राजवृत्तं बोधयन्नाह– एवमिति । क्रुद्धया प्रातिभासिकक्रोधविशिष्टया राममात्रा परुषं कठिनत्वेन प्रतीयमानं वाक्यं श्रावितो राजा चिन्तयामास ॥ २।६२।१ ॥
चिन्तयित्वेति । मोहव्याकुलितेन्िद्रयो राजा दीर्घेण अनल्पेन कालेन सञ्ज्ञां बहिःपदार्थविषयकज्ञानमाप ॥ २।६२।२ ॥
स इति । उपलभ्य प्राप्य पार्श्वतः पार्श्वे कौशल्यां दृष्ट्वा चिन्तामुपागमत् ॥ २।६२।३ ॥
तस्येति । चिन्तयमानस्य तस्य राज्ञः अज्ञानादयं क्रूरमृगभिन्न इति ज्ञानाभावाच्छब्दवेधिना शब्दमेव लक्षीकृत्य विध्यतीति शब्दवेधी तेन बाणेन करणेन यदानेन राज्ञा दुष्कृतं कर्म कृतं तत्कर्म प्रत्यभाद्बुद्धिविषयत्वमगच्छत् ॥ २।६२।४ ॥
दुष्कृतस्वरूपं तु स्वयमेव वक्ष्यति– अमना इति । तेन स्मृतिविषयीभूतदुष्कृतजनितेन शोकेन रामशोकेन च महाराजः अमनाः दुर्मना अभवदिति शेषः । अत एव द्वाभ्यां शोकाभ्यामभितप्यते अभ्यतप्यत ॥ २।६२।५ ॥
दह्यमान इति । प्रसादार्थं कौशल्याप्रीत्यर्थमञ्जलिं कृत्वा अवाङ्मुखः उदासीनमुखदर्शनसहनासमर्थत्वेन अवनतमुखः अत एव वेपमानो राजा कौशल्यामाह ॥ २।६२।६ ॥
वचनाकारमाह– प्रसादय इति । यतः परेषु शत्रुष्वपि त्वं वत्सला अत एव अनृशंसा क्रूरतारहिता त्वमसि अतस्त्वां प्रसादये ॥ २।६२।७ ॥
भर्तेति । धर्मं विमृशमानानां विचारयन्तीनां नारीणां गुणवान्निर्गुणो वा भर्ता दैवतं देवता तासां पतिभिन्नं दैवतं नास्तीत्यर्थः ॥ २।६२।८ ॥
सेति । सा ज्ञातसकलधर्मतत्त्वा अत एव धर्मपरा अत एव दृष्टलोकपरावरा दृष्टौ निश्चितौ लोकपरावरौ जनानामुत्तममध्यमत्वे यया सा त्वं दुःखितापि प्रियं भर्तारं विप्रियं वक्तुं नार्हसे अर्हसि ॥ २।६२।९ ॥
तदिति । तत्करुणं वाक्यं श्रुत्वा बाष्पमश्रु व्यसृजत् । तत्र दृष्टान्तः प्रणाली प्रासादादिषु निर्मितजलनिर्गममार्गः नवादेकं वृष्टिजलमिव “द्वयोः प्रणाली पयसः पदव्याम्” इत्यमरः ॥ २।६२।१० ॥
सेति । रुदती त्रस्ता पतिविषयकस्वापराधहेतुकत्रासविशिष्टा सा कौशल्या राज्ञः अञ्जलिं बद्धयुगलकरं पद्ममिव मूर्ध्नि स्वशिरसि बद्धा धृत्वा सम्भ्रमादत्यादरात्त्वरमाणं अतिवेगविशिष्टमक्षरं यस्मिंस्तद्वचः अब्रवीत् ॥ २।६२।११ ॥
वचनाकारमाह– प्रसीदेति । ते अग्रे भूमौ निपतिता कृतप्रणामास्मि हे देव हता पुत्रवियोगपीडिता ऽहं त्वया न हन्तव्या स्वदैन्यवचनोक्त्या न पीडयितव्या इत्यहं याचिता याचनकर्त्री पूर्वं कर्माविवक्षया कर्तरि निष्ठा । “क्षन्तव्याहं नहि त्वया” इति भट्टपाठस्तत्र त्वयाहं न हता पीडिता किन्तु मन्थरया पीडितेत्यर्थः ॥ २।६२।१२ ॥
नेति । उभयोर्लोकयोः श्लाघनीयेन पत्या या स्त्री सम्प्रसाद्यते सा स्त्री लोके नास्ति । एतेन स्वभाग्यवत्तातिशयः सूचितः ॥ २।६२।१३ ॥
जानामीति । हे धर्मज्ञ धर्मं पतिः परुषं न वक्तव्यं इत्यादिरीतिं जानामि त्वां सत्यवादिनं च जाने । तथापि पुत्रशोकार्तया मया तत्परुषाभासं किमपि भाषितम् । तुस्तथाप्यर्थे ॥ २।६२।१४ ॥
शोकस्याकार्यकारित्वं बोधयन्ती आह– शोक इति । श्रुतं शास्त्रश्रवणजनितनिश्चितधर्ममतः सर्वं यश आदिकं नाशयते ॥ २।६२।१५ ॥
शक्यमिति । रिपुहस्ततः आपतितः प्रहारः आयुधादिः सोढुं शक्यं आपतितः विधिवशात्प्राप्तः
सुसूक्ष्मो ऽपि शोकः सोढुं न शक्यते शक्यमिति सामान्ये नपुंसकम् ॥ २।६२।१६ ॥
शोकस्य चिरकालस्थायित्वं बोधयन्ती आह– वनेति । वनवासाय गतस्य रामस्य अद्य इदानीं यः पञ्चरात्रो गतः सः पञ्चरात्रः शोकहतहर्षाया मम अत्रास्मिन्समये पञ्चवर्षोपमो गण्यते ज्ञायते ॥ २।६२।१७ ॥
तमिति । तं रामं चिन्तयमानायाः मे अयं शोकः हृद्येव वर्धते न बहिर्गच्छतीत्यर्थः । तत्र दृष्टान्तः नदीनां वेगेन महत्समुद्रसलिलमिव एतेन शोकस्य स्थिरत्वं ध्वनितम् ॥ २।६२।१८ ॥
एवमिति । कौशल्याया एवमनेन प्रकारेण कथयन्त्याः सत्याः सूर्यो मन्दरश्मिरभूदत एव रजनी रात्रिः अभ्यवर्तत ॥ २।६२।१९ ॥
अथेति । शोकेन समाक्रान्तः कौशल्यया प्रह्लादितो नृपः, निद्राया वशमेयिवान्प्राप्तः ॥ २।६२।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्विषष्टितमः सर्गः ॥ २।६२ ॥