गुहवचनश्रवणानन्तरकालिकं भरतवृत्तमाह– गुहस्येत्यादिभिः । अप्रियं दुःखसूचकजटाधारणादिवाचकपदवत्तया प्रीतिविषयत्वाभाववद्गुहस्य वचनं भृशं श्रुत्वा यत्र यस्मिन् रामविषये अप्रियं श्रुतं तत्र तस्मिन् विषये एव ध्यानं चिन्तां जगाम, यत्र स्थले श्रुतं तत्रैव ध्यानं जगामेति वा ॥ २।८७।१ ॥
सुकुमार इति । सुकुमारत्वादिविशिष्टो भरतः मुहूर्तं कालं प्रत्याश्वस्य चित्तस्वास्थ्यं प्राप्य सहसा दुर्मनाः सन् तोत्रैरङ्कशैर्विद्धो द्विपो गज इव ससाद अतिदुःखं प्राप । श्लोकद्वयमेकान्वयि ॥ २।८७।२,३ ॥
भरतमिति । भरतं मूर्छितं दृष्ट्वा भूमिकम्पे द्रुम इव व्यथितः अत एव विवर्णवदनः विपरीतवर्णविशिष्टमुखवान् गुहो ऽभवत् ॥ २।८७।४ ॥
तदवस्थमिति । अनन्तरस्थितः समीपस्थितिमान् शत्रुघ्नः तदवस्थं सा अतिदुःखविशिष्टा अवस्था स्थितिर्यस्य तं भरतं परिष्वज्य शोककर्षितः अत एव विसञ्ज्ञः कर्तव्यविषयकविवेकरहितः सन् उच्चैः रुरोद ॥ २।८७।५ ॥
तत इति । ततः शत्रुघ्नरोदनश्रवणानन्तरं भर्तृव्यसनकर्षिताः अत एव दीनाः क्षीणचित्ताः अत एव उपवासकृशाः सर्वा भरतस्य मातरः समापेतुः भरतस्य समीपं प्रापुः ॥ २।८७।६ ॥
ता इति । ताः भरतमातरः रुदन्त्यः सत्यः भूमौ पतितं तं भरतं पर्यवारयन् परिवृत्य अतिष्ठन् कौशल्या तु एनं भरतमनुसृत्य उत्थाप्य परिषस्वजे ॥ २।८७।७ ॥
वत्सलेति । वत्सला धेनुः स्वं वत्समिव उपगूह्य शोकलालसा शोकव्याप्ता तपस्विनी अतिविचारशीला कौशल्या भरतं परिपप्रच्छ ॥ २।८७।८ ॥
प्रश्नाकारमाह– पुत्रेति । हे पुत्र ते शरीरं व्याधिस्तु कच्चिन्न बाधते अस्य राजकुलस्य जीवितं स्थितिः त्वदधीनम् ॥ २।८७।९ ॥
तदेव भङ्ग्यरेणाह– त्वामिति । हे पुत्र राज्ञि वृत्ते साकेतं प्राप्ते सति सभ्रातृके रामे गते वनं प्राप्ते सति एकस्त्वमेव नो ऽस्माकं नाथः ॥ २।८७।१० ॥
शोकहेतुं पृच्छति– कच्चिदिति । वनं गते लक्ष्मणे एकपुत्राया मम सहभार्ये पुत्रे वा किञ्चिदप्रियं कच्चिन्न श्रुतम्, किञ्च हे पुत्र सहभार्ये भार्यासहिते वनं गते एकपुत्राया मम पुत्रे पुत्रसमीपे विद्यमाने लक्ष्मणे किञ्चिदप्रियं कच्चिन्न श्रुतम् ॥ २।८७।११ ॥
स इति । सः कौशल्यया प्रतिबोधितो भरतः मूहूर्तं रुदन्नेव समाश्वास्य स्वास्थ्यं प्राप्य कौशल्यां परिसान्त्व्य इदं वचनमब्रवीत् ॥ २।८७।१२ ॥
वचनाकारमाह– भ्रातेति । रात्रिं मे भ्राता क्व अवसत् किं भुक्त्वा कस्मिन् शयने अस्वपत् इति मे शंस कथय ॥ २।८७।१३ ॥
स इति । सः भरतेन पृष्टः अत एव हृष्टः निषादाधिपतिर्गुहः प्रियहिते प्रियः स्वविषयकप्रीतिमान् हितः स्वप्रीतिविषयीभूतः स एव स इति कर्मधारयः तस्मिन्नतिथौ रामे यद्विधं यादृशं सेवनं प्रतिपेदे प्राप चकारेत्यर्थः, तादृशमब्रवीत् ॥ २।८७।१४ ॥
सेवाकारमाह– अन्नमिति । उच्चावचमनेकविधमन्नमोदनं भक्ष्या अपूपादयः बहुशः फलमूलानि च अभ्यवहारार्थं रामाय मयापहृतं प्रापितम् ॥ २।८७।१५ ॥
तदिति । क्षत्रधर्मं क्षतो यमदूतकर्तृकहिंसनात् त्रायते स्वसंर्गिजनं रक्षतीति क्षत्रं भागीरथीतीरं तत्र यो धर्मः अन्यदीयवस्तुग्रहणान्निवृत्तिः तम्, किञ्च क्षत्राणामुपदेशद्वारा संसारदुःखाद्रक्षकाणां मनुप्रभृतीनामुक्तो यो धर्मः भागीरथीतीरे अन्यदीयवस्तुग्रहणान्निवृत्तिः तमनुस्मरन् बोधयन् सन्
तदन्नादिकं सर्वं प्रत्यनुज्ञासीत् न भक्षयिष्यामीति प्रतिज्ञां कृतवान् अतः तन्मदुपहृतमन्नादिकं न प्रत्यगृह्णात् ॥ २।८७।१६ ॥
अन्नादिग्रहणाभावबोधकं रामवचनमाह– न हीति । हे सखे सर्वदा गङ्गातीरप्राप्तिकाले देयं वस्तु अन्नादिकमस्माभिर्न प्रतिग्राह्यं दीयते एवेत्यर्थः, इति अनेन प्रकारेण तेन महात्मना रामेण सर्वे वयमनुनीताः प्रत्युक्ताः ॥ २।८७।१७ ॥
लक्ष्मणेति । लक्ष्मणेन यद्वारि आनीतं तदेव महात्मना रामेण पीतमतः उपवासं तीर्थविधिप्रयुक्तभोजनाभावमेवाकार्षीत् क्षत्रधर्ममप्रतिग्रहरूपमिति भट्टाद्युक्तिस्तु चिन्त्या शबर्यादिफलानामग्रहणापत्तेः भरद्वाजाश्रमस्य तु तदानीमपि प्रवाहाद्दूरवर्तित्वान्न तदीयवस्तुनो निषेधविषयतेति दिक् ॥ २।८७।१८ ॥
तत इति । ततः सीतारामजलपानानन्तरं जलशेषेण रामकर्तृकपानोर्वरितजलेन लक्ष्मणो ऽपि अकरोत्, तीर्थविधिमिति शेषः । संहिताः सहिताः वाग्यताः त्रयो रामादयः सन्ध्यां समुपासत ॥ २।८७।१९ ॥
सौमित्रिरिति । ततः पश्चात्सन्ध्योपासनानन्तरं सौमित्रिः लक्ष्मणः क्षिप्रं बर्हींषि दर्भादीनानीय राघवकारणात् राघवहेतोः स्वास्तरं शोभनमास्तरणमकरोत् ॥ २।८७।२० ॥
तस्मिन्निति । तस्मिन् लक्ष्मणेन कृते स्वास्तरे सीतया सह रामः समाविशत् तयोः सीतारामयोः पादौ प्रक्षाल्य लक्ष्मणः व्यपाक्रामत् रामशयनात् किञ्चिद्दूरं प्राप्य अतिष्ठत् ॥ २।८७।२१ ॥
एतदिति । तदिङ्गुद्याः वृक्षविशेषस्य मूलमेतदेव तत् तृणमिदमेव । ननु किमेतत्कथनेनेत्यत आह– अस्मिन् इङ्गुदीमूलस्थतृणास्तरणे तां रात्रिमुभौ रामः सीता च शयितौ ॥ २।८७।२२ ॥
नियम्येति । तलाङ्गुलित्रवान् तलं ज्याघातवारणमङ्गुलित्रमङ्गुलित्राणं तदुभयविशिष्टः परन्तपो लक्ष्मणः शरैर्बाणैः पूर्णौ इषुधी तूणीरौ पृष्ठे पश्चाद्भागे नियम्य बद्ध्वा सज्यं ज्यासहितं महद्धनुः उपोह्य सन्धार्य अस्य सीतारामस्य परितश्चतुर्दिक्षु केवलं सहायान्तरानाकाङ्क्षन् यथा स्यात्तथा निशां रात्रिमतिष्ठत् “कालाध्वनोः–” इति विहिता द्वितीया । “तले ज्याघातवारणम्” इत्यमरः ॥ २।८७।२३ ॥
तत इति । ततः लक्ष्मणसेवादर्शनानन्तरं यत्र लक्ष्मणस्तत्र उत्तमबाणचापभृत् अतन्द्रितैः निद्रारहितैः आत्तकार्मुकैः गृहीतधनुर्भिः ज्ञातिभिरुपलक्षितो ऽहं महेन्द्रकल्पं रामं परिपालयन् रक्षन् सन् स्थितः अभवम् ॥ २।८७।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ २।८७ ॥