०८३ शृङ्गिबेरपुरे भरतवासः

यात्रासामग्रीसम्पत्त्यनन्तरकालिकवृत्तमाह– तत इति । कल्यं प्रातःकाले स्यन्दनोत्तममास्थाय भरतः प्रययौ ॥ २।८३।१ ॥

अग्रत इति । सर्वे मन्त्रिपुरोहिताः रथानधिरुह्य तस्य भरतस्य अग्रतः अग्रे प्रययुः ॥ २।८३।२ ॥

सैन्यसङ्ख्यां बोधयन्नाह– नवेति । यथाविधि यथोचितं कल्पितानि क्रमेण्ा संनिवेशितानि नागसहस्राणि नवनवसहस्रसङ्ख्याकगजाः भरतमन्वयुः अनुजग्मुः ॥ २।८३।३ ॥

षष्टिरिति । रथसहस्राणि षष्टिः षष्टिसहस्रसङ्ख्याकरथाः विविधायुधाः अनेकविधायुधविशिष्टाः धन्विनश्च अन्वयुः ॥ २।८३।४ ॥

शतमिति । समारूढानि अश्ववारैर्विशिष्टानि अश्वानां शतं सहस्राणि शतसहस्रसङ्ख्याकाश्वाः अन्वयुः ॥ २।८३।५ ॥

कैकेयीति । रामानयनसन्तुष्टाः रामानयनहेतुकप्राप्तसन्तोषाः केकय्यादयो ययुः । आदौ केकय्युपादानं तत्सन्तोषस्यातिशयद्योतनाय तेन तस्याः रामविषयकभीत्यतिशयः सूचितः ॥ २।८३।६ ॥

प्रयाता इति । तस्य रामस्य विचित्राः कथाः कुर्वाणाः आर्यसङ्घाताः आर्याणां वशिष्ठादीनां सङ्घाताः समूहाः प्रयाताः अभवन्निति शेषः ॥ २।८३।७ ॥

कथाप्रकारं बोधयन्नाह– मेघेत्यादिद्वाभ्याम् । जगतः शोकनाशनं रामं कदा द्रक्ष्यामहे ॥ २।८३।८ ॥

दर्शने फलमाह– दृष्ट इति । नो ऽस्माकं दृष्ट एव राघवः उद्यन् उदयं प्राप्नुवन् भास्करः सर्वलोकस्य तमो ऽन्धकारमिव नः शोकमपनेष्पति । न इत्युभयान्वयि पूर्वत्र सम्बन्धसामान्यविवक्षया षष्ठी ॥ २।८३।९ ॥

इतीति । इति एवंप्रकारेण शुभाः कथाः कथयन्तः अत एवान्योन्यं परिष्वजानाः नागरिकाः अयोध्यावासिनो जनाः ययुः ॥ २।८३।१० ॥

य इति । तत्रायोध्यायां ये नैगमाः वणिजः सम्मताः भरतेनाज्ञप्ता इत्यर्थः, ते अपरे अनाज्ञप्ताश्च प्रकृतयः प्रजाश्च रामं प्रति ययुः ॥ २।८३।११ ॥

मणिकारा इति । ये मणिकाराः शाणादिना मणीनां शोधकाः ते च कुम्भकाराश्च सूत्रकर्मविशेषज्ञाः सूत्रकर्मविषयकविशेषज्ञानवन्तस्तन्तुवायादयः ये शस्त्रोपजीविनः शस्त्रनिर्माणादिना प्राप्तजीविकावन्तस्ते च ॥ २।८३।१२ ॥

मायूरकाः मयूरपिच्छरचितव्यजनादिना प्राप्तजीविकावन्तः, क्राकचिकाः क्रकचाः करपत्राणि चन्दनादिचूर्णकारणीभूततक्षशस्त्रविशेषास्तैर्जीवन्ति ये ते “क्रकचो ऽस्त्रीकरपत्रं स्यात्” इत्यमरः । वेधकाः मणिमुक्तादिछिद्रकारकाः, रोचकाः स्वक्रियाकौशलेन गृहादिषु कान्त्युत्पादकाः, दन्तकाराः गजदन्तोपादानककार्यनिष्पादकाः, सुधाकाराः प्रासादादिलेपनकारणीभूतपाषाणादिभस्मकारकाः, गन्धोपजीविनः सुगन्धद्रव्यक्रयविक्रयकर्तारः ॥ २।८३।१३ ॥

प्रख्याताः प्रसिद्धाः सुवर्णकाराः, कम्बलकारकाश्च स्नापकाः उष्णोदकादिना स्नाननिर्वाहकाः, उष्णोदकाः अङ्गनिपीडकाः ते च ते चेति द्वन्द्वः । “उष्णोदकं समुल्लेखोद्वाहनोद्वर्तनेषु च” इति कोशः । किञ्च स्नापकाः स्नानसाधकाः, उष्णोदकाः उदकोष्णकर्तारः “स्नापकोच्छादकाः” इति भूषणपाठः । उच्छादकाः अङ्गमर्दका इति तद्व्याख्या वैद्याश्च धूपिकाः धूपक्रियाजनितजीविकावन्तः, शौण्डिकाः मद्यनिर्माणकर्तारः “शुण्डा करिकरे मद्ये” इति वैजयन्ती ॥ २।८३।१४ ॥

रजकाः वस्त्रप्रक्षालनजीविकावन्तः, तुन्नवायाः सूच्या सीवनजीविकावन्तः “तुन्नवायस्तु सौचिकः” इत्यमरः । ग्रामघोषमहत्तराः ग्रामघोषयोर्महत्तराः तत्तदधीशा इत्यर्थः । तत्र घोष आभीरपल्ली, स्त्रीभिः सह सहिताः शैलूषा नटाः कैवर्तकाः धीवराश्च यान्ति ययुः । श्लोकचतुष्टयमेकान्वयि । “शैलूषो नटबिल्वयोः” इति मेदिनी । “कैवर्ते दाशधीवरौ” इत्यमरः ॥ २।८३।१५ ॥

समाहिता इति । समाहिताः रामावेशितचित्ताः वृत्तसम्मताः वृत्तं वर्तनं सम्मतं सच्छास्त्रानुकूलं येषां ते सहस्रशो ब्राह्मणाः गोरथैर्भरतमनुजग्मुः ॥ २।८३।१६ ॥

सुवेषा इति । ताम्रमृष्टानुलेपिनः ताम्रेण रक्तवर्णेन मृष्टं संयुक्तं यदनुलेपनं तद्वन्तः सर्वे ते अयोध्यावासिनः भरतमन्वयुः ॥ २।८३।१७ ॥

प्रहृष्टेति । प्रहृष्टेन भरतहर्षेण मुदिता प्रहृष्टा सा सेना भरतमन्वयात् ॥ २।८३।१८ ॥

ते इति । ते भरतादयः रथादिभिः दूरमध्वानं गत्वा श्रृङ्गवेपुरं प्रति तत्समीपे गङ्गां समासेदुः ॥ २।८३।१९ ॥

तत्प्रकारमाह– यत्रेति । ज्ञातिगणैः ज्ञातिसमूहैः वृतः गुहः अप्रमादेन प्रमादरहितत्वेन परिपालयन् रक्षन्सन् यत्र देशे निवसति तं देशमुपेत्य प्राप्य चक्रवाकैरलङ्कृतं गङ्गायास्तीरं भरतस्यानुयायिनी सा सेना व्यवातिष्ठत । श्लोकद्वयमेकान्वयि ॥ २।८३।२०,२१ ॥

निरीक्ष्येति । अनुत्थितां गङ्गातीरे संस्थितामित्यर्थः, तां सेनां शिवोदकां मङ्गलप्रदोदकविशिष्टां गङ्गां निरीक्ष्य भरतः सचिवानब्रवीत् ॥ २।८३।२२ ॥

वचनाकारमाह– निवेशयतेति । अभिप्रायेण तत्तदिच्छया सर्वतः चतुर्दिक्षु मे सैन्यं निवेशयत । तत्प्रयोजनमाह– इदानीं विश्रान्ताः गतश्रमाः वयं श्वः प्रातः इमां प्रसिद्धां नदीं गङ्गां प्रतरिष्यामः प्रतरिताः स्म ॥ २।८३।२३ ॥

तत्र स्थितौ प्रयोजनान्तरमाह– दातुमिति । नदीं गङ्गामवतीर्य स्वः सर्वपरं लोकं साकेतं गतस्य प्राप्तस्य महीपतेः पितुः और्ध्वदेहनिमित्तार्थमौर्ध्वदेहानामूर्ध्वगतशरीराणां निमित्तमर्थः प्रार्थना यस्य तदुदकं दातुमिच्छामि ॥ २।८३।२४ ॥

तस्येति । ब्रुवतस्तस्य भरतस्य एवं वचनं तथेत्युक्त्वा समाहिताः सचिवास्तां सेनां स्वेन स्वेन छन्देन स्वस्वेच्छया पृथक् पृथक् न्यवेशयन् ॥ २।८३।२५ ॥

निवेश्येति । परिबर्हशोभिनीं परिबर्हैः यात्रोपयोगिपटवेश्माद्युपकरणजातैः शोभते तच्छीलिनीं चमूं सेनां विधानैः यथोचितस्थापनादिविधिभिः महानदीं गङ्गामनु निवेश्य महात्मनो रामस्य निवर्तनमयोध्यागमनं विचिन्तमानः चिन्तयमानो भरतः उवास “तथोपकरणं प्रोक्तं परिबर्हः परिच्छदः” इति हलायुधः ॥ २।८३।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रमायणशिरोमणावयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ २।८३ ॥