०८६ गुहेन रामवृत्तान्तकथनम्

आश्वासनप्रकारमाह– आचचक्ष इत्यादिभिः । अथ भरतदुर्मनस्त्वप्राप्त्यनन्तरं महात्मनो लक्ष्मणस्य सद्भावं ज्येष्ठानुवर्तनरूपसत्स्वभावं गुहः भरताय आचचक्षे ॥ २।८६।१ ॥

तत्कथनप्रकारमाह– तमिति । गुणैः सेवानुकूलधर्मैः युक्तं भ्रातृगुप्त्यर्थं भ्रातुः रक्षायै वरचापेषुधारिणं जाग्रतं तं लक्षणमहमब्रुवम् । “शरचापासिधारिणम्” इति भूषणपाठः । एकहस्ते शरयुक्तचापमपरहस्तेन असिं च दधानमिति तद्व्याख्या ॥ २।८६।२ ॥

तद्वचनप्रकारमाह– इयमित्यादिभिः । इयमित्यारभ्य परिदेवयमानस्येत्येतत्पर्यन्तं श्लोकाः न व्याख्यायन्ते । एकपञ्चाशत्तमे सर्गे गुहलक्ष्मणसंवादे प्राय एतदानुपूर्वीकत्वेनैव पठितत्वादिति तद्व्याख्यानेनैवैषां व्याख्यानं बोध्यम् ॥ २।८६।३ ॥

उचित इति ॥ २।८६।४ ॥

नहीति । रामात्प्रियतरो मम कश्चन न अतः उत्सुकः जागरणविषयकौत्सुक्यविशिष्टः मा भूः ॥ २।८६।५२३ ॥

प्रभात इति । प्रभाते प्रातःकाले विमले अन्धकारनिवर्तके सूर्ये सूर्योदयकाले इत्यर्थः । उभौ रामलक्ष्मणौ जटाः कारयित्वा मया सुखं सन्तारितौ गङ्गापारं प्रापितौ ॥ २।८६।२४ ॥

जटेति । जटाधरौ धृतजटौ द्रुमचीरवाससौ वरेषुचापासिधरौ व्यपेक्षमाणौ इतस्ततो ऽवलोकयन्तौ सीतया सह गतौ ॥ २।८६।२५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षडशीतितमः सर्गः ॥ २।८६ ॥