निषादप्रार्थनानन्तरकालिकं वृत्तमाह– एवमित्यादिभिः । एवमुक्तो भरतः हेत्वर्थसंहितं हेतुरुपपत्तिः । अर्थः प्रयोजनं ताभ्यां संहितं युक्तं वाक्यं प्रत्युवाच ॥ २।८५।१ ॥
वाक्याकारमाह– ऊर्जित इति । यस्त्वमीदृशीं महतीं सेनामभ्यर्चयितुमिच्छसि तेन ते त्वया ऊर्जितः महान् कामः स्वेच्छाविषयीभूतसत्कारः कृतः अतः परं न किञ्चित्कर्तव्यमस्तीत्यर्थः ॥ २।८५।२ ॥
इतीति । स महातेजाः भरतः इत्युक्त्वा पन्थानं स्वगन्तव्यमार्गं दर्शयन्नङ्गुल्या बोधयन्पृच्छन्नित्यर्थः, पुनरब्रवीत् ॥ २।८५।३ ॥
तत्प्रकारमाह– कतरेणेति । भरद्वाजाश्रमं कतरेण मार्गेण गमिष्यामि अयं गङ्गानूपः गङ्गातीरदेशः गहनः वृक्षैर्निबिडः अत एव दुरत्ययः मार्गमन्तरा गन्तुमशक्यः । कतरेणेत्यनेन द्वौ मार्गौ दृश्यमानाविति सूचितम् ॥ २।८५।४ ॥
तस्येति । राजपुत्रस्य भरतस्य वचनं श्रुत्वा गहनगोचरः वनाभिज्ञः गुहः अब्रवीत् ॥ २।८५।५ ॥
तद्वचनाकारमाह– दाशा इति । देशज्ञाः सुसमाहिताः एकाग्रचित्ताः दाशाः धीवराः अनुगमिष्यन्ति अहं चानुगमिष्यामि त्वामिति शेषः, एतेन मार्गप्रश्नस्य न प्रयोजनमिति सूचितम् ॥ २।८५।६ ॥
कच्चिदिति । अक्लिष्टकर्मणो रामस्य दुष्टः दूषकः सन् कच्चिन्न व्रजसि कच्चिदिति शङ्कायाम् । ननु कुत एवमाशङ्कसे इत्यत आह– महती अतिप्रवृद्धा इयं ते सेनाशङ्कां जनयति ॥ २।८५।७ ॥
तमिति । एवमभिभाषन्तं तं गुहमाकाश इव निर्मलः सर्वकालं दोषसंसर्गरहितः भरतः अब्रवीत् ॥ २।८५।८ ॥
मेति । यद्यस्मिन् काले कष्टं त्वदाशङ्कास्पदीभूतदुःखमूलं भ्रातृद्रोह इत्यर्थः, स कालो मा भूत् । विरोधायोग्यतां बोधयन्नाह– ज्येष्ठो मे भ्राता राघवो रामः मम पितृसमः, एतेन तत्र विरोधाशङ्का कदाचिन्न कर्तव्येति सूचितम् ॥ २।८५।९ ॥
ननु किमर्थं गमनमित्यत आह– तमिति । वनवासिनं तं रामं निवर्तयितुं यामि ते तुभ्यं सत्यं ब्रवीमि अतः अन्या विरोधविषयिणी बुद्धिर्न कार्या ॥ २।८५।१० ॥
स इति । भरतभाषितं श्रुत्वा संहृष्टवदनः स गुहः भरतं पुनरब्रवीत् ॥ २।८५।११ ॥
तद्वचनाकारमाह– धन्य इति । यस्त्वमयत्नात्प्रयत्नमन्तरा आगतं पित्राद्याज्ञया प्राप्तं राज्यं त्यक्तुमिच्छसि स त्वं धन्यः त्वया तुल्यं सदृशं जगतीतले न पश्यामि ॥ २।७५।१२ ॥
शाश्वतीति । यस्त्वं कृछ्रगतं वनवासजनितक्लेशवन्तं रामं प्रत्यानयितुं प्रत्यानेतुमिच्छसि तस्य ते शाश्वती कीर्तिः लोकाननुचरिष्यति ॥ २।८५।१३ ॥
एवमिति । भरतमेवं सम्भाषमाणस्य गुहस्य संबन्धी सूर्यः नष्टप्रभः सन् बभौ । अत एव रजनी रात्रिः अभ्यवर्तत । सूर्ये गुहसम्बन्धस्तु तात्कालिकपरिदृश्यमानत्वरूपः । यदि तु “षष्ठी चानादरे” इति षष्ठी तदा नैवं सम्बन्धकल्पना ॥ २।८५।१४ ॥
समिति । गुहेन परितोषितः भरतः तां सेनां संनिवेश्य संनिवेशयितुमाज्ञाप्य शत्रुघ्नेन समं शयनमागमत् ॥ २।८५।१५ ॥
रामेति । धर्मप्रेक्षस्य धर्ममात्रदृष्टेः अत एव अनर्हस्य शोकायोग्यस्य महात्मनो भरतस्य तादृशः अतिदुःसहः रामचिन्तामयः रामचिन्ताप्रचुरः शोकः उपस्थितः ॥ २।८५।१६ ॥
अन्तरिति । दहनः शोकवह्निर्दाहेन शोकाग्निना सन्तप्तं राघवं भरतमन्तः सन्तापयति, तत्र दृष्टान्तः वनदाहाग्निना वनदाहकवह्निना सन्तप्तं पादपं वृक्षं गूढः कोटरादौ केनचित्प्रक्षिप्तः अग्निरिव, अत्र वनदाहकाग्निस्थानापन्नो दशरथशोको बोध्यः ॥ २।८५।१७ ॥
प्रस्रुत इति । सर्वगात्रेभ्यः शोकाग्निसम्भवं स्वेदं प्रस्रुतः प्रस्रावयामास, भरत इति शेषः । कर्तरि निष्ठा । तत्र दृष्टान्तः सूर्याग्निसन्तप्तो हिमं प्रस्रुतो हिमवान् यथा ॥ २।७५।१८ ॥
वियोगदुःखस्य पर्वतरूपकत्वं वर्णयन्नाह– ध्यानेति द्वाभ्याम् । ध्यानमुत्कण्ठापूर्वकरामस्मरणमेव निर्दरशैलः निच्छिद्रप्रस्तरो यस्मिँस्तेन विनिःश्वसितमुच्छ्वास एव धातुर्गैरिकादिर्यस्मिँस्तेन, दैन्यं दीनता एव पादपसङ्घः वृक्षसमूहो यस्मिँस्तेन, शोकायासः शोकजनितखेद एव अधि अधिरूढं श्रृङ्गं तद्वता, प्रमोहा एव अनन्तसत्त्वानि व्याघ्रादयो यस्मिन् तेन, सन्तापा एव ओषधिवेणवो यस्मिन् तेन, महता अतिप्रवृद्धेन दुःखशैलेन दुःखपर्वतेन आक्रान्तः कैकेयीसुतः अभवदिति शेषः । “मज्जता” इति भट्टपाठः । मग्नं कुर्वतेति तद्व्याख्या । श्लोकद्वयमेकान्वयि ॥ २।८५।१९२० ॥
विनिःश्वसन्निति । ततः तस्माद्दुःखपर्वताद्धेतोः भृशदुर्मनाः अत एव प्रमूढसञ्ज्ञः प्रमूढा विवेकरहिता सञ्ज्ञा बुद्धिर्यस्य सः अत एव परमापदमत्यापत्तिं गतः प्राप्तः अत एव हृदयज्वरेण आर्तः पीडितः नरर्षभो भरतः विनिःश्वसन्सन् शमं शान्तिं न लेभे, तत्र दृष्टान्तः यूथहतः यूथच्युतः ऋषभो वृषभ इव “यूथगतः” इति भूषणपाठः । यूथगतः यूथाद्गतः यूथाद्भ्रष्ट इत्यर्थः, इति तद्व्याख्या ॥ २।८५।२१ ॥
गुहेनेति । गुहेन सार्धं समागतः आलिङ्गितो यो भरतः अग्रजं प्रति दुर्मनाः तं भरतं सजनः स्वजनसहितः समाहितः एकाग्रचित्तः गुहः शनैः पुनः समाश्वासयत् ॥ २।८५।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ २।८५ ॥