भरद्वाजाश्रमगमनप्रकारं वर्णयन्नाह– भरद्वाजेत्यादिभिः । क्रोशात्क्रोशपरिमितभूमेः भरद्वाजाश्रमं गत्वा ज्ञात्वा दृष्ट्वेत्यर्थः, सर्वं जनमवस्थाप्य न्यस्तशस्त्रपरिच्छदः न्यस्ताः परित्यक्ताः शस्त्रपरिच्छदाः येन सः क्षौमे वाससी वसानः धर्मज्ञो भरतः पुरोहितं वसिष्ठं पुरोधाय अग्रे कृत्वा मन्त्रिभिः सह पद्भ्यामेव जगाम । श्लोकद्वयमेकान्वयि ॥ २।९०।१,२ ॥
तत इति । ततः आश्रमसमीपप्राप्त्यनन्तरं राघवो भरतः तान्सहागतान्मन्त्रिणः अवस्थाप्य संस्थाप्य अनुपुरोहितं पुरोहितस्य वसिष्ठस्य पश्चात्तस्य भरद्वाजस्य सन्दर्शने सन्दर्शनार्थं जगाम । “हर्षवान् दर्शने तस्य” इति भूषणपाठः ॥ २।९०।३ ॥
वशिष्ठमिति । अथ स्वाश्रमागमनानन्तरं वसिष्ठं दृष्ट्वैव अर्घ्यं तूर्णमानयेति शिष्यान् ब्रुवन्सन् तूर्णमासवात्सञ्चचाल । तूर्णमित्युभयान्वयि, आनयेति शेषः ॥ २।९०।४ ॥
समागम्येति । भरतेन अभिवादितः महातेजाः भरद्वाजः वसिष्ठेन समागम्य परस्परं नमस्कारपूर्वकमालिङ्ग्य तं भरतं दशरथस्य सुतमबुध्यत ॥ २।९०।५ ॥
ताभ्यामिति । ताभ्यां गुरुशिष्याभ्यामर्घ्यं पाद्यं च पश्चात्फलानि च आनुपूर्व्यात् क्रमशो दत्त्वा धर्मज्ञो भरद्वाजः कुले उभयोर्वंशे अयोध्यादिषु च कुशलं पप्रच्छ, दशरथं वृत्तं साकेतभोगे प्रवृत्तं जानन्सन् नोदाहरदपृच्छत् । श्लोकद्वयमेकान्वयि ॥ २।९०।६,७ ॥
वशिष्ठ इति । वसिष्ठो भरतश्च एनं भरद्वाजं शरीरादिषु अनामयं कुशलं पप्रच्छतुः ॥ २।९०।८ ॥
तथ्ोति । महायशाः भरद्वाजस्तथा कुशलमस्तीति प्रतिज्ञाय उत्क्त्वा राघवस्नेहबन्धनात् राघवे रामे स्नेहबन्धनात्स्नेहानुवृत्तेर्हेतोः भरतमिदं प्रत्युवाच ॥ २।९०।९ ॥
तत्प्रतिवचनाकारमाह– किमिति । राज्यं प्रशासतस्तव इहागमने कार्यं प्रयोजनं किम् एतन्मत्पृष्टं सर्वमाचक्ष्व । तत्र हेतुः मे मनो न शुध्यते प्रयोजनशङ्कातो न निवर्तते ॥ २।९०।१० ॥
शुद्ध्यभावे हेतुं वदन्नाह– सुषुव इति । आनन्दवर्धनममित्रघ्नं यं रामं कौसल्या सुषुवे जनयामास यश्च रामो वनं प्रव्राजितः साक्षात्परंपरया वा युष्माभिरिति शेषः, एतेन भवत्सु अकार्यकर्मकारित्वं प्रतीयते इति सूचितम् ॥ २।९०।११ ॥
नियुक्त इति । स्त्रीनिमित्तेन स्त्रीहेतोः चतुर्दशसमाः वर्षाणि वनवासी भवेति पित्रा यो ऽसौ महायशा रामो नियुक्तस्तस्य अपापस्य पापनिवर्तकस्य रामस्य तस्यानुजस्य लक्ष्मणस्य वा पापमपराधं कर्तुमिह राज्यं भोक्तुमनास्त्वं नेच्छसि कच्चित् । श्लोकद्वयमेकान्वयि ॥ २।९०।१२,१३ ॥
एवमिति । एवमुक्तः भरतः अत एव दुःखात् सम्भावितरामापराधजनितक्लेशात् पर्यश्रुनयनः सन् संसज्जमानया रामविषयकासक्तिविशिष्टया वाचा भरद्वाजं प्रत्युवाच ॥ २।९०।१४ ॥
तद्वचनाकारमाह– हत इति । भगवान् ज्ञानाद्यैश्वर्यवान् यदि एवमभिमन्यते जानाति तर्हि अहं हतः निहतप्रायः । तत्र हेतुः– मत्तो मद्धेतोः शेषं कञ्चित् रामापराधं नाशङ्केन पश्यामीत्यर्थः, अत एव मा अनुशाधि कथयेत्यर्थः ॥ २।९०।१५ ॥
ननु त्वन्मातृहेतुकप्रव्राजनस्य प्रसिद्धत्वात्तवानुमतिः प्रतीयत इत्यत आह– नेति । मदन्तरे मम अन्तरं दूरगमनं यस्मिन् काले तस्मिन् मे माता यदवोचत् रामप्रव्राजनार्थमकथयत् । एतेन तद्वचनेन अहं न तुष्टः अत एव तद्वचनं न आददे समीचीनत्वेन स्वीकरोमि ॥ २।९०।१६ ॥
स्वागमनप्रयोजनमाह– अहमिति । अहं तु नरव्याघ्रं रामं प्रसादकः प्रसादयितुमयोध्यायां प्रति नेतुं च अभिवन्दितुं च उपयातः प्राप्तः ॥ २।९०।१७ ॥
तमिति । एवमनेन प्रकारेण गतं प्राप्तं मां मत्वा प्रसादं प्रीतिं कर्तुमर्हसि अतः सम्प्रति इदानीं
रामः क्व अस्तीति शेषः, शंस कथय ॥ २।९०।१८ ॥
वशिष्ठादिभिरिति । वशिष्ठादिभिः याचितः अस्य नापराधः अतो ऽस्मिन् प्रसादं कुर्वित्यादिना प्रार्थितः भरद्वाजः प्रसादात् प्रीतेः भरतमुवाच ॥ २।९०।१९ ॥
तद्वचनाकारमाह– त्वयीति । गुरुवृत्तिः पित्रादिसेवा, दमः दुष्टदमनं, साधूनामनुयायिता अनुवर्तनमेतत्त्रयं त्वयि युक्तमुचितम् ॥ २।९०।२० ॥
जाने इति । ते तव मनःस्थं एतद्रामानुकूलवर्तनमहं जाने तस्यैव दृढीकरणमस्तु इति हेतोः तव कीर्तिं समभिवर्धयन् सन् अत्यर्थमत्यन्तं त्वामपृच्छम् ॥ २।९०।२१ ॥
जाने इति । रामादिकं तत्स्थितिं जाने । ननु तर्हि बोधयेत्यत आह– अयं मद्धृदयस्थः चित्रकूटे वसति ॥ २।९०।२२ ॥
श्व इति । श्वः प्रातःकाले तं देशं गन्तासि अतः अद्य वस एतं कामं मनोरथं कुरु पूरय, कामार्थकोविद इच्छाविषयीभूतार्थज्ञातः ॥ २।९०।२३ ॥
तत इति । ततः भरद्वाजोक्तिश्रवणानन्तरमुदारं भरद्वाजौदार्यं पश्यति सः प्रतीतरूपः प्रतीतं बोधितं रूपं रामानुयायित्वरूपस्वस्वरूपं येन स भरतः तथेत्येवं वचो ऽब्रवीत् अत एव महाश्रमे निशानिवासाय बुद्धिं निश्चयं चकार ॥ २।९०।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे नवतितमः सर्गः ॥ २।९० ॥