०८४ गुह-भरतसंवादः

ससैन्यभरतस्थित्यानन्तरकालिकं वृत्तमाह– तत इत्यादिभिः । निविष्टां गङ्गातीरे संस्थितामत एव गङ्गामन्वाश्रितां सेवमानां ध्वजिनीं भरतसेनां दृष्ट्वैव परितो विद्यमानान् ज्ञातीन् निषादराजो ऽब्रवीत् ॥ २।८४।१ ॥

तद्वचनाकारमाह– महतीति । सागराभा समुद्रसदृशी महती इयं सेना इतः अस्मादेव स्थानात्प्रदृश्यते अत एव अस्य सैन्यस्य मनसापि अन्तं निवर्तकं चिन्तयन्सन्न अवगच्छामि निश्चिनोमि ॥ २।८४।२ ॥

ननु किं निश्चयाभावेनेत्यत आह– यदेति । महाकायः उन्नतशरीरः रथे कोविदारध्वजः कोविदारसदृशः ध्वजो यस्य स स्वयमागतः एष भरतः यदा खलु दुर्बुद्धिः रामसंप्रदानकद्रोहवानित्यर्थः, तदा पित्रा विवासितं राममनु विद्यमानानस्मान्वधिष्यति पाशैर्बन्धयिष्यति वा । श्लोकद्वयमेकान्वयि ॥ २।८४।३,४ ॥

द्रोहे स्वोहितहेतुं वदन्नाह– सम्पन्नामिति । सम्पन्नां श्रियमन्विच्छन् भरतः हन्तुं समुपगच्छति राममित्रवर्गानिति शेषः ॥ २।८४।५ ॥

ननु ततः किमित्यत आह– भर्तेति । मम भर्त्रादिः राम एव एतेन वयमपि तद्द्वेष्या इति सूचितम् । रामानुयायित्वादस्माभिरपि तदुपकृतिः कर्तव्येति बोधयन्नाह– तस्य रामस्य अर्थकामाः प्रयोजनसिद्धिविषयकेच्छावन्तः अत एव सन्नद्धाः धृतकवचाः यूयं गङ्गानूपे गङ्गातीरे तिष्ठत ॥ २।८४।६ ॥

स्थितिप्रयोजनं वदन्नाह– तिष्ठन्त्विति । बलयुक्ताः सेनासहिताः नदीरक्षाः सेनातरणवारणादिना नदीरक्षणकर्तारः अत एव गङ्गामन्वाश्रिताः सर्वे दाशाः धीवराः भवन्तः तिष्ठन्तु ॥ २।८४।७ ॥

तरणवारणप्रकारमाह– नावामिति । पञ्चानां शतानां प्रञ्चशतसङ्ख्याकानां नावामुपरि संनद्धानां यूनां कैवर्तानां शतं शतं तिष्ठतु गङ्गादक्षिणकूले इति शेषः, इति अभ्यचोदयत् गुह इति शेषः । एतेन नौकालाभाभावेन तरणप्रतिबन्धो ऽर्थतः सेत्स्यतीति सूचितम् ॥ २।८४।८ ॥

ननु नावो ऽपि दूरदेशं नेतव्या इत्यत आह– यदीति । इह अस्मिन्समये भरतः यदि रामस्य तुष्टस्तोषको भविष्यति तदा स्वस्तिमती इयं तदीया सेना अद्यैव तरिष्यति तेन नावो दूरं प्रनेतव्या इति व्यञ्जितम् ॥ २।८४।९ ॥

इतीति । इत्युक्त्वा मत्स्यादीनि गृहीत्वा भरतमभिचक्राम जगाम तत्र मत्स्यः दैन्यनिवर्तकवायुमान् औषधिविशेषः । तथाहि मदो दैन्यस्य सो नाशः तद्वान् अः वायुर्यस्य सः “अः कृष्णः शङ्करो ब्रह्मा शक्रः सोमो ऽनिलो ऽनलः” इति मात्रिका । मांसं राजभोग्यवस्तुविशेषः अस्य तत्त्वमनुपदमेव वक्ष्यते मधु पुष्परसः ॥ २।८४।१० ॥

तमिति । समयज्ञो विनीतवान् सूतपुत्रः सुमन्त्रः भरताय आचचक्षे कथयामास ॥ २।८४।११ ॥

तत्प्रकारमाह– एष इति । ज्ञातिसहस्रेण परिवारितः युक्तः स्थपतिः अधीशः दण्डकारण्ये कुशलः तद्विषयकविशेषज्ञानवान् एषः गुहः ते भ्रातुः रामस्य सखा तस्माद्धेतोर्गुहः त्वां पश्यतु प्रतीहारैर्निवारितो न स्यादित्यर्थः । यत्र तौ रामलक्ष्मणौ तं देशमसंशयं यथा स्यात्तथा विजानीते । श्लोकद्वयमेकान्वयि ॥ २।८४।१२,१३ ॥

एतदिति । भरतः एतत् शुभं वचनं श्रुत्वा गुहः मां शीघ्रं पश्यतु कश्चिन्न निवारयत्वित्यर्थः, इति वचनमुवाच ॥ २।८४।१४ ॥

लब्ध्वेति । अनुज्ञामाज्ञां लब्ध्वा संप्रहृष्टो गुहः प्रह्वः कृतशिरोनतिः सन्नागम्य वचनमब्रवीत् ॥ २।८४।१५ ॥

वचनाकारमाह– निष्कुट इति । निष्कुटः गृहारामतुल्यः भवद्भोगयोग्य इत्यर्थः, अयं देशो ऽस्तीति शेषः । ते त्वत्सेवका वयं तु वञ्चिताः स्वानवधानतया प्रलम्भिताः । एतेन प्रत्युद्गमनकरणाभावप्रयुक्तः पश्चात्तापस्तस्य सूचितः । सेवकोचितमाह– सर्वं वृत्तजातं ते निवेदयाम अतः स्वके स्वकीये दाशगृहे अस्मदधिष्ठितभवने वस ॥ २।८४।१६ ॥

अस्तीति । निषादैः स्वयमर्जितं वन्यं वनोद्भवम् उच्चावचमार्द्रं शुष्कं च एतन्मूलफलं मांसं राजभोग्यं वस्तु विशेषश्च अस्ति एतत्स्वीकुर्वित्यर्थः “मांसं स्यादामिषे क्लीबम्” इति मेदिनीकोशेन मांसशब्दस्यामिषार्थकत्वमवगतम् । आमिषशब्दस्य भोग्यवस्तुपरत्वं तु “भोग्यवस्तुनि सम्भोगे़ ऽप्युत्कोचे पलले ऽपि च” इति तत्कोशादेवेति बोध्यम् ॥ २।८४।१७ ॥

आशंसे इति । स्वाशिता सुभोजिता सेना एनां विभावरीं रात्रिं वसतु विविधैः कामैः अस्मन्मनोरथैरर्चितः ससैन्यस्त्वं श्वः प्रातर्गमिष्यसि गन्तासि ॥ २।८४।१८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ २।८४ ॥