०६३ दशरथेन पूर्वकृतबालवधकथनम्

राजवृत्तमाह– प्रतिबुद्ध इति । मूहूर्तेन प्रतिबुद्धः गतनिद्रः शोकोपहतचेतनः राजा दशरथः चिन्तामभ्यपद्यत प्राप्नोत् ॥ २।६३।१ ॥

तदेव भङ्ग्यन्तरेणाह– रामेति । वासवोपममिन्द्रसदृशं तं दशरथं विवासाद्धेतोः उपसर्गः उपद्रवहेतुभूतशोक आपेदे प्राप्नोत्तत्र दृष्टान्तः आसुरं राहुसम्बन्धि तमः सूर्यमिव ॥ २।६३।२ ॥

सेति । रामे गते सति कोशलेश्वरः राजा आत्मनः दुष्कृतं स्मृत्वा वियोगहेतुत्वेन प्रकल्प्येत्यर्थः । असितापाङ्गीं कौशल्यां विवक्षुः वक्तुमिच्छुः आसीदिति शेषः ॥ २।६३।३ ॥

स इति । रामे वनं प्रव्राजिते सति षष्ठीं रजनीं रात्रिमुपलभ्य अर्धरात्रे कृतं स्वनिष्पादितं दृष्कृतं स राजा दशरथो ऽस्मरत् क्रमशः सस्मार ॥ २।६३।४ ॥

स इति । पुत्रशोकार्तां कौशल्यामिदं वचनमब्रवीत् ॥ २।६३।५ ॥

वचनाकारमाह– यदिति । हे कल्याणि शुभं विहितमशुभमविहितं वा यदाचरति तत् आत्मनः कर्मजं शुभाशुभकर्मजनितं शुभमशुभं वा सुखं दुःखं वेत्यर्थः । कर्ता लभते एव शुभाशुभशब्दौ कार्यकारणयोस्तादात्म्यादुभयपरौ ॥ २।६३।६ ॥

गुर्विति । आरम्भे आरम्भसमये कर्मणां गुरुलाघवं वा फलं सुखं दोषं दुःखं वा यो न जानाति स बाल इत्युच्यते ॥ २।६३।७ ॥

कश्चिदिति । यः कश्चित्पुरुषः पुष्पमतिमनोहरपलाशकुसुमं दृष्ट्वा फले गृध्नुरभिलाषी सन् आम्रवणं छित्त्वा इदं न मनोहरपुष्पकमित्यस्य फलं न स्वादु भवितेति बुद्ध्या संछिद्य पलाशान्निषिञ्चति सः पुरुषः फलागमे फलप्राप्तिसमये शोचति तत्फलकटुत्वमुपलभ्य पश्चात्तापं करोतीत्यर्थः ॥ २।६३।८ ॥

अविज्ञायेति । यः पुरुषः फलमविज्ञाय इदं ममेष्टदमित्यविचार्य कर्म लौकिकीं वैदिकीं वा क्रियां अनुधावति करोति सः पुरुषः फलवेलायां शोचेत् तत्र दृष्टान्तः किंशुकस्य पलाशस्य सेचक इव ॥ २।६३।९ ॥

स इति । सः कर्मफलविषयकविवेकरहितो ऽहमाम्रवणं तत्स्थानीयं शुभकर्म छित्त्वा पलाशाँस्तत्स्थानीयाशुभकर्माणि न्यषेचयमकरवमतः फलागमे तत्कर्मफलप्राप्तिसमये रामं त्यक्त्वा पश्चाच्छोचामि ॥ २।६३।१० ॥

ननु तत्किं दुष्कृतं कर्मेत्यत आह– लब्धेति । लब्धः श्रुतः शब्दो येन तेन धनुष्मता कुमारः शब्दवेधी अयं कुमारः शब्दश्रवणमात्रेण लक्ष्यान्विध्यतीति प्रशंसाविशिष्टेन मया पापं कृतम् ॥ २।६३।११ ॥

तदिति । तत्तस्मात्कर्मणः स्वयं कृतं निष्पादितमिदं वियोगजनितं दुःखं सम्प्राप्तं तत्र दृष्टान्तान्तरमाह– मोहादिदं दुःखदमिति ज्ञानाभावाद्बालेन यथा विषं भक्षितम् ॥ २।६३।१२ ॥

तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह– यथेति । यथा कश्चित्प्राकृतः पुरुषः पलाशैः पलाशकुसुमैः मोहितः इदमनिष्टफलकमिति ज्ञानाभाववान् सन् भवेच्छुभफलकमिति तत्फलाभिकाङ्क्षी स्यात्तथा मयापि इदमशुभं फलं यस्य तच्छब्दवेध्यमविज्ञातमत एव शब्बवेध्यमिदं फलं प्रशंसारूपशुभफलदमिदमिति मोहितो ऽभवमिति शेषः ॥ २।६३।१३ ॥

सङ्क्षिप्योक्तं सकारणं कर्म विशदयन्नाह– देवीत्यादिभिः । हे देवि यदा त्वमनूढा विवाहरहिता अभवः अहं युवराजो भवामि अभवंस्ततस्तदा भौमान्भूमौ प्राप्तान् रसानपास्य संत्याज्य शोषयित्वेत्यर्थः । तत्र हेतुः– अंशुभिः किरणैः जगत्तप्त्वा परेताचरितां परेतसेवितामत एव भीमां दिशं दक्षिणामित्यर्थः । रविराचरते प्राप्नोत् अत एव कामविवर्धिनी प्रावृडनुप्राप्ता । श्लोकद्वयमेकान्वयि ॥

२।६३।१४,१५ ॥

उष्णमिति । स्निग्धाः सजलाः मेघाः ददृशिरे अत एव उष्णमन्तर्दधे तिरोबभूव ततस्तस्माद्धेतोर्भेकादयः जहृषिरे तत्र भेक्ताः मण्डूकाः, सारङ्गाः हरिणाश्चातकाश्च, बर्हिणः मयूराः ॥ २।६३।१६ ॥

क्लिन्नेति । क्लिन्ना आर्द्राः पक्षोत्तराः पक्षोत्तरभागाः येषां ते अत एव कृच्छाद्व्रतविशेषाद्धेतोरिव स्नाताः पतत्ित्रणः पक्षिणः वृष्टिवाताभ्यामवधूतानि अग्राणि येषां तान्पादपान्वृक्षानभिपेदिरे प्रापुः ॥ २।६३।१७ ॥

पतितेनेति । पतितेन भूतकालोद्भवपातविशिष्टेन पतमानेन वर्तमानकालोद्भवपातविशिष्टेन च अम्भसा जलेन आछन्नः मत्तसारङ्गः मदविशिष्टगजः अचलः तरङ्गरहितः तोयराशिः समुद्र इव आबभौ “सारङ्गो हरिणे भृङ्गे चातके शबले गजे” इति च निघण्टुः ॥ २।६३।१८ ॥

पाण्डुरेति । विमलानि मलरहितान्यपि स्त्रोतांसि भुजङ्गवत्कुटिलगतिमत्त्वेन भुजङ्गसदृशानि गिरिधातुभ्यः हेतुभ्यः पाण्डुरारुणवर्णानि पाण्डुरवर्णारुणवर्णविशिष्टानि सभस्मानि भस्मसम्बन्धाद्भस्मसहितानि च सुस्रुवुः ॥ २।६३।१९ ॥

तस्मिन्निति । अतिसुखे अतिसुखकरे तस्मिन्काले धनुष्मान् धुनर्विशिष्टः इषुमान्बाणविशिष्टः रथी रथविशिष्टः अजितेन्द्रियः न जितानि मृगयाविहारान्निवर्तितानीन्द्रियाणि येन सः अत एव व्यायामे मृगयाविहारे कृतः सङ्कल्पो निश्चयो येन सः अत एव महि प्रशंसनीये निपाने नदीजलपानोचितनदीप्रदेशे अभ्यागतं प्राप्तं षम् उपद्रवकारकं गजं मृगं हिंसार्थमन्वेषणकर्तारमन्यद्वा किन्दिच्छ्वापदं व्याघ्रादिं जिघांसुरहं सरयूं नदीमन्वगाम् । श्लोकद्वयमेकान्वयि । “उपसर्गे परीक्षे च षकारः परिकीर्तितः” इत्येकाक्षरः । एको वाशब्दः हेतौ ॥ २।६३।२०२१ ॥

अथेति । अथ सरयूतीरगमनानन्तरमन्धकारे अन्धकारसमये जले पूर्यतः पूर्यमाणस्य कुम्भस्य घटस्य अचक्षुर्विषये प्रभूतं घोषं नर्दतः वारणस्य घोषमिव अश्रौषम् ॥ २।६३।२२ ॥

तत इति । ततस्तच्छब्दश्रवणानन्तरमाशीविषोपमं शरमुद्धृत्य गजप्रेप्सुः वध्यत्वेन गजं प्राप्तुमिच्छुरहमभिलक्ष्यं लक्ष्यगजसमीपवर्तिनः शब्द प्रति अपातयमत्यजम् ॥ २।६३।२३ ॥

अमुञ्चमिति । पदानि शितं तीक्ष्णं बाणमहममुञ्चं तत्र तस्मिन्नुषसि प्रातःकाले बाणात् व्यथितमर्मणः अत एव तोये पततः वनौकसः वनवासिनः हा हेति शब्देन व्यक्ता वाक् प्रादुरासीत् । सार्धश्लोक एकान्वयी ॥ २।६३।२४ ॥

तस्मिन्निति । तस्मिन् वनवासिनि तत्र भूमौ निपतिते सति अस्मद्विधे तपस्विनि तपोनिरते शस्त्रं कथं निपतेत् इति मानुषी मनुष्योच्चारिता वागभूत् मम शत्रोरभावादसम्भवमेतदिति तात्पर्यम् । अर्धद्वयमेकान्वयि ॥ २।६३।२५ ॥

प्रविविक्तामिति । उदाहारः उदकाहरणकर्ता यो ऽहं प्रविविक्तां जनसञ्चाररहितां नदीमागतः सो ऽहं केन पुरुषेण इषुणा बाणेनाभिहतः कस्य पुरुषस्य मयापकृतम् ॥ २।६३।२६ ॥

ऋष्ोरिति । न्यस्तदण्डस्य त्यक्तपरपीडनस्य वन्येन फलादिना जीवितः मद्विधस्य ऋषेः शस्त्रेण वधः कथं विधीयते ॥ २।६३।२७ ॥

जटेति । जटाभारधरस्य द्रव्यादिभाररहितस्येत्यर्थः । मम वधेन को ऽर्थी धनादिमान् स्यात् । नन्वपकारिवध एवार्थ इत्यत आह– कस्य मया ऽपकृतं न कस्यापीत्यर्थः ॥ २।६३।२८ ॥

एवमिति । एवमनेन प्रकारेण निष्फलं फलरहितं कर्म आरब्धं आरम्भकर्तारं केवलानर्थसंहितं केवलानर्थेन प्रयोजनसंसर्गशून्यस्वार्थविध्वंसेन संहितं सहितं जनं क्वचित्कस्मिंश्चिल्लोके

गुरुतल्पगमिव साधु न मन्येत । एतेन साधुकृतमिति कश्चिन्न वदिष्यतीत्यर्थः ॥ २।६३।२९ ॥

नेति । मद्वधे सति मातरं पितरमुभौ यथानुशोचामि तथात्मनः स्वस्य इमं प्राप्त जीवितक्षयं प्राणनाशं नानुशोचमि ॥ २।६३।३० ॥

तदिति । मया चिरकालभृतं बहुकालं पोषितं वृद्धं तदेतन्मिथुनं मातापितृयुग्मं मयि पञ्चत्वमापन्ने प्राप्ते सति कां वृत्तिं जीविकां वर्तयिष्यति प्राप्स्यति ॥ २।६३।३१ ॥

वृद्धाविति । यस्य मातापितरौ वृद्धौ सो ऽहमकृतात्मना अनिश्चितान्तःकरणेन अत एव सुबालेन केन पुरुषेणैकेषुणा एकबाणेन हतो ऽस्मि येनैकस्यापि हननेन वयं सर्वे निहताः रक्षकाभावान्मातापितरावपि निहतप्रायावित्यर्थः ॥ २।६३।३२ ॥

तामिति । करुणां कारुण्यजनिकां तां गिरं श्रुत्वा विद्यमानस्य धर्मानुकाङ्क्षिणः धर्ममात्रापेक्षासहितस्य अत एव व्यथितस्य मे सशरं शरान्तरसहितं चापं भुव्यपतत् ॥ २।६३।३३ ॥

तस्येति । विलपतस्तस्य ऋषेः करुणं करुणाजनकं वचः श्रुत्वा शोकवेगेन भृशं सम्भ्रान्तः उद्वेगं प्राप्तः अत एव विचेतन आसं लालप्यत इति पाठे तु यङन्ताच्छता आर्षः इति भट्टाः । “लालपतः” इति भूषणपाठः ॥ २।६३।३४ ॥

तमिति । तम् ऋषिणाधिष्ठितं देशमागम्य दीनसत्त्वः क्षीणबलः अत एव सुदुर्मनाः अहं अवकीर्णजटाभारमवकीर्णः शिथिलीभूतो जटाभारो यस्य तं प्रविद्धं विभिन्नं कलशोदकमुदककलशो यस्य तं पांशुशोणिताभ्यां दिग्धं व्याप्तमङ्गं यस्य तमिषुणा हतमत एव शल्यपीडितं विद्धबाणजनितपीडाविशिष्टमत एव शयानं भुवि पतितं तापसमपश्यम् । अर्धचतुष्टयमेकान्वयि ॥ २।६३।३५,३६ ॥

स इति । स तापसः त्रस्तं भीतिविशिष्टमत एव अस्वस्थचेतनं मां समुद्धीक्ष्य तेजसा दिधक्षन् दग्धुमिच्छन्निव क्रूरं प्रातिभासिकक्रूरत्वविशिष्टमितीदं वच उवाच ॥ २।६३।३७ ॥

वचनाकारमाह– किमिति । हे राजन् मया किं तवापकृतं येनापकारेण गुर्वर्थं मातापितृक्रियानिर्वाहार्थमम्भो जलं जिहीर्षुराहर्तुमिच्छुरहं त्वया ताडितः ॥ २।६३।३८ ॥

एकेनेति । एकेन बाणेन मर्मणि मर्मस्थले मयि अभिहते सति मे जनयिता जनकः माता चेमौ द्वौ अन्धावपि निहतौ रक्षकाभावेन निहतप्रायौ ॥ २।६३।३९ ॥

ताविति । पिपासितौ पातुमिच्छू अत एव मत्प्रतीक्षौ मत्कर्मकप्रतीक्षावन्तौ तौ मातापितरौ कष्टां कष्टसपादिकां तृष्णां पिपासाहेतुकां चिरं कृतां बहुकालतो निष्पन्नामाशां मदानीतजलविषयकोत्कटेच्छां सन्धारयिष्यतः ॥ २।६३।४० ॥

नेति । तपसः मदाचरितशुभकर्मणः श्रुतस्य मच्छ्रवणविषयीभूतेतिहासपुराणादेर्वा फलयोगः फलसम्बन्धः मयि नास्ति यद्यस्माद्धेतोः पतितं बाणेन पातितमत एव भुवि शयानं मां न जानीते । एतेन तज्ज्ञाने यथाकथञ्चिद्दुःखनिवृत्तिः स्यादिति सम्भावना सूचिता ॥ २।६३।४१ ॥

दुःखनिवर्तनस्याशक्यत्वादाह– जानन्निति । अपरिक्रमः पङ्गुत्वेन सञ्चाररहितः अत एव अशक्तः पिता जानन्नपि किं कुर्यात् न किमपीत्यर्थः । अकरणे दृष्टान्तः भिद्यमानं नगं वृक्षं त्रातुमशक्तिः अन्यो नग इव ॥ २।६३।४२ ॥

राजकर्तव्यं बोधयन्नाह– पितुरिति । आचक्ष्व मद्वृत्तान्तं कथय । अर्धं पृथक् ॥ २।६३।४३ ॥

तं शापभीतमवलोक्याह– नेति । एधितः प्रवृद्धः अग्निर्वनमिव क्रुद्धो मत्पिता त्वां न दहेत् तेन पितुरतिशान्तिमत्वं ध्वनितम् । आश्रमप्रापकमार्गं बोधयन्नाह– इदमेकपदी मार्गः यतो यया आश्रमः प्राप्यते इति शेषः । तेनानयैव गच्छेति सूचितम् । “वर्त्मन्येकपदीति च” इत्यमरः ॥ २।६३।४४ ॥

तमिति । प्रसादय प्रसन्नं कुरु यतः सङ्कुपितः पिता न शपेत् । अर्धं पृथक्– विशल्यमिति । हे राजन् विशल्यं विद्धबाणरहितं कुरु तत्र हेतुः शरः मे मर्म मर्मस्थलं रुणद्धि पीडयति तत्र दृष्टान्तः मृदुवालुकामयत्वेनातिकोमलं सोत्सेधमुन्नतत्वविशिष्टं तीरमम्बुरयः गङ्गाप्रवाहवेगो यथा । अर्धद्वयमेकान्वयि ॥ २।६३।४५ ॥

तपस्विवचनश्रवणानन्तरकालिकं राजवृत्तमाह– सेति । सशल्यः बाणसहितो ऽयं प्राणैः क्लिश्यते विशल्यश्चेद्विनशिष्यति विनङ्क्ष्यति इति चिन्ता शल्यापकर्षणे मामविशत् ॥ २।६३।४६ ॥

दुःखितस्येति । शोकातुरस्य मे चिन्तां स ऋषिर्ज्ञानी मुनिसुतः लक्षयामास अत एव ताम्यमानं मां कृच्छ्रादुवाच । सार्धश्लोक एकान्वयी ॥ २।६३।४७,४८ ॥

वचनाकारमाह– सीदमान इति । सीदमानः क्लेशं प्राप्तः तत्र हेतुः विवृत्ताङ्गः विपरिणतनेत्रादिविशिष्टः अत एव अचेष्टमानः कायव्यापाररहितः अत एव क्षयं विनाशं गतः प्राप्तो ऽहं धैर्येण शोकं संस्तभ्य निरुध्य स्थिरचित्तो भवामि ॥ २।६३।४९ ॥

ब्रह्महत्येति । हे राजन् ब्रह्महत्याकृतं ब्राह्मणहननजनितं पापं हृदयात्स्वान्तःकरणादपनीयतां निःसार्य तां ब्रह्महत्यादोषो मां प्राप्तः इति स्वनिश्चयस्त्यज्यतामित्यर्थः । ननु कथं त्याग इत्यत आह– अहं द्विजातिर्न अतस्ते मनसो व्यथा दुःखं मास्तु ॥ २।६३।५० ॥

ननु को ऽसीत्यत आह– शूद्रायामिति । वैश्येन शूद्रायामहं जातो ऽस्मि तेन करणो ऽस्मीति सूचितं कृच्छ्रादितीव अतीव वदतः विघूर्णतः लुण्ठतः अत एव विचेष्टस्य उचितव्यापाररहितस्य आतम्यमानस्य अतिग्लानिं प्राप्नुवतस्तस्य मुनिसुतस्य बाणमुद्धरं आगमशास्त्रानित्यत्वादडभावः । “शूद्राविशोस्तु करणः” इत्यमरः । श्लोकद्वयमेकान्वयि ॥ २।६३।५१,५२ ॥

स इति । सन्त्रस्तः मातापित्रोर्निर्वाहः कथं भविष्यतीतिसम्भावनाहेतुकसन्त्रासविशिष्टः स तपोधनः मामुद्वीक्ष्य प्राणाञ्जहौ । अर्धं पृथक् ॥ २।६३।५३ ॥

जलार्द्रेति । सरय्वां शयानमत एव जलार्द्रगात्रं सरयूजलक्लिन्नशरीरं मर्मव्रणं मर्मसु व्रणं यस्य तमत एव कृच्छ्रं यथा स्यात्तथा विलप्य विविधमुक्त्वा उच्छ्वसन्तं तं तपस्विनं समीक्ष्य सुभृशम् अतीव विषण्णः दुःखी आसमिति शेषः ॥ २।६३।५४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रिषष्टितमः सर्गः ॥ २।६३ ॥