यात्राकालिकं वृत्तान्तमाह– तयेत्यादिभिः । यायिन्या गमनशीलया तया ध्वजिन्या सेनया अर्दिताः पीडिताः अत एव मत्ताः दैन्यं प्राप्ताः सयूथाः यूथसहिताः वनवासिनो यूथपाः गजप्रभृतयः सम्प्रदुद्रुवुः ॥ २।९३।१ ॥
ऋक्षा इति । ऋक्षादयः वनराज्यादिषु समन्ततो दृश्यन्ते, तत्र ऋक्षाः भल्लूकाः पृषताः बिन्दुसहिताः रुरवस्तद्रहिताः ॥ २।९३।२ ॥
स इति । प्रीतः रामनिवासश्रुतिहेतुकप्रीतिविशिष्टः नादिन्या नादविशिष्टया सेनया वृतो भरतः सम्प्रतस्थे ॥ २।९३।३ ॥
सागरेति । सागरौघनिभा सागरौघसदृशी महात्मनो भरतस्य सेना प्रावृषि वर्षतां द्यामम्बुदो मेघ इव महीं सञ्छादयामास ॥ २।९३।४ ॥
तुरङ्गेति । तुरङ्गौघैरश्वसमूहैः महाबलैर्वारणैर्गजैश्च अवतता विस्तृता सा सेना तस्मिन्काले चिरङ्कालमनालक्ष्या लक्षयितुमशक्या बभूव ॥ २।९३।५ ॥
स इति । स भरतः दूरमध्वानं गत्वा मन्त्रिणां वरं श्रेष्ठं वशिष्ठमुवाच ॥ २।९३।६ ॥
यादृशमिति । यं देशं चित्रकूटं यादृशं यादृशरूपविशिष्टं भरद्वाजो ऽब्रवीत् मया च श्रुतं तादृशमेव रूपमत्र लक्ष्यते अतस्तं व्यक्तं चित्रकूटं वयं प्राप्ताः स्मः ॥ २।९३।७ ॥
अयमिति । यतः नीलमेघनिभं नीलमेघसदृशमेतद्वनं दूरात्प्रकाशते अतः अयमेव चित्रकूटो गिरिः मन्दाकिनी तदभिधा नदी इयमेव, एतेनेदमेव रूपं भरद्वाजेन बोधितमिति सूचितम् ॥ २।९३।८ ॥
गिरेरिति । चित्रकूटस्य गिरेः सानूनि मामकैर्वारणैर्गजैः अवमृद्यन्ते पीड्यन्ते ॥ २।९३।९ ॥
मुञ्चन्तीति । एते नीलाः नगाः वृक्षाः पर्वतसानुषु कुसुमानि मुञ्चन्ति, तत्र दृष्टान्तः आतपापाये तोयधराः घनाः तोयमिव ॥ २।९३।१० ॥
किन्नरेति । हे शत्रुघ्न मकरैराकीर्णं सागरमिव हयैराकीर्णं किन्नराचरितं देशं पश्य ॥ २।९३।११ ॥
एते इति । प्रचोदिताः सेनाजनैः प्रेरिताः प्रचालिता इत्यर्थः, अत एव शीघ्रवेगाः एते मृगगणाः भान्ति, तत्र दृष्टान्तः शरदि वायुप्रविद्धाः वायुना प्रचालिताः अम्बरे आकाशे मेघजाला इव ॥ २।९३।१२ ॥
कुर्वन्तीति । अमी सैनिकाः तरवो वा शिरःसु सुरभीन् सुगन्धवतः कुसुमापीडान् कृष्णपुष्पनिर्मितभूषणविशेषान् कुसुमगुच्छान्वा कुर्वन्ति धारयन्तीत्यर्थः, तत्र दृष्टान्तः मेघप्रकाशैः मेघसङ्काशैः फलकैः खड्गादिप्रहारनिवारकचर्मभिः उपलक्षिताः दाक्षिणात्याः नरा यथा ॥ २।९३।१३ ॥
निष्कूजमिति । निष्कूजं शब्दरहितमत एव घोरं प्रदर्शनं यस्य तदिदं वनं सम्प्रति जनाकीर्णं भूत्वा अयोध्येव मे प्रतिभाति ॥ २।९३।१४ ॥
खुरैरिति । खुरैः अश्वादिशफैः उदीरितो यो रेणुः दिवं प्रच्छाद्य तिष्ठति तं रेणुं मम प्रियं कुर्वन्निव अनिलः वायुः शीघ्रं वहति अन्यत्र प्रापयति ॥ २।९३।१५ ॥
स्यन्दनानिति । तुरगोपेतान् अश्वैर्युक्तान् शीघ्रं सम्पततो गच्छतः एतान् स्यन्दनान् रथान् त्वं पश्य ॥ २।९३।१६ ॥
एतानिति । प्रियदर्शनान् एतान् बर्हिणो मयूरान्वित्रासितान्सेनादर्शनहेतुकवित्रासविशिष्टान्पश्य, एवं शीघ्रमापततः पतत्त्रिणः पक्षिणः अधिवासं निवासाश्रयं शैलं पश्य ॥ २।९३।१७ ॥
अतीति । अयं देशः अतिमात्रमतीव मनोज्ञो रमणीयः मे प्रतिभाति, तत्र हेतुः यतो ऽयं तापसानां निवासः अत एव स्वर्गपथः स्वर्गतुल्यः व्यक्तं प्रस्फुटमेतत् ॥ २।९३।१८ ॥
मृगा इति । मृगीभिः सहिताः मनोज्ञरूपाः पृषताः सबिन्दवो मृगाः कुसुमैः चित्रिता इव लक्ष्यन्ते ॥ २।९३।१९ ॥
साध्विति । सैन्याः साधु यथा स्यात्तथा प्रतिष्ठन्तां काननं वनं विचिन्वन्तु च । तत्प्रयोजनमाह– यथा पुरुषव्याघ्रौ रामलक्ष्मणौ दृश्येते ॥ २।९३।२० ॥
भरतस्येति । भरतस्य वचः श्रुत्वा शस्त्रपाणयः पुरुषाः तद्वनं विविशुः, ततो ऽनन्तरं दूराद्धूमाग्रं ददृशुः ॥ २।९३।२१ ॥
ते इति । ते वनप्रवेशनकर्तारः पुरुषाः धूमाग्रं समालोक्य भरतमागताः प्राप्ताः सन्तः ऊचुः । तद्वचनाकारमाह– अमनुष्ये मनुष्यरहिते देशे अग्निर्न भवति एतादृशवने इति शेषः, तेन धूमलिङ्गकानुमानेन वह्िनरस्माभिर्निश्चित इति ध्वनितमतः राघवौ अत्रैव इति व्यक्तमस्माभिर्निश्चितम् । एतेन तस्मिन् वने दावाभावः सूचितः तेन जलाधिक्यं व्यञ्जितम् ॥ २।९३।२२ ॥
इदमनुमानं जनसामान्यबोधकमिति द्योतयः न्नाह– अथेति । अथ यदि नरव्याघ्रौ न तर्हि रामोपमा अन्ये तपस्विनः सन्ति, रामोपमा इत्यनेन तद्वननिवासस्य असमर्थजनाशक्यत्वं व्यञ्जितमेतेनात्र रामस्याभावे ऽपि रामनिवासस्थलनिश्चयो ऽवश्यं भविष्यतीति सूचितम् ॥ २।९३।२३ ॥
तदिति । अमित्रबलमर्दनः शत्रुसेनानिषूदनो भरत उवाच ॥ २।९३।२४ ॥
तद्वचनाकारमाह– यत्ता इति । यत्ताः सावधानाः भवन्तस्तिष्ठन्तु इतः अस्मात् स्थानात् अग्रतो ऽग्रे न गन्तव्यमहमेव गमिष्यामि ॥ २।९३।२५ ॥
एवमिति । सैन्याः समन्ततः चतुर्दिक्षु तस्थुः भरतस्तु यत्र धूमाग्रं तत्र दृष्टिं समादधत् समस्थापयत् ॥ २।९३।२६ ॥
व्यवस्थितेति । या चमूः भरतेन व्यवस्थिता व्यवस्थापिता सा चमूः अग्रतः भूमिं धूमधूमवद्देशं निरीक्षमाणा अत एव रामस्य समागमं न चिरेण झटिति जानती सती रुष्टा बभूव ॥ २।९३।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ २।९३ ॥