शैलविनिष्क्रमणानन्तरकालिकरामोक्तिं वर्णयितुमाह– अथेति । अथ शैलशोभाप्रदर्शनानन्तरं कोशलेश्वरो रामः शैलाद्विनिष्क्रम्य निर्गत्य मन्दाकिनीमदर्शयत् ॥ २।९५।१़ ॥
अब्रवीदिति । वरो ऽद्रुतः आरोहः प्रादुर्भावो यस्यास्तां विदेहराजस्य सुतां रामो ऽब्रवीत् ॥ २।९५।२ ॥
तद्वचनाकारमाह– विचित्रेति । विचित्राणि पुलिनानि यस्यां तां हंसादिसेवितां कुसुमैः पुष्पैः उपसम्पन्नां युक्तां तीररुहैः तीरजनितैः पुष्पफलद्रुमैः सर्वतो वृतां राजराजस्य कुबेरस्य नलिनीं सौगन्धिकसरसीमिव दशरथस्य सरयूमिव वा राजन्तीं मन्दाकिनीं नदीं पश्य । श्लोकद्वयमेकान्वयि ॥ २।९५।३,४ ॥
मृगेति । मृगयूथैर्निपीतानि अत एव कलुषाणि अम्भांसि येषु तानि अत एव रमणीयानि तीर्थानि अवताराध्वानः मे रतिं सञ्जनयन्ति ॥ २।९५।५ ॥
जटेति । जटाजिनधराः जटाश्च अजिनानि मृगत्वचश्च तेषां धराः धारकाः वल्कलान्येवोत्तरवासांसि येषां ते ऋषयः काले मन्दाकिनीमवगाहन्ते ॥ २।९५।६ ॥
आदित्यमिति । हे विशालाक्षि नियमात् शास्त्रोक्तनियोगाद्धेतोः ऊर्ध्वबाहवः परे पूर्वोक्तात् भिन्ना संशितव्रताः मुनयः आदित्यमुपतिष्ठन्ते ॥ २।९५।७ ॥
मारुतेति । मारुतेन वायुना उद्धूतानि शिखराणि शिखाः येषां तैः अत एव नदीमभितः सर्वतः पुष्पपत्राणि सृजद्भिः विसृजद्भिः पादपैर्वृक्षैः उपलक्षितः पर्वतः प्रनृत्तः नृत्यप्रारम्भं वा आस्तेति (?) शेषः ॥ २।९५।८ ॥
क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे मणिनिकाशोदां मुक्तासदृशजलां क्वचित् पुलिनशालिनीं पुलिनाश्रयाम् अगाधजलवत्तया नीलजलात्वेन प्रतीयमानामित्यर्थः, क्वचित् सिद्धजनैः आकीर्णां व्याप्तां मन्दाकिनीं पश्य ॥ २।९५।९ ॥
निर्धूतानिति । वायुना निर्धूतानत एव विततान् नद्युभयकूले व्याप्तान् पुष्पसञ्चयान् त्वं पश्य अपरान् त्वं पश्य भिन्नान् पोप्लूयमानान् पुनः पुनर्जले प्लवमानान् त्वं पश्य ॥ २।९५।१० ॥
पश्येति । वल्गुवचसः मनोहरवाचः अत एव शुभाः गिरः निष्कूजन्तः रथाङ्गाह्वयनाः रथाङ्गम् आह्वयनं सञ्ज्ञा येषां ते चक्रवाका द्विजाः पक्षिणः अधिरोहन्ित पुलिनमिति शेषः, त्वं पश्य ॥ २।९५।११ ॥
दर्शनमिति । हे शोभने चित्रकूटस्य मन्दाकिन्याश्च दर्शनं तव दर्शनात् एकान्ते निरन्तरं समावलोकाद्धेतोः पुरवासात् अयोध्यावाससुखात् अधिकं मन्ये ॥ २।९५।१२ ॥
विधूतेति । तपोदमसमन्वितैः तपआदियुक्तैः अत एव विधूतकल्मषैः सिद्धैः नित्यविक्षोभितजलां नित्यं विक्षोभितमवगाहितं जलं यस्यास्तां मन्दाकिनीं मया सह विगाहस्व ॥ २।९५।१३ ॥
सखीवदिति । हे सीते कमलानि रक्तपद्मानि पुष्कराणि सितपद्मानि च अवमज्जन्ती जले निमज्जयन्ती सती सखीवत् विद्यमानां मन्दाकिनीं नदीं त्वं विगाहस्व । निमज्जयन्तीत्यनेन तत्रत्यजलस्य कमलाछाद्यत्वं ध्वनितम् ॥ २।९५।१४ ॥
त्वमिति । व्यालान् वनचरान् पौरजनवत् मन्यस्व अयोध्यामिव पर्वतं मन्यस्व सरयूमिव मन्दाकिनीं मन्यस्व ॥ २।९५।१५ ॥
लक्ष्मण इति । मन्निदेशे आज्ञायां व्यवस्थितः संस्थितः लक्ष्मणः अनुकूला त्वं च मम प्रीतिं जनयथः ॥ २।९५।१६ ॥
उपस्पृशन्निति । त्वया सह त्रिषवणं त्रिकालमुपस्पृशन् स्नानं कुर्वन्सन्
मधुमूलफलाशनो ऽहमयोध्यायै राज्याय च न स्पृहये ॥ २।९५।१७ ॥
इमामिति । गजयूथलोडितां गजयूथैः लोडितां गजादिभिः पीततोयां सुपुष्पितां शोभनपुष्पविशिष्टतरुमतीम् अत एव पुष्पभरैः अलङ्कृतामिमां रम्यां मन्दाकिनीमवगाह्य गतक्लमः निवृत्तग्लानिः अत एव सुखी परमानन्दविशिष्टः यो न स्यात् स जनो नास्ति ॥ २।९५।१८ ॥
इतीति । प्रियासहायः प्रियैव सहायो यस्य स रामः इतीव एतादृशं बहु अनेकविधं सङ्गतं समीचीनं सरितं प्रति सरित्सम्बन्धि वचः ब्रुवन्सन्नयनाञ्जनप्रभं नीलवर्णविशिष्टमित्यर्थः, चित्रकूटं चचार ॥ २।९५।१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ २।९५ ॥