कौशल्यावृत्तं बोधयन्नाह– तमिति । भूमिपं राजानं स्वर्गस्थमप्रकटसाकेतपुरस्थं प्रेक्ष्य ज्ञात्वा अत एव तं तदधिष्ठितागारं संशान्तं प्रज्वलनरहितमग्निमिव अम्बुहीनमर्णवमिव गतप्रभं निवृत्ततेजसमादित्यमिव प्रेक्ष्य शोककर्षिता शोकेन वियोगजनितदुःखेन कर्शिता पीडिता अत एव बाष्पैः अश्रुभिः पूर्णे अक्षिणी यस्याः सा कौशल्या विविधमनेकप्रकारेण रचितं राज्ञः शिरः शय्याग्रभागमुपगृह्य गृहीत्वा कैकेयीं केकयीदासीं मन्थरां प्रत्यभाषत “अग्रे प्रधाने च शिरः” इति नानार्थः । श्लोकद्वयमेकान्वयि ॥ २।६६।१,२ ॥
तत्प्रतिभाषणमेवाह– सकामेति । नृशंसे क्रूरस्वभावे अत एव दुष्टचारिणि कैकेयि मन्थरे राजानं त्यक्त्वा इमं इमं लोकं त्याजयित्वा एकाग्रा स्वस्थचित्ता सती त्वम् अकण्टकं विघ्नरहितं राज्यं भुङ्क्ष्व अत एव सकामा प्राप्तस्वमनोरथा भव ॥ २।६६।३ ॥
ननु स्वामिन्यास्तव सत्त्वे कथं मम राज्यभोग इत्यत आह– विहायेति । मां विहाय रामो गतः वनमिति शेषः, भर्ता च स्वः सर्वतः परलोकं गतः अतः विपथे दुर्गममार्गे सार्थहीना रक्षणयोग्यपथिकजनरहिता इवाहं जीवितुं पालयितुं नोत्सहे ॥ २।६६।४ ॥
ननु त्वदतिरिक्तानामपि बहूनां राजस्त्रीणां सत्त्वात्तदायत्तं राज्यं स्यादित्यत आह– भर्तारमिति । आत्मनः दैवतं देवं भर्तारं परित्यज्य अन्यत्र भर्तृरहितस्थाने त्यक्तधर्मणः त्यक्तः धर्मः
स्वामिसंरक्षणरूपा सेवकरीतिर्ययातस्याः कैकेय्याः केकयीदास्यास्तव सन्निधौ का मदन्यापि स्त्री जीवितुमिच्छेन्न कापीत्यर्थः ॥ २।६६।५ ॥
नेति । कैकेय्या कैकेयीदास्या राघवाणां कुलं हतं पीडितम् तत्र निमित्तं कारणं कुब्जा तन्निष्ठकुब्जात्वं कुब्जात्वविशिष्टा प्रायः कुटिला भवन्तीति प्रसिद्धम् । एतेन स्वनिष्ठकौटिल्यधर्मेणाकार्यमपि कृतमिति ध्वनितं तेन कौटिल्यविशिष्टैरकार्यं न गण्यते इति ध्वनितम् । तत्र दृष्टान्तः लुब्धः स्वजीवनविषयकलोभविशिष्टः जनः किम्पाकं ब्राह्मण्यनाशकनिषिद्धलशुनपाकादिकं भक्षयन् चिरकालजीवनहेतुभूतं किञ्चिद्व्याधिनिवर्तनार्थं खादन्सन्नपि दोषान्भक्षणजनितदुरितानि न बुध्यते । इवो ऽप्यर्थे ॥ २।६६।६ ॥
अनियोग इति । अनियोगे नियोगानुचितकाले नियुक्तेन नियोगकर्त्रा राज्ञा विवासितं सभार्यं भार्यासहितं रामं श्रुत्वा जनकः मिथिलाधीशः अहमिव परितप्स्यति ॥ २।६६।७ ॥
स इति । जीवन्नाशं जीवतां सफलजन्मनामृषीणां नाशः विध्वंसो यस्मिन्देशे तं देशमितो गतः धार्मिको रामः विधवां लोकान्तरगमनकर्तृत्वेन धवरहितामत एव अनाथां मामद्य न जानाति वृत्तश्रवणजनितज्ञानवान्नास्तीत्यर्थः । “जीवनाशम्” इति पाठान्तरं तत्रापि स एवार्थः ॥ २।६६।८ ॥
विदेहेति । चारुतपस्विनी पतिसेवाविषयकसुविचारविशिष्टा विदेहराजस्य सुता वने दुःखमनुभूयेति शेषः । पर्युद्विजिष्यति उद्वेगं प्राप्स्यति ॥ २।६६।९ ॥
नदतामिति । नदतां नादं कुर्वतां भीमघोषाणां भयङ्करघोषकारकस्वभावविशिष्टानां मृगादीनां निशम्यमाना नादमिति शेषः, अत एव सन्त्रस्ता सीता राघवं संश्रयिष्यति रामकण्ठसंलग्ना भविष्यति । किञ्च भीमघोषाणां भयङ्करशब्दविशिष्टानां मृगादीनां नदतां नादं निशम्यमानेत्यर्थः । “निशम्य नादम्” इति पाठान्तरमिति भट्टाः ॥ २।६६।१० ॥
वृद्ध इति । वृद्धः ज्ञानवयोभ्यामधिको ऽपि अल्पपुत्रः अल्पः एक इत्यर्थः, पुत्रः पुत्रसदृशः कन्येत्यर्थः यस्य स जनकः वैदेहीं वनगमनजनितवैदेहीदुःखमनुचिन्तयन्नत एव शोकसमाविष्टः सञ्जीवितं प्रजापालनं त्यक्ष्यति पुत्रशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ २।६६।११ ॥
सेति । सा प्राप्तपुत्रपतिवियोगा पतिव्रताहमिदं परिदृश्यमानं शरीरं राजशरीरसम्बन्धिशय्यावस्त्रादिकमालिङ्ग्य हुताशनं वह्निलोकं प्रवेक्ष्यामि प्रवेशनानुकूलव्यापारानुकूलेच्छावत्यस्मीत्यर्थः । अत एव दिष्टान्तं कालगतिरहितं पत्यधिष्ठितसाकेतमित्यर्थः, गमिष्यामि संयोगानुकूलव्यापारानुकूलकृतिमती भविष्यामीत्यर्थः । एतेन साकेतलोकस्य मार्गो वह्निलोक इति ध्वनितम् ॥ २।६६।१२ ॥
तामिति । तां राजशय्यां परिष्वज्य विलपन्तीं कौशल्यां व्यावहारिकाः राजकुलोचितव्यवहारे नियुक्ताः जनाः व्यपनिन्युः शय्यातो ऽन्यत्र प्रापयामासुः ॥ २।६६।१३ ॥
तैलेति । तदा कौशल्याया अन्यत्र नयनसमये आदिष्टाः वशिष्ठेनाज्ञप्ताः राज्ञो मान्याः राजसत्कृता जनाः तैलद्रोण्यां, तानां चौराणां अयौ प्राणलक्ष्म्यौ लान्ति गृह्णन्ति ते तेषां द्वारपानां द्रोणीस्थितिर्यस्यां स्थल्यां तस्यां जगतीपतिं जगत्याः पतिः स्थितो यस्मिँस्तं पर्यङ्कं संवेश्य संस्थाप्य अनन्तरं विघ्नरहितं यथा स्यात्तथा कर्माणि तत्कालोचितकृत्यानि अथ कृत्स्नं यथा भवति तथा चक्रुः । “द्रोणी काष्टाम्बुवाहिन्यां गवां घासभुजि स्थितौ” इति विश्वः । “तश्चौरामृतपुच्छेषु” इति मेदिनी । “अः कृष्णः शङ्करो ब्रह्मा शक्रः सोमो ऽनिलो ऽनलः । सूर्यः प्राणो यमः कामो वसन्तः प्रणवः सुखः” इति मात्रिका “लक्ष्मीरीकार उच्यते” इत्येकाक्षरः ॥ २।६६।१४ ॥
ननु शय्यारक्षणं किमर्थमित्यत आह– नेति । राज्ञः पुत्रेण विना सङ्कालनं सविधिप्रक्षेपं कर्तुं
सर्वज्ञा अपि मन्त्रिणः न ईषुः ततः तस्मात् हेतोः भूमिपं राजपर्यङ्कं रक्षन्ति ॥ २।६६।१५ ॥
तैलेति । तं राजपर्यङ्कं तैलद्रोण्यां प्रतिष्ठतद्वारपरक्षितस्थल्यां सचिवैः शायितं तं राजपर्यङ्कं नराधिपं ज्ञात्वा पर्यङ्के राजा शयान इति निश्चित्येत्यर्थः, अयं राजा अमृतः मृतसदृशः पुत्रवियोगेन मूर्छित इत्यर्थः, हा अतिकष्टमेतदिति ताः राजगमनवृत्तान्तानभिज्ञाः स्त्रियः पर्यदेवयन् ॥ २।६६।१६ ॥
कौशल्यादीनां विलापं वर्णयन्नाह– बाहूनिति । नेत्रप्रस्रवणैः नेत्रेभ्यः प्रस्रवः अश्रुप्रच्युतिर्येषु तैर्मुखैरुपलक्षिताः बाहूनुच्छ्रित्य उत्क्षिप्य रुदन्त्यः शोकसन्तप्ताः स्त्रियः कृपणं यथा स्यात्तथा पर्यदेवयन्विविधमुच्चारयामासुः ॥ २।६६।१७ ॥
परिदेवनाकारमाह– हेत्यादिभिः । रामेण विहीनाः नो ऽस्मान् किमर्थं विजहासि ॥ २।६६।१८ ॥
कैकेय्या इति सपत्न्याः कैकेय्याः सम्बन्धिन्याः दुष्टभावायाः दृष्टो भावश्चिन्तनं यस्यास्तस्याः मन्थरायाः समीपे धवरहिताः वयं कथं वत्स्यामः यदि चायं सपत्नीशब्दः शार्ङ्गरवादिस्तदा सामानाधिकरण्येनैवान्वयः । कैकेय्या इत्यस्य केकयीदास्या इत्यर्थः ॥ २।६६।१९ ॥
स इति । प्रभुः निखिलसामर्थ्यविशिष्टः अत एव आत्मवानधिधैर्यवान्यो रामः अस्माकं तव च नाथः स रामः नृपतिश्रियं राजलक्ष्मीं विहाय वनं गतः ॥ २।६६।२० ॥
त्वयेति । त्वया तेन रामेण च विना व्यसनमोहिताः व्यसनेन दुःखेन मोहिताः कर्तव्यविषयकविवेकरहिताः अत एव विदूषिताः कार्पण्यादिदोषविशिष्टाः वयं कैकेय्या मन्थरया सह कथं निवत्स्यामः ॥ २।६६।२१ ॥
ययेति । यया मन्थरया राजादयः सन्त्यक्ताः वियोजिताः सा मन्थरा अन्यं भरतादिकं कं न हास्यति वियोजयिष्यति ॥ २।६६।२२ ॥
राजस्त्रीणां विलापमुपसंहन्नाह– ता इति । बाष्पादिना संवीताः संयुक्ता राघवस्य दशरथस्य वरस्त्रियः व्यचेष्टन्तः विविधचेष्टामकुर्वत ॥ २।६६।२३ ॥
निशेति । नक्षत्रहीना निशेव भर्तृवर्जिता पाणिग्रहीतृरहिता स्त्रीव महात्मना राज्ञा रहिता अयोध्या पुरी न अराजत ॥ २।६६।२४ ॥
तदेव भङ्ग्यन्तरेणाह– बाष्पेति । बाष्पपर्याकुला बाष्पैर्व्याप्ताः जनाः यस्यां सा, हाहाभूताः कुलाङ्गनाः यस्यां सा, शून्याः संमार्जनादिरहिताः चत्वरवेश्मान्ताः यस्यां सा, यथापुरं न बभ्राज । चत्वरश्चतुष्पथः वेश्मान्तो द्वारम् ॥ २।६६।२५ ॥
गत इति । नराधिपे दशरथे त्रिदिवं त्रिभिः ब्रह्मादिभिः दीव्यते स्तूयते असौ तं
साकेतं गते सति नृपाङ्गनासु महीतलस्थासु सतीषु रविः निवृत्तचारः निवृत्तकिरणप्रचारः सन्गतो ऽस्तमिति शेषः, अत एव प्रवृत्तचारा प्रवृत्तः चारः तमःसञ्चारो यस्यां सा रजनी उपस्थिता प्राप्ता ॥ २।६६।२६ ॥
याचकानां वृत्तान्तं वर्णयन्नाह– ऋते इति । समागताः सुहृदः नृपतेर्दशरथात्पुत्राद्रामाच्च ऋते विना दहनं सर्वेषां सन्तापं नारोचयन् असहन्नितीव अतो हेतोः अचिन्त्यं चिन्तयितुमशक्यं दर्शनं अवलोकननिश्चयो यस्य तं राजानं विचिन्त्य शयने पर्यङ्कसन्निधौ न्यवेशयन् न्यविशन् ॥ २।६६।२७ ॥
गतेति । भास्करं विना गतप्रभा नष्टप्रकाशा द्यौरिव व्यपेताः अन्धकारादिना तिरोहिताः नक्षत्रगणाः यस्यां सा शर्वरी रात्रिरिव महात्मना रामादिना रहिता अत एव आकण्ठं कण्ठमभिव्याप्य
वर्तमानानि अस्राणि अश्रूणि येषु ते कण्ठाः येषां तैः, आकुलानि निबिडानि मार्गचत्वराणि यस्याः सा पुरी बभासे न बभासे इत्यर्थः । मगधेष्विवोशीनरेषु यवा इत्यादाविव नञर्थलाभः “नचाश्रुकण्ठा” इति भूषणपाठः ॥ २।६६।२८ ॥
भरतपरिकरवृत्तान्तं वर्णयन्नाह– नरा इति । भरतस्य सम्बन्धिनो नगर्यां विद्यमानाः ये नरादयस्ते सङ्घशः नरदेवसङ्क्षये नरदेवशोभनगृहे विद्यमानां भरतस्य मातरं समेत्य प्राप्य विगर्हमाणाः स्वस्वभाग्यं निन्दन्तः सन्तः आर्ता बभूवु अत एव शर्म सुखं न लेभिरे भरतस्येत्युभयान्वयि ॥ २।६६।२९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ २।६६ ॥