रात्रिनिवासानन्तरकालिकं वृत्तान्तमाह– तत इत्यादिभिः । कृतमातिथ्यं यस्य स सपरिच्छदः परिकरसहितः भरतः तां भरद्वाजाश्रमे प्राप्तां रजनीं व्युष्य कामात् रामसमीपगमनविषयकेच्छाया हेतोः भरद्वाजमभिजगाम ॥ २।९२।१ ॥
तमिति । पुरुषव्याघ्रं भरतमागतं प्रेक्ष्य हुताग्निहोत्रो भरद्वाजः अभ्यभाषत ॥ २।९२।२ ॥
तदभिभाषणमेवाह– कच्चिदिति । अस्मद्विषये अस्माकमाश्रमे गता व्यतीता रात्रिः तव सुखा सुखप्रदा कच्चित् ते जनः मे आतिथ्ये समग्रः सम्यक् सत्कृतः कच्चित् अभवदिति शेषः, इति शंस कथय ॥ २।९२।३ ॥
तमिति । आश्रमादुपनिष्क्रान्तं स्वसमीपे प्राप्तं तं भरद्वाजं भरत उवाच ॥ २।९२।४ ॥
तद्वचनाकारमाह– सुखेति । सामात्यः अमात्यसहितः समग्रबलवाहनः समस्तबलवाहनवान् अहं सर्वकामैर्बलवदत्यन्तं तर्पितः अत एव सुखोषितः ससुखमुषितो ऽस्मि ॥ २।९२।५ ॥
अपेतेति । प्रेष्यान् भृत्यवर्गानपि उपादाय आरभ्य सुभक्ष्याः प्राप्तशोभानभक्ष्यवन्तः सुप्रतिश्रयाः प्राप्तशोभनवासस्थानाः अत एव अपेतक्लमसन्तापाः अपेताः निवृत्ताः क्लमाः ग्लानयः सन्तापाः अध्वश्रमजनितदेहक्लेशाः येषां ते अत एव सुसुखोषिताः सुसुखं सुखपूर्वमुषितं यैः ते सर्वे वयं स्म स्मः ॥ २।९२।६ ॥
आमन्त्रये इति । हे ऋषिसत्तम त्वामहमामन्त्रये प्रार्थयामि । प्रार्थनमेवाह– भ्रातुः समीपं प्रस्थितं मां मैत्रेण स्नेहयुक्तेन चक्षुषा ईक्षस्व गन्तुमाज्ञापयेत्यर्थः ॥ २।९२।७ ॥
आश्रममिति । धार्मिकस्य तस्य रामस्य आश्रममाचक्ष्व यत्रास्ति तं देशं कथयेत्यर्थः, मार्गः तदाश्रमप्रापकः पन्थाः कतमः एषां मध्ये क इत्यर्थः, कियान् कियत्क्रोशमितः इति च मे शंस ॥ २।९२।८ ॥
इतीति । इति अनेन प्रकारेण पृष्टो भरद्वाजः भ्रातुर्दर्शनलालसं भरतं प्रत्युवाच ॥ २।९२।९ ॥
तत्प्रतिवचनाकारमाह– भरतेति । अर्धतृतीयेषु अर्धमेव तृतीयं यस्मिन् सार्धद्वयमित्यर्थः, तस्यैकशेषेण कपिञ्जलाधिकरणन्यायान् सार्धसप्तेत्यर्थः, तेषु योजनेषु चित्रकूटगिरिस्तत्र गिरौ विद्यमाने अजने दुर्जनरहिते वने रम्याणि निर्झरकाननानि यस्मिन् स चित्रकूटगिरिरस्ति तस्य गिरेः उत्तरं पार्श्वमासाद्य प्राप्य पुष्पितद्रुमैः सञ्छन्ना रम्याणि पुष्पितकाननानि यस्याः सा मन्दाकिनी नदी अस्ति । श्लोकद्वयमेकान्वयि ॥ २।९२।१०,११ ॥
अनन्तरमिति । तत्सरितो मन्दाकिन्याः अनन्तरं समीपे यश्चित्रकूटः पर्वतः तत्र तयोः सीतारामयोः पर्णकुटी पर्णशाला तत्र तस्यां तौ सीतारामौ ध्रुवं वसतः “चित्रकूटम्” इति द्वितीयान्तपाठे चित्रकूटं प्राप्येत्यर्थः ॥ २।९२।१२ ॥
पृष्टमार्गमुपदिशति– दक्षिणेनेति । दक्षिणेन यमुनोत्तरकूलवर्तिना मार्गेण किञ्च्चिद्दूरं गत्वेति शेषः । सव्यदक्षिणं यमुनामुल्लङ्घ्य नैर्ऋत्यकोणं वाहिनीं सेनां वाहयस्व, हे वाहिनीपते सेनाधीश हे महाभाग ततः तादृग्गमनाद्राघवं द्रक्ष्यसि । सार्धश्लोक एकान्वयी ॥ २।९२।१३ ॥
प्रयाणमिति । प्रयाणमिति शब्दं श्रुत्वैव यानार्हाः वेपमानाः सुमित्रया सह राजराजस्य योषितः यानानि हित्वा त्यक्त्वा ब्राह्मणं भरद्वाजं पर्यवारयन् पर्यवेष्टयन्त । सार्धश्लोक एकान्वयी ॥ २।९२।१४,१५ ॥
कौसल्येति । तत्र तस्मिन्समये मुनेः चरणौ असमृद्धेन अपरिपूर्णेन कामेन रामराज्याभिषेकेच्छयोपलक्षिता कौशल्या मुनेः चरणौ जग्राह सर्वलोकस्य गर्हिता रक्षिकात्वेन स्वीकारकर्त्री सव्यपत्रपा सव्यं कौशल्यावामभागं पाति सव्यपा त्रपते इति त्रपा स्वस्य
रामविवासनहेतुत्वस्मृत्या किञ्चिल्लज्जावती सा एव सेति कर्मधारयः कैकेयी च चरणौ जग्राह तदाचरणग्रहणोत्तरकाले तं मुनिं प्रदक्षिणमागम्य दीनमनाः कैकेयी भरतस्यैव अदूरात्समीपे तस्थौ । सार्धश्लोकद्वयं सम्मिलितान्वयि ॥ २।९२।१६,१७ ॥
तत्रेति । हे राघव भरत तव मातृ़णां विशेषं ज्येष्ठात्वादिना न्यूनाधिकभावं ज्ञातुमिच्छामि । भरतं भरद्वाजः पप्रच्छ । अर्धद्वयमेकान्वयि ॥ २।९२।१८ ॥
एवमिति । भरद्वाजेन एवमुक्तो भरतः प्राञ्जलिर्भूत्वा उवाच ॥ २।९२।१९ ॥
तदाकारमाह– यामिति । शोकानशनकर्शितां शोकहेतुकभोजनाभावहेतुककृशताविशिष्टामत एव दीनां क्षीणचित्तां देवतामिव यां महिषीं पश्यसि सा एषा कौशल्या धातारमदितिरिव पुरुषव्याघ्रं रामं सुषुवे । अर्धचतुष्टयमेकान्वयि ॥ २।९२।२०२२ ॥
अस्या इति । वनान्तरे शीर्णपुष्पा कर्णिकारस्य शाखेव अस्याः कौशल्यायाः वामभुजं श्लिष्टा दुर्मनाः या तिष्ठति सा इयं राज्ञो मध्यमा देवी सुमित्रा । सार्धश्लोक एकान्वयी ॥ २।९२।२३ ॥
एतस्या इति । एतस्याः सुमित्रायाः देववर्णिनौ देववर्णसदृशवर्णविशिष्टौ उभौ लक्ष्मणशत्रुघ्नौ तौ प्रसिद्धौ सुतौ स्तः इति शेषः ॥ २।९२।२४ ॥
यस्या इति । यस्याः कृते प्रयत्ने सति नरव्याघ्रौ रामलक्ष्मणौ जीवनाशं जीवस्य प्रजापालनस्य नाशमभावं गतौ प्राप्तौ अत एव राजा दशरथः पुत्रविहीनः श्रेष्ठपुत्ररहितः सन् स्वर्गं साकेतं गतः ॥ २।९२।२५ ॥
क्रोधनामेति । क्रोधे नाम प्रसिद्धिर्यस्याः सा क्रोधनामा मन्थरा तस्यां कृता स्थापिता प्रज्ञा बुद्धिर्यया ताम्, मन्थरानुकूलवर्तिनीमित्यर्थः । दृप्तामहमतीव राजप्रियेति गर्वविशिष्टां राजातिप्रीतिविषयीभूतामित्यर्थः, अत एव शुभगमानिनीं शुभगानां राज्ञः स्वशुभप्राप्तीच्छावतां कर्तृ़णां मानः पूजास्ति अस्यास्तामत एव ऐश्वर्यैः कामयते शोभते सा तामार्यरूपिणीं प्रशस्तरूपविशिष्टां तत्त्ववेतृसत्कृतिनिरतां वा नृशंसां रामवियोगहेतुत्वेन नृभिः कथ्यमानां पापनिश्चयां पापे स्वहेतुकवियोदुःखदानरूपापराधे निश्चयो यस्यास्तां यतो यस्याः अमूलमकारणकमात्मनो व्यसनमनवस्थितिं पश्यामि तामनार्याकनिष्ठामेतां कैकेयीं मम मातरं विद्धि जानीहि । श्लोकद्वयमेकान्वयि ॥ २।९२।२६,२७ ॥
इतीति । नरशार्दूलो भरतः बाष्पगद्गदया वियोगहेतुभूतमन्थरास्मृतिजनिताश्रूद्गमहेतुकगद्गदात्वविशिष्टया गिरा इति अनेन प्रकारेण उक्त्वा ताम्राक्षः सन् क्रुद्धो नाग इव निशश्वास ॥ २।९२।२८ ॥
भ्ारद्वाज इति । तं ब्रुवन्तं भरतं महाबुद्धिः अत एव अर्थवित् सर्वपदार्थवेत्ता भरद्वाजः भरतं प्रत्युवाच ॥ २।९२।२९ ॥
तद्वचनाकारमाह– नेति । हे भरत दोषेण अकालकप्रव्राजनजनितापराधेन विशिष्टा कैकेयी त्वया नावगन्तव्या तस्यां दोषबुद्धिर्न कर्तव्येत्यर्थः । तत्र हेतुः– एतद्रामप्रव्राजनं सुखोदकं सुखप्रवर्धकं भविष्यति ॥ २।९२।३० ॥
ननु प्रव्राजनस्य कथं सुखप्रवर्धकत्वमित्यत आह– देवानामिति । रामप्रव्राजनाद्भविष्यत्प्राप्स्यद्देवादीनां हितमेव अवेहीति शेषः । भावितात्मनामित्यस्य भावितः परिशीलितः आत्मा परमात्मा यैस्तेषामित्यर्थः ॥ २।९२।३१ ॥
अभिवाद्येति । संसिद्धः रामस्थितिनिश्चयरूपसिद्धिं प्राप्तो भरतः आमन्त्र्य भरद्वाजाज्ञां गृहीत्वा सैन्यं युज्यतामित्यब्रवीत् ॥ २।९२।३२ ॥
तत इति । ततः भरताज्ञापनानन्तरं हेमविभूषितां बहून्वाजिरथान् प्रयाणार्थं युक्त्वा बहुविधो जनः अध्यारोहत् ॥ २।९२।३३ ॥
गजेति । हेमकक्ष्याः पताकिनः पताकाविशिष्टाः गजकन्याः करेणवः गजाश्च घर्मान्ते ग्रीष्मापाये जीमूता मेघा इव सम्प्रतस्थिरे ॥ २।९२।३४ ॥
विविधानीति । सुमहार्हाणि अतिबहुमूल्यानि विविधानि अनेकप्रकाराणि महान्ति लघूनि च यानानि ययुः पदातयश्च पादैर्ययुः ॥ २।९२।३५ ॥
अथेति । तदा तस्मिन् काले रामदर्शनकाङ्क्षिण्यः कौशल्याप्रमुखाः स्त्रियः यानप्रवेकैरुत्तमयानैः अथ ययुः मङ्गलगमनं चक्रुः ॥ २।९२।३६ ॥
चन्द्रार्केति । चन्द्रार्कतरुणाभासां तरुणचन्द्रार्कदीप्तिसदृशदीप्तिमतीं नियुक्तां वाहकैर्गृहीतां शुभां शिबिकामास्थाय सपरिच्छदः सामग्रीसहितो भरतः ययौ ॥ २।९२।३७ ॥
सेति । प्रयाता सा महासेना दक्षिणां दिशमावृत्य उत्थितो महामेघ इवासीदिति शेषः ॥ २।९२।३८ ॥
वनानीति । गङ्गायाः परवेलायां परतेरि विद्यमानेषु गिरिषु गिरिसमीपे नदीषु नदीसमीपे विद्यमानानि मृगपक्षिभिर्जुष्टानि वनानि व्यतिक्रम्य सम्प्रहृष्टाः द्विपवाजिनां यूथाः यस्यां सा मृगपक्षिसङ्घान् वित्रासयन्ती भरतस्य सेना रराज शुशुभे । श्लोकद्वयमेकान्वयि ॥ २।९२।३९,४० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्विनवतितमः सर्गः ॥ २।९२ ॥