०६५ अन्तःपुरशोकः

अप्रकटसाकेतस्थराजैश्वर्यं वर्णयन्नाह– अथेति । अथ अप्रकटसाकेतलोकप्रस्थानानन्तरं रात्र्यां व्यतीतायां सत्यामपरे ऽहनि प्रातरेव बन्दिनः राजस्तुतिकर्तारः परमसंस्काराश्छन्दोव्याकरणाध्ययनाध्यापनजनितसंस्कारविशिष्टवाणीविशिष्टाः सूताः वंशपरम्पराप्रवक्तारश्च मङ्गलाः गणपत्यादिस्तवपाठकाश्च उत्तमश्रुताः उत्तमं श्रुतं गानाभिज्ञमुखेभ्यः श्रवणं येषां ते अतिशिक्षावन्त इत्यर्थः । अत एव श्रुतिशीलाः श्रवणश्रावणकर्मपरिशीलनकर्तारः अत एव पृथक् पृथक् निगदन्तः स्वस्वाभिज्ञतां दर्शयन्तो गायकाश्च पार्थिवनिवेशनमप्रकटसाकेतान्तर्वर्तिराजाधिष्ठितगृहं पर्युपातिष्ठन्प्रापुः । श्लोकद्वयमेकान्वयि । “परमसंस्कारा मागधाश्च” इति पाठान्तरं राजवंशपरम्परावक्तार इति तदर्थः अस्मिन्पक्षे सूतशब्दः पौराणिकार्थकः ॥ २।६५।१,२ ॥

राजानमिति । उदात्तेन उच्चैः त्वरेण अभिहिताः प्रयुक्ताः आशिषो यैस्तेषां राजानं स्तुवतां तोषयतां बन्द्यादीनां प्रासादाभोगविस्तीर्णः प्रासादानां देवगृहादीनामाभोगेषु मध्येषु विस्तीर्ण विस्तारो यस्य सः स्तुतिशब्दो ऽवर्तत ॥ २।६५।३ ॥

तत इति । ततः शब्दप्रवृत्त्यनन्तरं तेषां सूतानां स्तुवतां सतां पाणिवादकाः तालगत्यनुरोधेन पाणिवादनकुशलाः पुरुषाः अपदानानि राजकुलप्रभूतविचित्रचरितानि उदाहृत्य पाणिवादान्पाणिरूपवाद्यानि अवादयन् ॥ २।६५।४ ॥

तेनेति । तेन पाण्यादिवादनजनितेन शब्देन प्रतिबुद्धा इव शाखास्थाः पुष्पवाटिकादिवृक्षशाखानिवासिनः ये राजकुलगोचराः राजकुलमात्रनिवसनशीलाः अत एव पञ्जरस्थाः विहगाः ते च सस्वनुः ॥ २।६५।५ ॥

व्याहृता इति । व्याहृता ब्राह्मणशुकाद्युच्चारिताः पुण्याः वेददेवादिसम्बन्धित्वेन पवित्रकारका एव शब्दाः वीणानां निःस्वनाश्च तद्राजाधिष्ठितं वेश्म गृहं पूरयामासुः गाथानां ब्राह्मणादिरचितप्रबन्धानां सम्बन्धि आशीर्गेयम् आशिषो राजाभिप्रेतस्य गेयं गानं च पूरयामास पूरयामासेत्यस्य वचनविपरिणामेनान्यत्राप्यन्वयः ॥ २।६५।६ ॥

तत इति । ततः ब्राह्मणादिशब्दश्रवणानन्तरं शुचिः कपटसंसर्गशून्यः समाचारः सम्यगाचरणं येषां ते स्त्रियश्च वर्षवराः क्लीबानि च तैः भूयिष्ठाः अधिकाः पर्युपस्थाने सेवायां कोविदाः निपुणाः जनाः पुरा यथा प्रकटायोध्यास्थितिसमये इव उपतस्थुः । एतेन असाधारणदशरथपरिकरा अपि दशरथेन सहैव अप्रकटसाकेतलोकं प्रापुरिति व्यञ्जितम् ॥ २।६५।७ ॥

सेवाकारमाह– हरीति । स्नानशिक्षाज्ञाः स्नानशिक्षां यथाविधिस्नानशासनं जानन्ति ताः पूर्वोक्ताः स्नादयः हरिचन्दनैः सम्पृक्तं सम्मिश्रमुदकं काञ्चनैर्घटैर्यथाकालं यथाविधि आनिन्युः ॥ २।६५।८ ॥

मङ्गलेति । मङ्गलालम्भनीयानि मङ्गलहेतुकस्पर्शयोग्यानि गोप्रभृतीनि प्राशनीयानि दन्तधावनानन्तरं गण्डूषेण प्राशनयोग्यानि गङ्गोदकनारिकेलोदकजीरकोदकानि उपस्करान्वस्त्राभरणदर्पणादीन्कुमारीणां बहुलमाधिक्यं यासु ताः पुण्याः दोषरहिताः स्त्रियः उपानिन्युः ॥ २।६५।९ ॥

सर्वेति । सर्वैः निखिलैः लक्षणैः सम्पन्नं युक्तमत एव अर्चितं प्रशंसाविशिष्टं सुगुणलक्ष्मीवच्छोभनाः गुणाः सम्पादकत्वेन यस्मिन्नत एव लक्ष्मीवच्छोभासम्पत्तिभ्यां विशिष्टं तदेव तदिति कर्मधारयः यत्सर्वं निखिलमाभिहारिकं मङ्गलार्थं राज्ञे प्रातः प्रापणीयं तत्सर्वं विधिवदभूत् ॥ २।६५।१० ॥

अप्रकटसाकेतलोकप्राप्तराजसम्पत्तिं संवर्ण्य राजकर्तृकगमनानन्तरकालिकप्रकटसाकेतलोकजनवृत्तान्तं वर्णयन्नाह– तत इत्यादिभिः । परिसमुत्सुकं रामवृत्तान्तश्रवणफलकराजदर्शनौत्सुक्यविशिष्टं यत्सर्वं प्रकटायोध्याजनजातं यावत्सूर्योदयं सूर्योदयपर्यन्तं तस्थौ तज्जनजातमनुपसम्प्राप्तं बहिर्गमनाभावविशिष्टराजानं ज्ञात्वा स्वित् इदं राजानागमनं किं किंनिमित्तकमित्युपशङ्कितं शङ्कां प्राप उपलक्ष्येत्यध्याहृतम् ॥ २।६५।११ ॥

अथेति । अथ सूर्योदयानन्तरं कोशलेन्द्रस्य दशरथस्य अनन्तराः समीवर्तिन्यः याः स्त्रियस्तास्तु शयनं शय्यां प्रति सङ्गम्य भर्तारं राजानं प्रत्यबोधयन् ॥ २।६५।१२ ॥

अथेति । अथ प्रबोधनानन्तरं तत्प्रबोधोपलम्भाभावानन्तरमित्यर्थः । उचितवृत्ताः उचितं योग्यं वृत्तं बोधनविषयिणी प्रवृत्तिर्यासां ताः स्त्रियः विनयेन नम्रतया नयेन यथोचितरीत्या अस्य राज्ञः शयनं शय्यां स्पृष्ट्वा अत्रास्ति नास्ति वेति शङ्कानिवृत्त्यर्थं संस्पृश्य किञ्चिद्राजनित्यधार्यं वस्त्रादिकमपि न उपलेभिरे शय्यायां न प्रापुः । एतेन सवस्त्राभरणशरीरसहितः साकेतलोकं जगामेति सूचितम् ॥ २।६५।१३ ॥

ता इति । राज्ञः चेष्टासञ्चलनादिषु चेष्टा कायव्यापारः असञ्चलनादयः प्रकृतिविपर्यासाभावप्रभृतयः तेषु प्राणेषु इन्द्रियेषु च शङ्किताः स्वप्नशीलज्ञाः स्वप्नसूचकस्वभावज्ञानवत्यस्ताः अमृतपाणयस्ताः राजदर्शनार्थमागताः वेपथुपरीताः राजशरीराद्यदर्शनेन कम्पयुक्तदेहाः स्त्रियः प्रतिस्रोतस्तृणाग्राणां स्रोतः समीपोद्भूतवेतसप्रभृतिकोमलतृणाग्रभागानां सदृशं कम्पवत्त्वेन तुल्यं यथा स्यात्तथा सञ्चकाशिरे, यद्वा ताः अदृष्टराजशरीराः स्वप्नशीलज्ञास्ताः अमृतपाणयः राज्ञः स्त्रियः चेष्टादिषु स्वकायव्यापारादिषु शङ्किताः अत एव तृणाग्राणां सदृशं वेपथुपरीताः सत्यः सञ्चकाशिरे । सार्धश्लोक एकान्वयी । “तश्चौरामृतपुच्छेषु” इति मेदिनी ॥ २।६५।१४ ॥

अथेति । अथ प्रकम्पप्राप्त्यनन्तरं पार्थिवं पार्थिवशयनस्थानमेव दृष्ट्वा सन्दिहानानां सन्देहमानानां स्त्रीणां यत्पापं दुःखदायकत्वेन पापसदृशं स्वलोकान्तरगमनमित्यर्थः । आशङ्कितं राज्ञा कथितमित्यर्थः । तत्तस्य विनिश्चयस्तदा तस्मिन्काले जज्ञे पार्थिवमित्यत्र तस्येदमित्यण् । नच तदपवादस्य वृद्धाच्छ इत्यस्य प्रवृत्त्या कथमणुच्यत इति वाच्यं “सञ्ज्ञायां वा” इत्यनेन वृद्धसञ्ज्ञायां वैकल्पिकत्वात्तस्याः प्राप्ताप्राप्तविभाषात्वेन “वृद्धिर्यस्याचामादि–” इत्यस्यापि निवर्तिकात्वादिति दिक् । अर्धद्वयमेकान्वयि ॥ २।६५।१५ ॥

कौशल्येति । पुत्रशोकेन पराजिते अत एव कालसमन्विते अन्तकालयुक्ते इव प्रसुप्ते कौशल्यासुमित्रा च न प्रबुध्येते जागृतः ॥ २।६५।१६ ॥

निष्प्रभेति । शोकेन सन्नता पराभूता सन्नादुःखिता कौशल्या तिमिरावृता अन्धकाराच्छन्ना तारेव न व्यराजत अशोभत ॥ २।६५।१७ ॥

कौसल्येति । राज्ञो ऽनन्तरं समीपे विद्यमाना या कौशल्या न विभ्राजतेस्म सा कौशल्या तदनन्तरं तत्सन्निधौ विद्यमाना सुमित्रा च न विभ्राजते स्म अत एव देवी शेषराजपत्नी न विभ्राजते स्म ॥ २।६५।१८ ॥

ते इति । उभे कौशल्यासुमित्रे देव्यौ सुप्ते इव दृष्ट्वा नृपं नृपसम्बन्धि शयनं तमाकाशमिव शून्यं दृष्ट्वा विद्यमानमन्तःपुरमुद्गतालयं प्राप्ताः प्राणा इन्द्रियाणि यस्य तदिव अत एव सुप्तं स्वापाश्रयीभूतमिव अदृश्यत । नृपशब्दः इदमर्थाण्णन्तः वृद्ध्यभावस्तु सञ्ज्ञापूर्वकविधेरनित्यत्वात् ॥ २।६५।१९ ॥

तत इति । ततः राजदर्शनाभावाद्यनन्तरं वराङ्गनाः राजपत्न्यः प्रचुक्रुशुः तत्र दृष्टान्तः स्थानात्स्वसमीपात्प्रच्युतः क्वचिद्गतः यूथपो यासां ताः करेणव इव ॥ २।६५।२० ॥

तासामिति । कौशल्या सुमित्रा च आक्रन्दशब्देन रोदनस्वनेन त्यक्तनिद्रे त्यक्ता विनष्टा निद्रा तत्सदृशमूर्छा ययोस्ते अत एव उद्गतचेतने प्राप्तचैतन्ये बभूवतुः ॥ २।६५।२१ ॥

कौसल्येति । पार्थिवं पार्थिवशय्यां धरणीतले पेततुः ॥ २।६५।२२ ॥

सेति । महीतले चेष्टमाना लुण्ठन्ती अत एव रजोध्वस्ता धूलीं प्राप्ता कोशलेन्द्रदुहिता कौशल्या गगनच्युता तारेव न भ्राजते ॥ २।६५।२३ ॥

नृप इति । नृपे राजनि शान्तगुणे जाते पालकत्वाभावत्वं प्राप्ते सतीत्यर्थः । भुवि पतितां कौशल्यां हतां नागवधूमिव अपश्यन् ॥ २।६५।२४ ॥

तत इति । कैकेयीप्रमुखाः केकयीप्रभृतयः निपेतुः ॥ २।६५।२५ ॥

ताभिरिति । क्रोशन्तीभिः ताभिः स्त्रीभिः बलवान् अतिवृद्धो नादः अनुद्रुतः प्रापितः येन नादेन भूयः अधिकं यथा स्यात्तथा स्फीतीकृतः प्रवर्धितः नादः प्रतिध्वनिरित्यर्थः, गृहं समनादयत् अतिनादविशिष्टमकरोत् ॥ २।६५।२६ ॥

तदिति । तासां स्त्रीणां परित्रस्तं अत्युद्वेगत्वेन सम्भ्रान्ताः ते एव पर्युत्सुकाः वृत्तान्तश्रवणौत्सुक्यवन्तस्ते एव जनास्तैः आकुलं व्याप्तमत एव तुमुलः वचनान्तरश्रवणाभावसम्पादकः आक्रन्दो यस्मिन्नत एव परितापेन आर्ता व्याप्ताः बान्धवाः यस्मिन्नत एव दीनं क्षीणमत एव विक्लवं विक्लवकारकं दर्शनं यस्य तद्दिष्टान्तं दिष्टस्य कालस्य अन्तः अभावो यस्मिंस्तं लोकम् ईयुषः प्राप्तस्य नरदेवस्य वेश्म गृहं बभूव । अर्धचतुष्टयमेकान्वयि । “दिष्टं दैवे पुमान्काले” इति मेदिनी ॥ २।६५।२७,२८ ॥

अतीतमिति । पार्थिवर्षभमतीतं लोकान्तरगतमाज्ञाय परिवार्य शयनस्थानं परिवृत्य बाहू प्रगृह्य अन्योन्यं गृहीत्वा करुणं रुदन्त्यः पत्नयः तत्पत्न्यः व्यलपन् विविधमकथयन् ॥ २।६५।२९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ २।६५ ॥