥ २।९६।१४ ॥
तमिति । पुरुषव्याघ्रो रामः लक्ष्मणं प्रत्युवाच । तद्वचनाकारमाह– हे अङ्ग हे सौमित्रे इमां चमूं कस्य मन्यसे न कस्यापि मन्ये इति चेदवेक्षस्व अवधारय ॥ २।९६।१५ ॥
एवमिति । रामेण एवमुक्तो लक्ष्मणस्तां सेनां सेनाहेतुकभीतिं रुषितो दाहक इत्यर्थः, पावक इव दिधक्षन्सन् यथा यथावत् अब्रवीत् सेनाशब्दः अर्शआद्यजन्तः ॥ २।९६।१६ ॥
तद्वचनाकारमाह– सम्पन्नमिति । प्राप्य त्वामयोध्यां प्रापय्य राज्यं सम्पन्नं सम्पत्तिविशिष्टमिच्छन् अभिषेचनं भवतो ऽभिषेकं च इच्छन्नावामासमन्तादिन्द्रियशोषकं भवद्वियोगजनितशोकमित्यर्थः, हन्तुं दूरीकर्तुं केकय्याः सुतो भरतः समभ्येति आगच्छति । आवामित्यत्र शोषणार्थक “ओवै” धातो रूपम् ॥ २।९६।१७ ॥
तत्र ज्ञापकमाह– एष इति । एषः महान् अत्युन्नतः श्रीमान् पुष्पफलादिसम्पन्नः विटपी वृक्षः सम्प्रकाशते तत्र विद्यमाने रथे उज्ज्वलस्कन्धकोविदारध्वजः विराजति । वैशब्दस्तत्रार्थे । एतेन भरतसेनैवेषेति सूचितम् ॥ २।९६।१८ ॥
भजन्तीति । सादिनः अश्वारोहाः एते शीघ्रगानश्वान् यथाकाममारुह्य भजन्ति अस्मिन् स्थाने तिष्ठन्तीत्यर्थः, एते सादिनो गजारोहा गजान् आरुह्य संहृष्टाः सन्तो भजन्ति ते ऽपि तत्रैव तिष्ठन्तीत्यर्थः ॥ २।९६।१९ ॥
इदानीं भरतान्यसत्वे स्वकर्तव्यं प्रार्थयन्नाह– गृहीतेति । हे वीर गृहीतधनुषावावां गिरिं श्रयावहे अथवा सन्नद्धौ धृतकवचौ उद्यतायुधौ आवामिहैव तिष्ठावः यथेच्छमाज्ञापयेत्यर्थः ॥ २।९६।२० ॥
नन्वायुधधारणादेः किं प्रयोजनमित्यत आह– अपीति । विदारः सज्जनहृदयविदारको ध्वजो यस्य स कः कस्यचित्सम्बन्धीत्यर्थः, रथः रणे नौ आवयोः वशमागच्छेत् यत्कृते यत्प्रयत्ने सति महद्व्यसनं रहस्यसम्भाषणभङ्गजनितदुःखं त्वया सीतया च सम्प्राप्तमत एव मयापि सम्प्राप्तं यन्निमित्तं यद्राक्षसवधकारणाच्छाश्वतात् निरन्तरभोग्यात् राज्यात् भवान् च्युतः इह प्राप्तः तं भरतं पृथ्वीभारविस्तारकं किञ्च भीः भयमस्ति अस्मिन् कर्मणि तत्र रतं रतिर्यस्य तं सत्पुरुषेभ्यो ऽतिभयप्रदातारमित्यर्थः, राक्षसं द्रक्ष्याम द्रक्ष्यामः । श्लोकद्वयमेकान्वयि ॥ २।९६।२१,२२ ॥
दर्शनेति प्रयोजनमाह– समिति । भरतः इह मद्गमनजनितभाराद्यदि अरिः राक्षसादिः सम्प्राप्तः तर्हि स वध्य एव । ननु ब्रह्मचर्ये स्थितत्वात् कथमस्मत्कर्तृको वध इत्यत आह– हे राघव भरतस्य पृथ्वीभारविस्तारकस्य अपराधिनो जनस्य वधे अहं दोषं न पश्यामि ॥ २।९६।२३ ॥
तदेव भङ्ग्यन्तरेणाह– पूर्वेति । पूर्वापकारिणं पौर्वकालिकापकारविशिष्टं हत्वा अधर्मेण न युज्यते अधर्मः ते न प्राप्नोतीत्यर्थः । एतस्य पूर्वापकारित्वं तु मुन्यादिवधादिकर्तृत्वेन । ननु वधादिकर्तृत्वं प्रधानस्यैवेति सर्वे न पूर्वापराधिन इति तद्वधो ऽनुचित एव तद्वधाभावे कथं तदधिपतेर्वधः इत्यत आह– पूर्वापकारिणः इमं कामं भरतः पालयतः पुरुषस्यापि त्यागे वधाकरणे अधर्मः । एतेन राक्षससैन्यं चेन्निहन्तव्यमेवेति सूचितम् ॥ २।९६।२४ ॥
एतस्मिन्निति । हस्तिभिन्नं द्रुममिव यथा स्यात्तथा एतस्मिन् राक्षससैन्ये निहते सति कृत्स्नां वसुन्धरामनुशाधि पालय अद्य ससैन्यराक्षसवधोत्तरकाले राजि स्वकर्तृकपालनजनितदीप्तौ अकामुका इच्छारहिता अत एव दुःखार्ता राज्यपालकाभावहेतुकदुःखवती कैकेयी सङ्ख्ये सम्यक् ख्याः ख्यातिर्यस्य तस्मिन् सेवकोचितज्ञाने विद्यमानं तं पुत्रं भरतं मया सहैव पश्येत् । एतेन ससैन्यराक्षसवधे वनवासस्य न प्रयोजनमिति व्यञ्जितम् । हशब्द एवार्थे । सार्धश्लोक एकान्वयी ॥ २।९६।२५ ॥
ननु वननिवासमन्तरा मन्थरायाः सन्तोषो न भवितेत्यत आह– कैकेयीमिति । सानुबन्धामाग्रहविशिष्टां सबान्धवां तद्बान्धवसहितां कैकेयीं मन्थरामहं वधिष्यामि तदा गृहं निवर्तयिष्यामीत्यर्थः ॥ २।९६।२६ ॥
राक्षसवधो ऽवश्यं कर्तव्य इति बोधयन्नाह– कलुषेणेति । कलुषेण पापेन मेदिनी पृथ्वी
परिमुच्यताम् । अर्धं पृथक् । भवदाज्ञामात्रेणैव सर्वं सेत्स्यतीति बोधयन्नाह– अद्येति । हे मानद असत्कारमसदपि कारयति तं किञ्च न सत्कारः रिपुसत्कृतिर्येन तं, किञ्च असतां कारो विनाशो येन तं संयतं निरोधितमिमं क्रोधं शत्रुसैन्येषु मोक्ष्यामि, तत्र दृष्टान्तः कक्षेषु हुताशनं वह्निमिव । अर्धद्वयमेकान्वयि ॥ २।९६।२७ ॥
अद्येति । निशितैः शरैः शत्रुशरीराणि छिन्दन् सन् चित्रकूटस्य काननं शोणितोक्षितं कुञ्जरान् तुरगांश्च शरैर्निर्भिन्नहृदयान् करिष्ये ॥ २।९६।२८२९ ॥
श्वापदा इति । मया निहतान्नरान् नरसदृशान् राक्षसानित्यर्थः, श्वापदाः श्रृगालादयः परिकर्षन्तु अहं तु अस्मिन् महावने ससैन्यं सैन्यसहितं भरतं भीर्भयमस्ति अस्मिन्कर्मणि तत्र रतं रतिर्यस्य तं सत्पुरुषेभ्यो ऽतिभयप्रदातारं राक्षसगणमित्यर्थः, हत्वा शराणां धनुषश्च अनृणः ऋणरहितो भविष्यामि । सार्धश्लोक एकान्वयी ॥ २।९६।३० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षण्णवतितमः सर्गः ॥ २।९६ ॥