निषादवचनश्रवणानन्तरकालिकं भरतवृत्तान्तमाह– तदित्यादिभिः । निपुणं सुयुक्तं तन्निषादभाषितं सर्वं श्रुत्वा मन्त्रिभिः सह भरतः इङ्गुदीमूलमागम्य रामशय्यामवैक्षत ॥ २।८८।१ ॥
अब्रवीदिति । इह अस्यां भूमावेव महात्मनस्तस्य रामस्य शर्वरी रात्रिः शयिता अधिकरणे निष्ठा अत एव कर्तरि षष्ठी, अस्य विमर्दितं शयनमिदमेव ॥ २।८८।२ ॥
तादृशशयनस्यानौचित्यं बोधयन्नाह– महाराजेति । महाराजकुलीनेन महाराजकुलोद्भवेन दशरथेन जातः प्रादुर्भूतो रामः उर्व्यां प्रासादपर्यङ्कादिरहितभूमौ स्वप्तुं नार्हति ॥ २।८८।३ ॥
अजिनेति । अजिनोत्तरसंस्तीर्णे अजिनं राजोत्तरास्तरणयोग्यातिमृदु मृगविशेषचर्म उत्तरमुत्तरास्तरणं तेन संस्तीर्णे आच्छादिते वराणां बहुमूल्यानामास्तरणानां सञ्चयो यस्मिंस्तस्मिन् पर्यङ्के शयित्वा महीतले कथं शेते अनुचितमेतदित्यर्थः ॥ २।८८।४ ॥
प्रासादेति । हैमानि हेमनिर्मितानि राजतानि रजतनिर्मितानि भौमानि भूतलानि येषु वराणां बहुमूल्यानामास्तरणानां शालिषु आश्रयेषु प्रासादाग्रविमानेषु प्रासादाकारोत्तमविमानेषु वलभीषु कूटागारेषु च ॥ २।८८।५ ॥
पुष्पाणां सञ्चयेन समूहेन चित्राणि तेषु चन्दनागरूणां गन्धो येषु पाण्डुराभ्रवत्प्रकाशो येषां तेषु शुकसङ्घानां रुताः शब्दा येषु तेषु ॥ २।८८।६ ॥
शीतवत्सु यथेच्छं स्वाभाविकशैत्ययुक्तेषु सुगन्धिषु स्वाभाविकगन्धविशिष्टेषु मेरुकल्पेषु सुमेरुसदृशेषु कृताः काञ्चनभित्तयो येषु प्रासादवरवर्येषु अत्युत्तमप्रासादेषु च उषित्वा ॥ २।८८।७ ॥
वराभरणानां परिचारिकाद्याभरणानां निःस्वनाः शब्दाः येषु तैर्गीतवादित्रनिर्घोषैः मृदङ्गवरशब्दैश्च प्रतिबोधितः ॥ २।८८।८ ॥
काले बन्दिभिर्बहुभिः सूतमागधैश्च अनुरूपाभिः योग्याभिः गाथाभिः प्रबन्धैः स्तुतिभिर्वंशप्रशंसावचनैश्च वन्दितः परन्तपो रामः भूमौ कथं शेते इत्यनुकर्षः । पञ्चानामेकत्रान्वयः ॥ २।८८।९ ॥
अश्रद्धेयमिति । इदं रामभूज्ञयनं मा मां सत्यं न प्रतिभाति अत एव अश्रद्धेयमत एव भावो मम मनः मुह्यते श्रुत्वेति शेषः, अतः अयं स्वप्नः इति मे मतिर्निश्चयः । एतेन रामस्य नित्यं सर्वसामग्रीपूर्णत्वं व्यक्तं तेन अघटितघटनापटीयस्त्वं व्यक्तम् ॥ २।८८।१० ॥
सत्यत्वमङ्गीकृत्याह– नेति । कालेन कालात्परमात्मेच्छाया बलवत्तरं किञ्चिद्दैवतं न यत्र यस्मिन् सति रामो भूमौ अशेत ॥ २।८८।११ ॥
यस्मिन्निति । यस्मिन्परमात्मेच्छारूपकाले सति दशरथस्य स्नुषा सीता भूमौ शयिता ॥ २।८८।१२ ॥
इयमिति । मम भ्रातुः इयं शय्या इदमावर्तितमावर्तनचिह्नम् । चिह्नमेवाह– कठिने स्थण्डिले विद्यमानं तृणं गात्रैर्विमृदितं क्षुण्णम् ॥ २।८८।१३ ॥
मन्य इति । अस्मिन् शयने साभरणाः आभरणसहिता सीता सुप्ता इत्यहं मन्ये हि यतः तत्र तत्र शयनस्य प्रदेशे प्रदेशे कनकबिन्दवः कनकाभरणानि सक्ताः रेषारूपेण संलग्ना दृश्यन्ते ॥ २।८८।१४ ॥
उत्तरीयमिति । इह असक्तं पतितमुत्तरीयं सीतया सुव्यक्तं धृतमित्यर्थः, हि यतः सक्ताः तृणादिषु संलग्नाः एते कौशेयतन्तवः तथा धारणानुमापकतया प्रकाशन्ते । यदि तु आसक्तमिति छेदः तदा संस्थापितमित्यर्थः । अस्मिन्नर्थे सुव्यक्तमित्यस्य फुटमित्यर्थः ॥ २।८८।१५ ॥
मन्ये इति । भर्तुः रामस्य शय्या सुखा अतिसुखप्रदा इत्यहं मन्ये । तत्र गमकमाह– येन सुखेन
हेतुना सुकुमारी अपि सीता दुःखं प्रवासजनितखेदं न विजानाति ॥ २।८८।१६ ॥
हेति । यत् यस्य मम सम्बन्धिनः कृते प्रयत्ने सति अनाथवत् नाथत्वाभाववानिव ईदृशीं शय्यामधिशेते सो ऽहं हतो ऽस्मि नृशंसः क्रूरो ऽस्मि हा अतिकष्टमेतत् ॥ २।८८।१७ ॥
कष्टहेतुं वदन्नाह– सार्वभौमेति । सर्वप्रियकरः इन्दीवरश्यामो रामः राज्ये त्यक्त्वा भुवि कथं शयितः । श्लोकद्वयमेकान्वयि ॥ २।८८।१८,१९ ॥
धन्य इति । विषमे अननुकूले काले यो लक्ष्मणः राममनुवर्तते स धन्यः ॥ २।८८।२० ॥
सिद्धार्थेति । या अवनं सर्वरक्षकं पतिमनुगता सा वैदेही सिद्धार्था सिद्धाः अर्थाः प्रयोजनानि यस्याः सा तेन सीतापतिना महात्मना हीनाः वयं संशयिताः प्राप्तसंशयाः अतो न सिद्धार्था इत्यर्थः ॥ २।८८।२१ ॥
अकर्णेति । अकर्णधारा कर्णधाररहिता नौरिव पृथिवी शून्या प्रतिभाति नौरित्यध्याहृतम् ॥ २।८८।२२ ॥
न चेति । तस्य रामस्य बाहुवीर्येण अभिरक्षितां वसुन्धरां पृथ्वीं कश्चिदस्मदादिः मनसापि न प्रार्थयते पृथिवीं पालयेयमिति कथञ्चिदपि नेच्छामीत्यर्थः ॥ २।८८।२३ ॥
तदेव भङ्ग्यन्तरेणाह– शून्येति । शून्या अभावप्रतियोगिनी संवरणस्य प्राकारस्य आसमन्तात् रक्षा यस्यां ताम् अयन्त्रिताः अनियमिताः हयद्विपाः यस्यां न आवृतानि पुरद्वाराणि यस्यास्तां न प्रहृष्टानि बलानि नैन्यानि यस्यामत एव न्यूनां क्षीणामत एव विषमस्थां विषमाणामनवस्थितचित्तानां स्थः स्थितिर्यस्यामत एव अनावृतां बाह्यावरणरहितामरक्षितामिदानीं रामकर्तृकरक्षारहितां राजधानीमयोध्यां विषकृतान् भक्ष्यानिव शत्रवो नाभिमन्यन्ते स्वीकर्तुं नेच्छन्ति तेन रामस्य प्रतापातिशयः सूचितः । श्लोकद्वयमेकान्वयि ॥ २।८८।२४२५ ॥
अद्येति । अद्यप्रभृति इतः कालादारभ्य भूमौ विद्यमानेषु तृणेष्वेव अहं शयिष्ये ॥ २।८८।२६ ॥
तत्प्रयोजनमाह– तस्येति । तस्य रामस्य प्रतिनिधिरहमुत्तरं कालं सुखं वने वत्स्यामि । तत्फलमाह– तत्प्रसिद्धमार्यस्य प्रतिश्रुतं प्रतिज्ञानं मित्या नैव भविष्यति ॥ २।८८।२७ ॥
वसन्तमिति । भ्रातुः अर्थाय आगमनप्रयोजनाय वसन्तं मां शत्रुघ्नो ऽनुवत्स्यति आर्यो रामः अयोध्यां पालयिष्यति पालयिता ॥ २।८८।२८ ॥
अभीति । काकुत्स्थं राममभिषेक्ष्यन्ति इमं मे मनोरथं देवाः सत्यं कुर्युरपि । अपिः सम्भावनायाम् ॥ २।८८।२९ ॥
प्रसाद्यमान इति । बहुप्रकारं शिरसा मया प्रसाद्यमानो रामः यदि न प्रपत्स्यते अयोध्यां प्राप्स्यति तदा वने चिराय बहुकालं राघवमनुवत्स्यामि । तत्र हेतुः चिरं मामुपेक्षितुं नार्हति ॥ २।८८।३० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टाशीतितमः सर्गः ॥ २।८८ ॥