भरद्वाजप्रभावं वर्णयन्नाह– कृतेति । निवासाय कृतबुद्धिं कृतनिश्चयं भरतं तत्र तस्मिन् समये एव भरद्वाज आतिथ्येन अतिथ्युचितसत्कारवचनेन न्यमन्त्रयन्न्ययोजयत् ॥ २।९१।१ ॥
अब्रवीदिति । वने यत् उपपद्यते युज्यते तेन पाद्यादिरूपमातिथ्यं भवता कृतमिति भरतः एनं निमन्त्रयितारं भरद्वाजमब्रवीत्, एतेन इतःपरं निमन्त्रणं न कर्तव्यमिति ध्वनितम् ॥ २।९१।२ ॥
अथ इति । अथ भरतोक्तिश्रवणानन्तरं प्रहसन्निव भरद्वाजः भरतमुवाच । तद्वचनाकारमाह– यतः त्वं येनकेनचित्तुष्येः अतः प्रीतिसंयुक्तं मद्विषयकप्रीतिमन्तं त्वां जाने ॥ २।९१।३ ॥
ननु तर्हि किमर्थं निमन्त्रणमित्यत आह सेनाया इति । तवास्याः सेनायाः सेनाकर्तृकं भोजनमिच्छामि अतः अयथारूपा यादृशी मम प्रीतिः तादृश्याः प्रीतेस्त्वमर्हः योग्यो ऽसि ॥ २।९१।४ ॥
किमिति । बलं सेनां दूरे किमर्थं निक्षिप्य इहागतः सबलः ससैन्यः कस्मान्न इह उपयातः प्राप्तो ऽसि ॥ २।९१।५ ॥
भरत इति । प्राञ्जलिर्भरतः तपोधनं भरद्वाजं प्रत्युवाच । तत्प्रतिवचनाकारमाह– हे भगवन् भगवतो भवतो भयात् सैन्येन सह न उपयातो ऽस्मि ॥ २।९१।६ ॥
राज्ञेति । हे भगवन् तपस्विनः विषयेषु तत्समीपवर्तिदेशेषु राज्ञा तत्पुत्रेण वा यत्नतः परिहर्तव्याः त्यक्तव्याः उपद्रवा इति शेषः, एतेनोपद्रवभीतेरेव सैन्यं नात्रानीतमिति सूचितम् ॥ २।९१।७ ॥
उपद्रवहेतुभूतानाह– वाजीति । वाजिमुख्याः अश्वश्रेष्ठाः मनुष्याश्च वरवारणाः श्रेष्ठगजाश्च महतीं भूमिं प्रच्छाद्य संरुध्य मामनुयान्ति ॥ २।९१।८ ॥
त इति । ते वाज्यादयः वृक्षान् भवत्संरक्षिततरून् उदकं जलं च भूमिं लेपनादिविशिष्टपृथिवीं च उटजान् पर्णशालाश्च न हिंस्युः दूषयेयुस्तेन हेतुना ततः स्थापितसैन्यादिस्थलात् एकः उपद्रवहेतुभिः रहित आगतः । इतिश्चार्थः, एकशब्दः केवलार्थकः, तेन वशिष्ठस्य सहागमने ऽपि न विरोधः ॥ २।९१।९ ॥
आनीयतामिति । सेना इतः अस्मिन् स्थले आनीयतामित्यनेन प्रकारेण परमर्षिणा आज्ञप्तो भरतः सेनायाः समुपागममानयनमनुचक्रे ॥ २।९१।१० ॥
मुनिवृत्तमाह– अग्नीति । अग्निशालां प्रविश्य अपः जलानि पीत्वा त्रिराचम्येत्यर्थः, परिमृज्य यथाविधि मार्जनं कृत्वा च आतिथ्यकर्मिकायाः क्रियायाः हेतोः विश्वकर्माणमाह्वयत् ॥ २।९१।११ ॥
आह्वानप्रकारमाह– आह्वय इति । त्वष्टारं तक्षकर्मसमर्थं विश्वकर्माणम् आह्वये, आह्वाने हेतुः अहम् आतिथ्यं कर्तुमिच्छामि । तत्र आतिथ्यकर्मणि संविधीयतां तन्निर्वाहकसामग्री सम्प्राप्यतामित्यर्थः ॥ २।९१।१२ ॥
आह्वये इति । शक्रपुरोगमान् इन्द्रमुख्यान् लोकपालान् त्रीन् यमवरुणकुबेरान् देवान् आह्वये तद्गुणसंविज्ञानो बहुव्रीहिः ॥ २।९१।१३ ॥
प्रागिति । पृथिव्यामन्तरिक्षे च याः प्राक्स्रोतसः पूर्वाभिमुखप्रवाहाः याः तिर्यक्स्रोतसः पश्चिमाभिमुखवाहिन्यश्च नद्यस्ताः सर्वशः अद्य समायान्तु ॥ २।९१।१४ ॥
तदागमने प्रयोजनमाह– अन्या इति । अन्याः काश्चिन्मैरेयमन्याः सुनिष्ठितां सुनिष्पादितां सुरामपराः अन्याः इक्षुकाण्डरसोपमं शीतमुदकं जलं स्रवन्तु ॥ २।९१।१५ ॥
आह्वये इति । देवगन्धर्वान् देवानां गन्धर्वान् विश्वावसुहहाहुहूंश्च त्रयाणां द्वन्द्वः । हहाहुहूनित्यत्र ह्रस्वश्छान्दसः एतन्नामकावन्यौ वा, देवीर्देवसम्बन्धिनीः गन्धर्वीर्गन्धर्वसम्बन्धिनीश्च सर्वशः अप्सरसः आह्वये ॥ २।९१।१६ ॥
प्रधानाप्सरसां नामानि निर्दिशन्नाह– घृताचीमिति । घृताचीप्रभृतीराह्वये इति पूर्वेणान्वयः ॥ २।९१।१७ ॥
शक्रमिति । याः शक्रमुपतिष्ठन्ति याश्च ब्रह्माणमुपतिष्ठन्ति ताः तुम्बुरुणा स्वशिक्षकेन सार्धं विद्यमानाः सपरिच्छदाः सामग्रीसहिता भामिनीः स्त्रियः आह्वये ॥ २।९१।१८ ॥
वनमिति । वासो भूषणपत्रवत् वासांसि च भूषणानि च तान्येव पत्राणि तद्वत्, दिव्यनार्य एव फलानि यस्य तत् कुरुषु उत्तरकुरुषु विद्यमानं यद्दिव्यं वनं चैत्ररथसञ्ज्ञकमित्यर्थः, तत्कौबेरं वनमिहैव आगच्छतु इति शेषः ॥ २।९१।१९ ॥
इहेति । उत्तममन्नं विविधमनेकविधं बहुभक्ष्यादिकं च विचित्राणि माल्यानि पुष्पाणि पादपप्रच्युतानि वृक्षेभ्यः पतितानि सुरादीनि च विविधानि पेयानि मांसानि राजभोग्यवस्तूनि च भगवान् सोमः चन्द्रः इह मे विधत्तां प्रापयत्वित्यर्थः । श्लोकद्वयमेकान्वयि ॥ २।९१।२०,२१ ॥
एवमिति । समाधिना चित्तैकाग्र्येण युक्तः अप्रतिमेन उपमारहितेन तेजसा च युक्तः सुव्रतो मुनिः शिक्षास्वरसमायुक्तं शिक्षया शिक्षाप्रतिपादितोच्चारणविधिना स्वरेण व्याकरणप्रतिपादितप्रकृत्यादिनिष्ठोदात्तादिना समायुक्तं यथा स्यात्तथा मुनिरब्रवीत् ॥ २।९१।२२ ॥
मनसेति । ध्यायतस्तस्य मुनेः अग्रे इति शेषः, सर्वाणि दैवतानि देवाः पृथक् पृथगाजग्मुः ॥ २।९१।२३ ॥
आगतानां तेषां कृत्यमाह– मलयमित्यादिभिः । ततः आगमनानन्तरं मलयं तदभिधं दर्दुरं तदभिधं च चन्दनपर्वतं युक्त्या उपस्पृश्य स्वेदनुदः स्वेदस्य निवर्तकः सुप्रियः सर्वेषामतिप्रीतिविषयीभूतः आत्मा प्रयत्नो यस्य शिवः कल्याणप्रदो ऽनिलो वायुः सुखं ववौ ॥ २।९१।२४ ॥
तत इति । ततः अनन्तरं घनाः मेघाः अभ्यवर्षन्त दिव्याः देवकृताः कुसुमवृष्टयश्च अभ्यवर्तन्तेति शेषः, सर्वासु दिक्षु देवदुन्दुभिघोषश्च शुश्रुवे । घनशब्दस्य अनन्तरार्थकत्वे ? तु घना इति कुसुमवृष्टिविशेषणम् अस्मिन्पक्षे अभ्यवर्षन्तेत्यस्यैव अभ्यवर्तन्तेत्यर्थः । “घनं निरन्तरं सान्द्रम्” इत्यमरः ॥ २।९१।२५ ॥
प्रववुरिति । उत्तमाः अनुकूलाः वाताः प्रीत्यतिशयेन विविधजनव्यजनसम्भूतपवनाः प्रववुः चेलुः अत एव पूर्वेण न पौनरुक्त्यं देवगन्धर्वाः प्रजगुः वीणाः स्वरान् षड्जादीन् प्रमुमुचुः ॥ २।९१।२६ ॥
स इति । समः समविशिष्टः लयगुणान्वितः लयाः नृत्यगीतानुकूलतालप्रमाणानि तैर्युक्तः उच्चावचः यथोचितमूर्ध्वाधोगतिविशिष्टः सः गन्धर्वगानादिशब्दः द्यां दिवं भूमिं च श्रवणानि च विवेश ॥ २।९१।२७ ॥
तस्मिन्निति । दिव्ये देवसम्बन्धिनी श्रोत्रसुखे कर्णसुखप्रदे एवमनेन प्रकारेण तस्मिन् शब्दे गते प्राप्ते सति भारतं भरतसम्बन्धि सैन्यं विश्वकर्मणो विधानं रचनां ददर्श ॥ २।९१।२८ ॥
विधानमेवाह– बभूवेत्यादिभिः । समन्ताश्चतुर्दिक्षु नीलवैदूर्यसंनिभैः बहुभिः शाद्वलैः कोमलतृणैः छन्ना भूमिः पञ्चयोजनं विंशतिक्रोशं समा बभूव ॥ २।९१।२९ ॥
तस्मिन्निति । फलभूषिताः फलैः शोभिताः बिल्वादयस्तस्मिन् पञ्चयोजनात्मकप्रदेशे बभूवुः अजायन्त ॥ २।९१।३० ॥
उत्तरेभ्य इति । दिव्योपभोगवत् देवसम्बन्ध्युपभोगविशिष्टं वनं तीरजैर्वृक्षैर्वृता सौम्या रम्या नदी च उत्तरेभ्यः कुरुभ्यः आजगाम ॥ २।९१।३१ ॥
चतुरिति । शतुश्शालानि शालाचतुष्टयविशिष्टानि हर्म्यप्रासादसंयुक्तानि तोरणानि येषु तानि
अत एव शुभ्राणि शोभनानि गृहाणि गजवाजिनां शालाश्च अजायन्तेति शेषः ॥ २।९१।३२ ॥
सितेति । सितमेघसदृशं सुतोरणं शोभनतोरणविशिष्टं शुक्लमाल्यैः श्वेतपुष्पैः कृता आकारा भूषणानि यस्मिन् दिव्यगन्धैः समुक्षितं सिक्तम् ॥ २।९१।३३ ॥
चतुरस्रं चतुःकोणमसम्बाधं जनबाधारहितं विशालमित्यर्थः, शयनासनयानवत् शयनासनयानविशिष्टं दिव्यैः सर्वरसैर्युक्तं विशिष्टं दिव्यभोजनवस्त्रवत् उपकल्पितानि सर्वान्नानि यस्मिन् तत् धौतानि शुद्धानि निर्मलभाजनानि येषु तत् क्लृप्तानि सर्वाणि अनेकविधानि आसनानि येषु तत् श्रीमत् सकलसम्पत्तिविशिष्टं स्वास्तीर्णाः समुपकल्पिताः शयनोत्तमाः उत्तमपर्यङ्काः येषु तत् राजवेश्म अजायतेति शेषः । श्लोकत्रयमेकान्वयि ॥ २।९१।३४,३५ ॥
प्रविवेशेति । रत्नसम्पूर्णं वेश्म राजगृहं महर्षिणा अनुज्ञाताः कैकेयीसुतो भरतः प्रविवेश सुपरोहिताः पुरोहितसहिताः मन्त्रिणश्च अनुजग्मुः तं विलक्षणं वेश्मसंविधिं तत्क्षणवेश्मनिर्माणं दृष्ट्वा मुदा हर्षेण युक्ताश्च बभूवुः । श्लोकद्वयमेकान्वयि ॥ २।९१।३६,३७ ॥
तत्रेति । राजवत् राजयोग्यताविशिष्टं तत्र तस्मिन् गृहे विद्यमानं दिव्यं राजासनं व्यजनं च छत्रं च भरतः अभ्यवर्तत प्रदक्षिणामकरोत् ॥ २।९१।३८ ॥
आसनमिति । रामाय अभिप्रणम्य बालव्यजनमादाय गृहीत्वा आसनं पूजयामास रामयोग्यमिदमिति बुद्ध्या आनर्च सचिवासने अमात्योचितासने न्यषीदच्च ॥ २।९१।३९ ॥
आनुपूर्व्यादिति । मन्त्रिपुरोहिताः आनुपूर्व्यात्क्रमशः निषेदुः ततः सेनापतिः न्यषीदत् पश्चात् प्रशास्ता तद्गृहरक्षकश्च न्यषीदत ॥ २।९१।४० ॥
तत इति । तत्र तद्गृहसमीपे पायसा एव कर्दमाः यासु ताः नद्यः मुहूर्तेन घटिकाद्वयेन भरतमुपातिष्ठन्त ॥ २।९१।४१ ॥
आसामिति । ब्राह्मणस्य भरद्वाजस्य प्रसादजाः अतिप्रीत्योत्पादिताः आसां नदीनामुभयतःकूलं कूलद्वये पाण्डुमृत्तिकाभिः लेपनं येषां ते आवसथाः गृहाणि बभूवुरिति शेषः ॥ २।९१।४२ ॥
तेनेति । तेनैव तस्मिन्नेवेत्यर्थः, मुहूर्तेन मुहूर्ते दिव्यैराभरणैर्भूषिताः ब्रह्मणा प्रहिताः भरद्वाजेन प्रापिताः विंशतिसाहस्राः स्त्रियः आगुः आजग्मुः ॥ २।९१।४३ ॥
सुवर्णेति । सुवर्णादित्रयेण समाहारद्वन्द्वः प्रवालेन च शोभिताः आगुः ॥ २।९१।४४ ॥
याभिरिति । याभिः अप्सरोभिः गृहीतः स्वीकृतः पुरुषः सोन्मादः उन्मादसहित इव लक्ष्यते तन्मात्रनिरतो भवतीत्यर्थः, तद्भिन्नं निखिलं तुच्छवत्पश्यतीति तात्पर्यं ता अप्सरोगणाः नन्दनान्नन्दनवनादागुः ॥ २।९१।४५ ॥
नारद इति । प्रभया कान्त्या सूर्यवर्चसः सूर्यतेजस्तुल्यतेजोविशिष्टाः एते नारदादयो गन्धर्वराजानः गन्धर्वराजाः अग्रतः अग्रे जगुः ॥ २।९१।४६ ॥
अलम्बुसेति । अलम्बुसादयः भरतमुपानृत्यन्त ॥ २।९१।४७ ॥
यानीति । तानि माल्यानि प्रयागे अदृश्यन्त ॥ २।९१।४८ ॥
बिल्वा इति । बिल्वाः बिल्वतरवः मार्दङ्गिका मृदङ्गवादकाः आसन् बभूवुः । शम्यास्तदभिधतरवः ग्राहाः तालानां ग्राहकाः आसन्, बिभीतकाः अश्वत्थाश्च नर्तका आसन् ॥ २।९१।४९ ॥
तत इति । सरलतालाः सरलाः देवदारवस्तालाः तालवृक्षाः सतमालकाः तमालकसहिताः तिलकाः तिलकवृक्षाः हृष्टाः सन्तः कुब्जाः वामनाश्च भूत्वा संपेतुः ॥ २।९१।५० ॥
शिंशपेति । शिंशपादयः प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे अवसन् ॥ २।९१।५१ ॥
सुरामिति । हे सुरापाः यूयं सुरां पिबत हे बुभुक्षिताः यावदिच्छथ तावत्पायसं पिबत खादत मांसानि भक्ष्यन्तामिति परस्परमवदन्निति शेषः ॥ २।९१।५२ ॥
उच्छोद्येति । वल्गुषु नदीतीरेषु एकमेकपुरुषं प्रत्येकं पुरुषं सप्त अष्ट च प्रमदाः उच्छोद्य उद्वर्तनं कृत्वा स्नापयन्ति स्म एकमेकपुरुषमित्यत्र “एकं बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्षः इति भट्टाः ॥ २।९१।५३ ॥
संवाहन्त्य इति । संवाहन्त्यः पादसंवाहनां कारयन्त्यो विपुललोचनाः वराङ्गनाः वराः अङ्गना परिचारिकाः यासां ताः नार्यः समापेतुः नद्यामिति शेषः । तदा स्नानोत्तरकाले अन्योन्यं परिमृज्य जलार्द्रमङ्गं वस्त्रैरिति शेषः । अन्योन्यं पाययन्ति मध्वादीति शेषः ॥ २।९१।५४ ॥
हयानिति । वाहनपाः हयादिपालकास्तेषां हयादीनां भोज्यं हयादीन् यथाविधि अभोजयन् ॥ २।९१।५५ ॥
तद्भोज्यपदार्थान् विशिष्य निर्दिशन्नाह– इक्षूनिति । इक्ष्वाकुवरयोधानां वाहनानि हयादीनि चोदयन्तः भक्षणाय प्रेरयन्तः महाबलाः अश्वादिपालकाः इक्ष्वादीन् भोजयन्ति स्म ॥ २।९१।५६ ॥
नेति । तत्र मादकरसादिपानानन्तरसमये मत्तप्रमत्तमुदिताः मत्तेन मादकरसादिपानेन प्रमत्ताः कार्याकार्यविवेकरहिता एव मुदिता यस्यां सा चमूः सम्बभौ, अत एव अश्वबन्धः अश्वानां बन्धकः अश्वं न आजानात् कुञ्जरग्रहः हस्तिपालकः गजं हस्तिनं नाजानात् ॥ २।९१।५७ ॥
तर्पिता इति । सर्वकामैः निखिलेप्सितैः । किञ्च सर्वेषां कामाः मनोरथाः येषु तैर्भक्ष्यादिभिः तर्पिताः अप्सरोगणैः संयुक्ताः सैन्याः सैन्यसम्बन्धिनः जनाः वाचं प्रमत्तोचितवचनमुदीरयन् उदैरयन् ॥ २।९१।५८ ॥
तद्वचनाकारं बोधयन्नाह– नैवेति । तद्विधिं सत्काररीतिं लब्ध्वा प्राप्य अनाथाः मादकरसादिपानहेतुकनाथाभाववत्त्वेन आत्मनो मन्यमानाः पादातयोधाः पादैः अतन्ति गच्छन्ति ते ते एव योधाः बन्धकाश्च न गमिष्याम न गमिष्यामः इति एतां वाचमुदीरयन्नुदैरयन् । श्लोकद्वयमेकान्वयि ॥ २।९१।५९,६० ॥
संप्रहृष्टा इति । तत्र भरतसैन्ये हस्तिनामश्वानां च आरोहा आरोहकाः सहस्रशो भरतस्यानुयातारो नराः संप्रहृष्टा वयमतितुष्टा इति विनेदुः स्वर्गो ऽयमित्यब्रुवंश्च ॥ २।९१।६१ ॥
नृत्यन्त इति । माल्योपेताः सहस्रशः सैनिकाः समन्तात्परिधावन्ति ॥ २।९१।६२ ॥
तत इति । अमृतोपमं तदन्नं भुक्तवतां तेषां सैनिकानां दिव्यान् भक्ष्यानुद्वीक्ष्य भक्षणे मतिः अभवत् । तृप्तानामपीच्छोत्पादकत्वेन भक्ष्याणामतिमनोहरत्वं व्यक्तम् ॥ २।९१।६३ ॥
प्रेष्या इति । अहतवाससः नवीनवस्त्रधारिणस्ते सर्वे प्रेष्या भृत्याः चेट्यः दास्यः बलस्थाः सैन्यनिवासिन्यः सर्वशो वध्वश्च भृशमत्यन्तं प्रीता बभूवुः ॥ २।९१।६४ ॥
कुञ्जरा इति । तत्र तस्मिन्समये कुञ्जरादयो ऽपि सुभृताः अत्यन्तं पोषिताः अतो हेतोः अतः अस्माद्भक्ष्यादेः अन्यं कञ्चन पदार्थं न अकल्पयन् अवाञ्छन् सर्वेषां सर्वमनोरथपूर्तिरभवदिति तात्पर्यम् ॥ २।९१।६५ ॥
नेति । तत्र भरद्वाजाश्रमे कश्चिन्नरः अशुक्लवासाः शुक्लवस्त्ररहितः क्षुधितः क्षुधाविशिष्टो वा मलिनः शरीरादिमालिन्यविशिष्टो वा रजसा धूल्या ध्वस्तकेशः पराभूतकेशविशिष्टो वा नासीत्, अत एव नादृश्यत । नकार उभयान्वयी । यः कश्चित् अशुक्लवासा अदृश्यत दृश्येत स नासीत् इत्याद्यर्थे तु न नकारावृत्तिः ॥ २।९१।६६ ॥
सैन्यान्तर्गतश्वादिभक्ष्याणि निर्दिशन्नाह– आजैरिति । फलनिर्यूहसंसिद्धैः फलानामाम्रादीनां
निर्यूहाः क्वाथीकृतरसाः तैः संसिद्धैः साधितैः आजैः छागमांसैः वाराहैर्वराहमांसैः निष्ठानवरसञ्चयैःसुगन्धरसविशिष्टैः सूपैः मौद्गादिभिश्च शुक्लस्य स्वच्छस्य अन्नस्य ओदनस्य ओदनेन च पूर्णाः पुष्पध्वजवतीः पुष्पनिर्मितध्वजविशिष्टाः सूपैः मौद्गादिभिश्च शुक्लस्य स्वच्छस्य अन्नस्य ओदनस्य ओदनेन च पूर्णाः पुष्पध्वजवतीः पुष्पनिर्मितध्वजविशिष्टाः सहस्रशः लौहीः सुवर्णादिपात्रीः नराः ददृशुः । श्लोकद्वयमेकान्वयि । “निष्ठानं व्यञ्जनं ज्ञेयम्” इति हलायुधः । “वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती ॥ २।९१।६७,६८ ॥
बभूवुरिति । पायसा एव कर्मदा येषु ते कूपाः वनपार्श्वेषु बभूवुः ताः तत्र स्थिताः गावः कामदुघाः इच्छाविषयीभूतपदार्थदात्र्यः आसनृ द्रुमाश्च मधुच्युतः आसन् ॥ २।९१।६९ ॥
गजादिभक्ष्याणि निर्दिशन्नाह– वाष्प इति । मैरेयपूर्णाः मद्यपूरिताः मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटशरीरजनितैः मृष्टमांसचयैः स्वच्छमांससमूहैः प्रतप्तपैठरैः प्रतप्तपिठरसंस्कृतैः पिष्टैश्च वृताः वाप्यः आसन्निति शेषःः, प्रतप्तपैठरैरित्यस्य मष्टमांसचयविशेषणत्वं वा “पिठरः कुण्ड उच्यते” इति हलायुधः ॥ २।९१।७० ॥
पात्रीणामिति । शातकुम्भमयानि सुवर्णनिर्मितानि पात्रीणामन्नस्थापनयोग्याल्पपात्राणां सहस्राणि स्थालीनां व्यञ्जनपात्राणां नियुतानि लक्षाणि पात्राणि भोजनपात्राणि न्यर्बुदानि शतकोट्यः ॥ २।९१।७१ ॥
स्थाल्यः कुम्भ्यः जलपात्रविशेषाः सुसंस्कृताः अग्निप्रतापनादिरूपसंस्कारयुक्ताः दधिपूर्णाः करम्भ्यः दधिमन्थनपात्राणि यौवनस्थस्य, नातिनवीनस्य नातिजीर्णस्य मन्थनानन्तरं यामं स्थितस्येत्यर्थः, गौरस्य केशरादिसंसर्गात् पीतवर्णस्य सुगन्धिनः सुगन्धविशिष्टस्य कपित्थस्य तक्रस्य तक्रेण पूर्णाः ह्रदाः अपरे रसालस्य जीरकादिमिश्रिताः पक्वतक्रविशेषस्य पूर्णाः अपरे श्वेतस्य दध्नः पूर्णां अन्ये पयसः पूर्णाः अन्ये शर्कराणां सम्यक् चयो येषु ते च ह्रदाः बभूवुः । “तक्रं कपित्थम्” इति वेजयन्ती । “पीतो गौरो हरिद्राभः” इति कोशः । कपित्थस्येत्यादिसम्बन्धसामान्ये षष्ठी । श्लोकद्वयमेकान्वयि ॥ २।९१।७२,७३ ॥
कल्कानिति । कल्कान् आमलक्यादिकषायान् चूर्णकषायान् लाजाचूर्णादिकल्कान् सरितां तीर्थेषु स्नानार्हघट्टेषु विद्यमानानि भाजनस्थानि विविधानि स्नानानि स्नानसाधकानि उष्णजलादीनीत्यर्थः, नरा ददृशुः ॥ २।९१।७४ ॥
शुक्लानिति । शुक्लान् स्वच्छान् अंशुमतः अग्रे कूर्चविशिष्टान् दन्तधावनसञ्चयान् दन्तधावनानां समूहान् समुद्गेषु सम्पुटेषु अवतिष्ठतः चन्दनकल्कान् घृष्टचन्दनानि च ददृशुः ॥ २।९१।७५ ॥
दर्पणानिति । परिमृष्टान् परिमार्जनं प्राप्तान् दर्पणान् वाससां वस्त्राणां सञ्चयांश्च युग्मानि द्वन्द्वानि सहस्रशः पादुकोपानहं पादुकोपानहानि तत्र पादुका काष्ठादिनिर्मितं उपानच्चर्मादिनिर्मितं पादत्राणमिति विवेकः ॥ २।९१।७६ ॥
आञ्जनीः साञ्जनकरण्डिकाः कङ्कतान् केशमार्जनान् “कङ्कतः केशमार्जनम्” इत्यमरः । कूर्चान् श्मश्रुशोधकान् मर्मत्राणानि कवचप्रभृतीनि चित्राणि विचित्राणि शयनानि आसनानि च ॥ २।९१।७७ ॥
पूर्णान् प्रतिपानानां भुक्तपरिपाचकपेयक्षारादीनां ह्रदान् अवगाह्यानि अवगाहनार्हाणि सुतीर्थानि सुघट्टाः येषु तान् सोत्पलपुष्करान् उत्पलपुष्करसहितान् ॥ २।९१।७८ ॥
आकाशवर्णप्रतिमान् नीलवर्णविशिष्टत्वेन प्रतीयमानान् स्वच्छतोयान् निर्मलतोयविशिष्टान् सुखप्लवान् सुतरान् ह्रदांश्च पशूनां निर्वापार्थं भक्षणार्थं यवससञ्चयान् तृणसमूहांश्च सर्वशः ते
सैनिकाः अत्र भरद्वाजाश्रमे ददृशुः । सार्धपञ्चानामेकत्रान्वयः ॥ २।९१।७९ ॥
व्यस्मयन्तेति । मनुष्याः स्वप्नसदृशमद्भुतं यथा स्यात्तथा कृतमातिथ्यं दृष्ट्वा व्यस्मयन्त । अर्धद्वयमेकान्वयि ॥ २।९१।८० ॥
इतीति । भरद्वाजाश्रमे रममाणानां रात्रिर्व्यत्यवर्तत ॥ २।९१।८१ ॥
प्रतिजग्मुरिति । भरद्वाजमनुज्ञाप्य तदाज्ञां गृहीत्वा नद्यादयो यथागतं जग्मुः ॥ २।९१।८२ ॥
तथैवेति । मदिरोत्कटा मदिरामत्ताः नराः तथैव अनुभवसमय इव मत्ताः एकाकारतया अवर्तन्त इत्यर्थः । मनुजैः विकीर्णाः प्रक्षिप्ता अपि स्रगुत्तमाः तथैवासन्निति शेषः, म्लानतां न प्रापुरित्यर्थः ॥ २।९१।८३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकनवतितमः सर्गः ॥ २।९१ ॥