रामवृत्तान्तमाह– दीर्घेत्यादिभिः । गिरिवरप्रियः अत एव तस्मिन् चित्रकूटे गिरौ दीर्घकालोषितः त्रीन् मासान् उषितः अमरसङ्काशः दाशरथिः रामः वैदेह्याः प्रियं प्रीतिमाकाङ्क्षन् स्वं चित्तं च विलोभयन् वनवासे नियोजयन् सन् चित्रमनेकविधाश्चर्यविशिष्टं चित्रकूटं शचीं पुरन्दर इव भार्यामदर्शयत् । श्लोकद्वयमेकान्वयि ॥ २।९४।१,२ ॥
दर्शनप्रकारं बोधयन्नाह– नेति । हे भदे राज्यभ्रंशनं राज्यत्यागः गिरिं दृष्ट्वा विद्यमानस्य मे मनो न बाधते सुहृद्भिर्विनाभवः स्थितिश्च न बाधते ॥ २।९४।३ ॥
पश्येति । नानाद्विजगणैः आयुतं व्याप्तं खमाकाशमुद्विद्धैः छिद्रकारकैरिव धातुमद्भिः अनेकधातुविशिष्टैः शिखरैर्विभूषितमिममचलं पर्वतं पश्य ॥ २।९४।४ ॥
केचिदिति । क्षतजसन्निभाः रुधिरारुण्यसदृशारुण्यविशिष्टाः केचित्पीतमाञ्िजष्ठवर्णाः पीतमाञ्जिष्ठसदृशवर्णवन्तः मणिवरप्रभाः इन्द्रनीलमणि प्रभासदृशप्रभावन्तः केचित् पुष्यार्ककेतकाभाः पुष्पः पुष्परागः अर्कः स्फटिकः “अर्कः स्फटिकसूर्ययोः” इत्यमरः । केतकानि केतकपुष्पाणि तत्सदृशाः केचिज्ज्योतीरसप्रभाः ज्योतींषि तारागणाः रसः पारदः तादृशप्रभावन्तः धातुविभूषिताः अचलेन्द्रस्य देशाः प्रदेशाः विराजन्ते । श्लोकद्वयमेकान्वयि ॥ २।९४।५६ ॥
नानेति । अदुष्टैर्दुष्टतात्यागिभिः, तत्र द्वीपिनो महाव्याघ्राः तरक्षवः क्षुद्रव्याघ्रास्तेषां गणैः समूहैश्च वृतः अयं शैलो भाति ॥ २।९४।७ ॥
आम्रेति । पुष्पवद्भिः पुष्पविशिष्टैः फलोपेतैः फलयुक्तैः छायावद्भिः अतिशयछायाविशिष्टैः अत एव मनोरमैः आम्रादिभिः एवमादिभिरन्यैरपि आकीर्णः व्याप्तः अयं गिरिः श्रियं पुष्यति वर्धयतीत्यर्थः । तत्राम्रजम्ब्वौ प्रसिद्धौ असनः पीतशाकः, प्रियालः राजादनः, अङ्कोलादयो वृक्षविशेषाः । श्लोकत्रयमेकान्वयि ॥ २।९४।८१० ॥
शैलेति । रम्येषु शैलप्रस्थेषु शैलप्रस्तरेषु कामहर्षणान् यथेच्छं हर्षविशिष्टान् द्वन्द्वशो रममाणान् किन्नरान्पश्य ॥ २।९४।११ ॥
शाखेति । शाखावसक्तान् शाखाश्रितान् खड्गान् विद्याधराणामसीन् विद्याधरस्त्रीणां प्रवराण्यम्बराणि च मनोरमान् क्रीडोद्देशान् विहारदेशांश्च पश्य ॥ २।९४।१२ ॥
जलेति । स्रवद्भिः वहद्भिः जलप्रपातैः उन्नतदेशादधोदेशे निपतितैर्महानिर्झरैरित्यर्थः, उद्भेदैः भुवमुद्भिद्य निर्गच्छद्भिः निष्यन्दैरल्पनिर्झरैश्चोपलक्षितः अयं शैलः स्रवन्मदो द्विप इव भाति ॥ २।९४।१३ ॥
गुहेति । नानापुष्पभवान् गन्धानभ्येत्य प्राप्य गुहासमीरणो गुहासम्बन्धी वायुः घ्राणतर्पणं यथा स्यात्तथा कं नरं न प्रहर्षयेत्प्रहर्षयेदेवेत्यर्थः ॥ २।९४।१४ ॥
यदीति । अनेकाः शरदो वर्षाणि वत्स्यामि तदापि मां शोको न प्रधर्षयति ॥ २।१४।१५ ॥
तत्र हेतुमाह– बह्विति । विचित्राणि शिख्ाराणि यस्य तस्मिन् अस्मिन् चित्रकूटे रतवानतिप्रीतिमानस्मि ॥ २।९४।१६ ॥
अनेनेति । अनेन सम्प्रति प्राप्तेन वनवासेन फलद्वयं प्राप्तम् । तदेवाह– धर्मे निरतस्य पितुः आनृण्यता ऋणराहित्यं भरतस्य प्रियं भरतविषयकातिप्रीतिश्च ॥ २।९४।१७ ॥
वैदेहीति । मनोवाक्कायसम्मतान्मनआद्यनुकूलान् विविधान् भावान् पदार्थान् पश्यन्ती त्वं रमसे कच्चित् ॥ २।९४।१८ ॥
वनवासस्योत्तमत्वे शिष्टाचारं प्रमाणयन्नाह– इदमिति । हे राज्ञि भवार्थाय लोककल्याणाय प्रवृत्ता इति शेषः, परे उत्कृष्टाः राजर्षयो मे प्रपितामहाः मनुप्रभृतयः प्रेत्य विचार्य इदं सनियमं
वनवासममृतं प्राहुः । सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गतेति नियमात् क्लीबता ॥ २।९४।१९ ॥
शिला इति । अभितः चतुर्दिक्षु विशालाः विस्तीर्णाः बहुलाः अनेकविधाः नीलादिभिर्बहुलैर्वर्णैरुपलक्षिताः शैलस्य शतशः बहवः शिलाः शोभन्ते ॥ २।९४।२० ॥
निशीति । स्वप्रभालक्ष्म्या स्वकान्तिसम्पत्त्या भ्राजमानाः सहस्रशः ओषध्यः निशि हुताशनशिखा इव भान्ति ॥ २।९४।२१ ॥
केचिदिति । अस्य पर्वतस्य केचिद्देशाः प्रदेशाः क्षयनिभाः भवनसदृशाः केचिदुद्यानसंनिभाः कृत्रिमपुष्पवाटिकासदृशाः केचिदेकशिलाः केवलप्रस्तरवन्तश्च भान्ति ॥ २।९४।२२ ॥
भित्त्वेति । वसुधां पृथ्वीं भित्त्वा इव समुत्थितः चित्रकूटो भति अयं कूटः श्रृङ्गं च सर्वतः शुभो दृश्यते ॥ २।९४।२३ ॥
कुष्ठेति । कुष्ठस्थगरपुन्नागभूर्जपत्राणि उत्तरच्छदाः उत्तरास्तरणानि येषां तान्कुशेशयदलायुतान् कमलच्छदविशिष्टान् कामिनां स्वास्तरान् शोभनास्तरणानि पश्य । तत्र कुष्ठमुत्पलमिति तीर्थः स्थगरः पुत्रजीविकः । किञ्च कुशेशयदलायुतान् कुष्ठादीनामुत्तरच्छदान् श्रेष्ठपत्राणि कामिनां स्वास्तरान्पश्य ॥ २।९४।२४ ॥
मृदिता इति । कमलस्रजः कामिभिर्मृदिताः प्रमर्दिताः अपविद्धाः त्यक्ताश्च दृश्यन्ते विविधानि फलानि पश्य ॥ २।९४।२५ ॥
वस्विति । वस्वोकसारां कुबेरनगरीं नलिनीमिन्द्रनगरीमुत्तरान् कुरूंश्च अतीत्य अतिक्रम्य असौ चित्रकूटः पर्वतः वर्तते नगरद्वयसुखादप्यधिकं सुखमत्रेति तात्पर्यम् ॥ २।९४।२६ ॥
इममिति । हे वनिते परैः उत्कृष्टैः स्वैर्नियमैरुपलक्षितः अत एव सतां पथि स्थितो ऽहमिमं चतुर्दशवर्षप्रमितं कालं यदि विजह्रिवान् विहारवान् तदा कुलधर्मवर्धिनीं रतिं प्रपत्स्ये ॥ २।९४।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ २।९४ ॥