०८९ भरतादीनां प्रयागवनगमनम्

रात्रिनिवासानन्तरकालिकं वृत्तान्तमाह– व्युष्येत्यादिभिः । तत्र गङ्गाकूले एव राघवो भरतः रात्रिं व्युष्य उषित्वा कल्यं प्रातरुत्थाय शत्रुघ्नमब्रवीत् ॥ २।८९।१ ॥

तद्वचनाकारमाह– शत्रुघ्नेति । हे शत्रुघ्न त्वं किं शेषे उत्तिष्ठेत्यर्थः । तत्प्रयोजनमाह– उत्थाय गुहं शीघ्रमानय । तस्य प्रयोजनमाह– वाहिनीं गङ्गां तारयिष्यति ॥ २।८९।२ ॥

जागर्मीति । विप्रचोदितः भरतेन प्रेरितः भ्राता शत्रुघ्नस्तथैव भवत्सदृशम् आर्यं रामं विचिन्तयन्सन् जागर्मि न स्वपिमि इत्येवं वचो ऽब्रवीत् ॥ २।८९।३ ॥

इतीति । नरसिंहयोः पुरुषश्रेष्ठयोः भरतशत्रुघ्नयोः एवमनेन प्रकारेण अन्योन्यं संवदतोः सतोः प्राञ्जलिः गुहः आगम्य इति इदं वचनमब्रवीत् ॥ २।८९।४ ॥

तद्वचनाकारमाह– कच्चिदिति । हे काकुत्स्थ भरत नदीतीरे सुखं कच्चित् अवात्सीः सहसैन्यस्य तव कच्चिन्नित्यमनामयं रोगादिराहित्यम् । कच्चिदिति प्रश्ने ॥ २।८९।५ ॥

गुहस्येति । स्नेहादुदीरितमुच्चारितं गुहस्य इदं वचनं श्रुत्वा रामस्य अनुवशः अनुचरः भरतो ऽपि इदं वचनमब्रवीत् ॥ २।८९।६ ॥

तद्वचनाकारमाह– सुखेति । हे धीमन् ये वयं सुपूजिताः तेषां नः अस्माकं शर्वरी रात्रिः सुखा ऽभवदिति शेषः, बह्वीभिः नौभिः दाशाः कैवर्तकाः गङ्गां नः सन्तारयन्तु ॥ २।८९।७ ॥

तत इति । गुहः भरतशासनं श्रुत्वा ततः सन्तारणहेतोः नगरं प्रति प्रविश्य तं ज्ञातिजनमब्रवीत् ॥ २।७९।८ ॥

तद्वचनाकारमाह– उत्तिष्ठतेति । उत्तिष्ठत प्रबुध्यध्वं यूयमिति शेषः । नावः नौकाः समुपकर्षध्वं वाहिनीं गङ्गां तारयिष्यामि भरतसेनामिति शेषः ॥ २।८९।९ ॥

ते इति । तथोक्तास्ते कैवर्तकाः राजशासनात् त्वरिताः सन्तः नावां पञ्चशतानि स्वस्तिकविज्ञेयाः स्वस्तिकेन नाम्ना राजनौकाबोधकचिह्नविशेषेण वा विज्ञेयो विज्ञानं यासां ताः महाघण्टाधराः बृहद्घण्टाविशिष्टाः पुरुषास्तान् आसमन्ताद्भावेन धरन्ति ताः पताकिन्यः पताकाविशिष्टाः युक्तवाहाः युक्ताः वाहाः वाहकाः यासु ताः सुसंहताः दृढबन्धनादियुक्ताः शोभमानाः अन्याः ताभ्यो विलक्षणाश्च नावः समानिन्युः ।

“युक्तवाता” इति पाठान्तरम् । श्लोकद्वयमेकान्वयि ॥ २।८९।१०११ ॥

तत इति । ततः सर्वनौकासमानयनानन्तरं पाण्डुकम्बलेन राजोचितास्तरणीभूतकम्बलविशेषेण संवृतां सनन्दिघोषां सनन्दी आनन्दजनकः घोषो यस्यां तां स्वस्तिकविज्ञेयां नावमुपाहरत् ॥ २।८९।१२ ॥

तामिति । तां स्वस्तिकाख्यां नावं भरतादिः आरुरोह ॥ २।८९।१३ ॥

पुरोहित इति । तत्पूर्वं भरतसहितकौशल्याद्यारोहणात्पूर्वस्मिन्काले पुरोहितो वशिष्ठः गुरवः महान्तः ब्राह्मणाश्च ये सन्ति ते ऽप्यारुरुहुः । अनन्तरं भरतसहितकौशल्यारोहणादव्यवहितोत्तरकाले राजदाराः राजकुलस्त्रियः आरुरुहुः, तथा तदनन्तरं शकटापणाः शकटाः आपणाः आपणसामग्र्यश्च आरुरुहुः ॥ २।८९।१४ ॥

आवासमिति । आवासं निवासस्थानमादीपयतां वस्तुनिरीक्षणार्थं महादीपादिना प्रकाशं कुर्वतां तीर्थं गङ्गामवगाहतां च भाण्डानि पाकसाधनानि आददानानां गृह्णतां च घोषः शब्दस्तु दिवं स्वर्गमस्पृशत् ॥ २।८९।१५ ॥

पताकिन्य इति । दाशैर्धीवरैः अधिष्ठितास्ताः भरतादिभिरारूढा आशुगाः पताकिन्यो नावस्तु वहन्त्यः सत्यः जनं भरतादिं स्वयं सम्पेतुः अनायासेन उत्तारयामासुरित्यर्थः ॥ २।८९।१६ ॥

नारीणामिति । काश्चिन्नावस्तु नारीणां नारीभिः अभिपूर्णाः काश्चित्तु वाजिनामभिपूर्णाः काश्चित्तु महाधनं बहुधनविशिष्टं यानयुग्यं यानानि रथादीनि युग्यानि अश्वबलीवर्दादयस्तेषां समाहारस्तत् वहन्ति स्म ॥ २।८९।१७ ॥

ता इति । परं तीरं गत्वा तं स्वेषु स्थितं जनमवरोप्य निवृत्तास्ताः भरताद्यधिष्ठिताः नावः दाशबन्धुभिः काण्डचित्राणि काण्डे जले चित्राणि खेलनोपस्करणानि क्रियन्ते “काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु” इत्यमरः ॥ २।८९।१८ ॥

सेति । गजारोहैः प्रचोदिताः प्रेरिताः सवैजयन्ताः ध्वजसंहितास्तरन्तो गजाः सपक्षाः पर्वता इव प्रकाशन्ते स्म ॥ २।८९।१९ ॥

तरणप्रकारमेवाह– नाव इति । अन्ये बहवः नावमारुरुहुः अपरे प्लवैः वैणुतृणादिनिर्मितैस्तेरुः अन्ये कुम्भघटैः घटयुक्तघटैस्तेरुः अन्ये बाहुभिस्तेरुः ॥ २।८९।२० ॥

सेति । पुण्या नित्यं वसिष्ठादिसंसर्गेण पूता दाशैः कैवर्तकैः स्वयं गङ्गां सन्तारिता ध्वजिनी सा सेना मैत्रे मैत्रसञ्ज्ञके मुहूर्ते सूर्योदयात्तृतीये घटिकाद्वयात्मके उत्तमं प्रयागवनं प्रययौ, एतेन मुहूर्तद्वयेन गङ्गासन्तरणमिति सूचितम् । “रौद्रः सार्पस्तथा मैत्रो पौत्रो वासव एव च । आर्यो वैश्यस्तथा ब्राह्मः प्राजो रौद्रो ऽग्निरेव च ।

ऐन्द्रो ऽथ निर्ऋतिश्चैव वारुणो यमसायकौ । एते क्रमेण विज्ञेया मुहूर्ता दश पञ्च चा ॥ " इति वचनमिति ॥

२।८९।२१ ॥

आश्वासयित्वेति । महात्मा भरतः चमूं सेनामाश्वासयित्वा आश्वास्य यथोपजोषं यथासुखं निवेशयित्वा निवेश्य प्रस्थाप्य ऋषिप्रवर्यं भरद्वाजं द्रष्टुं प्रतस्थे “तूष्णीमर्थे सुखे जोषम्” इति वैजयन्ती ॥ २।८९।२२ ॥

स इति । स भरतः महात्मनो देवपुरोहितस्य उतथ्यभार्यायां बृहस्पतिजनितत्वेन देवपुरोहितत्वं प्राप्तस्य विप्रवरस्य साङ्गवेदाभ्यासिश्रेष्ठस्य ब्राह्मणस्य परब्रह्मवेदितुः भरद्वाजस्य आश्रममभ्युपेत्य प्राप्य रम्योटजवृक्ष्ादेशं रम्यपर्णशालासहितवृक्षसामीप्यविशिष्टं रम्यं महद्वनं ददर्श ॥ २।८९।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोननवतितमः सर्गः ॥ २।८९ ॥