०६१ कौसल्याकृतदशरथनिन्दा

राजानं प्रति कौशल्योक्तिं वर्णयितुमाह– वनमिति । रमयतां वरे रामे वनं गते सति रुदती कौशल्या भर्तारमब्रवीत् ॥ २।६१।१ ॥

तद्वचनाकारमाह– यद्यपीति । सानुक्रोशो ऽतिदयावान् वदान्यो ऽतिवक्ता प्रियवादी प्रीत्युत्पादकवचनवान् राघवो दशरथो ऽस्तीति ते महद्यशः यद्यपि त्रिषु लोकेषु विदितं तथापि सीतया सह तौ पुत्रौ कथमत्यज इति शेषः । अनुचितं कृतमिति तात्पर्यम् । त्यागे दोषमाह– सुखसंवृद्धौ रामलक्ष्मणौ दुःखितौ प्राप्तपित्रादिवियोगजनितदुःखविशिष्टौ सन्तौ दुःखं वनवासजनितखेदं कथं सहिष्यतः । एतेनायं त्यागस्तव यशोदूषक इव प्रतिभातीति ध्वनितम् । श्लोकद्वयमेकान्वयि ॥ २।६१।२,३ ॥

सेति । श्यामाषोडशवर्षपरिमितात्वेन प्रतीयमाना मैथिली उष्णादिकं कथं विसहिष्यते ॥ २।६१।४ ॥

भुक्त्वेति । सूपदंशं शोभनव्यञ्जनयुक्तमशनं भोज्यपदार्थं भुक्त्वा नैवारं नीवारसम्बन्धि वन्यमाहारं कथमुपभोक्ष्यते ॥ २।६१।५ ॥

गीतेति । गीतादिकं श्रुत्वा क्रव्यादसिंहानां मांसमात्रभक्षककेसरिणामशोभनं शब्दं कथं श्रोष्यति ॥ २।६१।६ ॥

महेन्द्रेति । महेन्द्रध्वजसङ्काशः सर्वोत्सवदातृत्वेन महेन्द्रध्वजसदृशः महाभुजो रामः परिघसकाशं भुजमुपधाय उपबर्हणत्वेन निधाय क्व शेते ॥ २।६१।७ ॥

पद्मेति । पद्मवर्णं पद्मवद्वर्ण्यते कविभिर्गीयते यत् सुकेशान्तं सुकेशपर्यन्तं पद्मनिःश्वासं पद्मसुगन्धसदृशसुगन्धविशिष्टनिःश्वासविशिष्टं पुष्करेक्षणं कमलसदृशनेत्रविशिष्टं रामस्य वदनं मुखं कदा द्रक्ष्यामि ॥ २।६१।८ ॥

वज्रसारेति । तं तादृशवदनवन्तं रामं अपश्यन्त्या मम यद्धृदयं सहस्रधा न फलति भिद्यते तद्धृदयं वज्रसारमयमुत्तमवज्रकाठिन्यसदृशकाठिन्यविशिष्टमस्तीति शेषः ॥ २।६१।९ ॥

यदिति । यद्यस्मात्करुणं सदयं कर्म प्रव्राजनाभावसम्पादकं व्यापारं व्यपोह्य सन्त्यज्य सुखार्हा मम बान्धवाः अतिप्रीतिविषयीभूता रामादयः निरस्ताः प्रव्राजितास्तस्माद्धेतोः कृपणाः सन्तो वने परिधावन्ति ॥ २।६१।१० ॥

यदीति । पञ्चदशे वर्षे च चतुर्दशवर्षान्ते इत्यर्थः । यदि राघवः पुनर्नैष्यति आयाता तर्हि भरतोपि राज्यं कोशं च जह्यात्त्यक्तेत्यर्थ इत्युपलक्ष्यते अनुमीयते ॥ २।६१।११ ॥

चतुर्दशवर्षान्ते आगतो ऽपि रामः चतुर्दशवर्षपर्यन्तं भरतस्य राज्यस्वामित्वाभिमानित्वे पश्चात्त्यक्तमपि राज्यं न ग्रहीष्यतीति बोधयन्ती आह– भोजयन्तीति । ये केचित्पुरुषाः श्राद्धे स्वान् स्वकीयान् बान्धवाञ्जामात्रादीनेव अधिकदक्षिणादानादिहेतुना पूर्वं भोजयन्ति ततः पश्चात्कृतकार्याः निष्पादितश्राद्धप्रयोजनाः सन्तो ऽपि द्विजोत्तमान्निमन्त्रितब्राह्मणान्समीक्षन्ते भोजनार्थं प्रतीक्षन्ते तत्र तात्कालिकप्रतीक्षणसमये ये गुणवन्तो विद्वांसः अत एव सुरोपमा देवतुल्याः द्विजातयः ते पश्चाद्भोज्यं सुधामपि अमृतवत्स्वाद्वपि पायसादिकं नाभिमन्यन्ते स्वीकुर्वन्ति श्लोकद्वयमेकान्वयि ॥ २।६१।१२,१३ ॥

ननु शूद्रशेषभोजनस्य निषिध्यत्वेपि ब्राह्मणशेषभोजनस्य निषेधाभावात्कुतो न स्वीकुर्वन्तीत्यत आह– ब्राह्मणेष्विति । ब्राह्मणेष्वपि वृत्तेषु पूर्वं भुक्तेषु सत्सु द्विजोत्तमाः भुक्तशेषमन्नमभ्युपेतुं स्वीकर्तुं नालं समर्थाः । एतेन निष्कारणकपश्चाद्भोजने अत्याज्यमानभङ्गः स्यादिति हेतुः सूचितः । मानस्यात्याज्यत्वे दृष्टान्तः ऋषभाः आत्मानः श्रृङ्गच्छेदमिव श्रृङ्गच्छेदे हि तेषां मानभङ्गः इति

प्रसिद्धं यद्वा भुक्तशेषं भुक्तशेषभोजनं श्रृङ्गच्छेदमिव मानध्वंसकत्वेन प्रभुत्वविघातकमेव इति हेतोः ऋषभाः जात्यादिना श्रेष्ठाः प्राज्ञाः द्विजोत्तमाः अभ्युपेतुमङ्गीकर्तुन्नालं न समर्थाः श्रृङ्गं प्रभुत्वे शिखरे चित्रे क्रीडाम्बुयन्त्रके इति मेदिनी ॥ २।६१।१४ ॥

दृष्टान्तमुक्त्वा दार्ष्टान्तिके नियोजयन्ति– एवमिति । एवमनेन प्रकारेण कनीयसा कनिष्ठेन भुक्तं राज्यं ज्येष्ठो वरिष्ठो रामः किमर्थं कुतः नावमन्यते तिरस्करिष्यति तिरस्करिष्यत्येवेत्यर्थः ॥ २।६१।१५ ॥

पुनः सदृष्टान्तं तदेवाह– न परेणेति । परेणस्वातिरिक्तेनाहृतं स्वीकृतं भक्ष्यं व्याघ्रः खादितुं नेच्छति । एवं नरव्याघ्रः रामो ऽपि परालीढं स्वकीयत्वेन भरतस्वीकृतं न मन्यते मन्ता ॥ २।६१।१६ ॥

हविरिति । यातयामानि अध्वरान्तरविनियुक्तत्वेन परिभुक्तानि एतानि हविरादीनि अध्वरे प्रकृतयागे न कुर्वन्ति नियोजयन्ति तत्र खादिराः खदिरादिनिर्मिता यूपा यागस्तम्भाः “जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्” इत्यमरः । न च मन्त्राः कृष्णाजिना दर्भा इत्यादिस्मृत्या कुशानां यातयामत्वदोषास्पर्शित्वादत्र कुशोक्तिर्विरुद्धेति वाच्यं स्मृतेर्जीर्णत्वरूपयातयामत्वदोषाभावपरत्वादत एव “ब्रह्मयज्ञेषु ये दर्भा विनियुक्ता न ते ऽन्यतः” इति स्मृत्यन्तरं सङ्गच्छते ॥ २।६१।१७ ॥

तथेति । तथा तेन प्रकारणे आत्तं भरतेनोपभुक्तमिदं राज्यं हृतसारां हृतः सारांशो यस्यास्तां सुरामिव आध्वरमध्वरसम्बन्धि नष्टसोममुपभुक्तसोममिव अभिमन्तुं स्वीकर्तुं रामो नालम् ॥ २।६१।१८ ॥

नैवमिति । एवंविधमसत्कारं भवत्कर्तृकसत्काराभावं राधवो न मर्षयिष्यति असत्कारेण दत्तं राज्यं न स्वीकरिष्यतीत्यर्थः । मर्षणाभावे दृष्टान्तः बालधेः पुच्छस्य अभिमर्शनं स्पर्शं बलवाञ्छार्दूल इव ॥ २।६१।१९ ॥

एतद्राज्यस्वीकाराभावे ऽपि तस्य न काचित्क्षतिरिति बोधयन्ती आह– नैतस्येति । सहिताः हिताः पालकास्तैः सहिताः लोकाः सर्वभुवनवर्तिसुरासुराः मृधे सङ्ग्रामे एतस्य रामस्य भयं न कुर्युः अत एव इहात्त्मिन्काले ऽपि धर्मात्मा रामः अधर्मं लोकं जनं धर्मेण योजयेत् योजयिष्यति । एतेन सर्वनियमनसमर्थस्य साक्षाद्राज्यशासने न किञ्चित्प्रयोजनमिति ध्वनितम् ॥ २।६१।२० ॥

तत्सामर्थ्यमेव भङ्ग्यन्तरेणाह– नन्विति । नन्विच्छायां सत्यां महावीर्यो ऽसौ रामः काञ्चनैः काञ्चनभूषितपुङ्खविशिष्टैः बाणैः युगान्ते प्रलयकाले इव भूतानि सागरानपि निर्दहेत् ॥ २।६१।२१ ॥

स इति । तादृशः अतिप्रभावविशिष्टः सः रामः पित्रा त्वया स्वयमेव हतः ऐश्वर्यशोभायास्त्याजितः । तत्र दृष्टान्तः जलजेन कमलेन आत्मजः आत्मनः स्वस्य जो जनिर्यस्मात्सजलपदार्थो यथा यथा स्वशोभासम्पादकजलशोभां स्वातिप्रसृत्या जलजं निवारयति तथा स्वस्वातन्त्र्येण स्वशोभाजनकीभूतपुत्रशोभां भवान्निवारितवानित्यर्थः । “जो ना मृत्युञ्जये जन्ये” इति मेदिनी । ममैवाधिकः खेद इति बोधयन्ती आह द्विजातीति । यद्यः सनातनैः ऋषिभिः शास्त्रस्मृत्यादौ धर्मः द्विजातिचरितः त्रिवर्णाधिकृतः दृष्टो बोधितस्तेन धर्मेणोपलक्षिताहं धर्मनिरते पुत्रे त्वया विवासिते सति त्वया हता धर्मरहिता कृता अतः वनं गन्तुमिच्छामि धर्मरहितत्वे हेतुः पतिरेव नार्या एका गतिः धर्मरक्षकः द्वितीया गतिरात्मजः तृतीया ज्ञातयस्तत्र तेषु मध्ये त्वं मदग्रे नैवासि मूर्छितो ऽसीत्यर्थः । रामः वनमाहितः प्राप्तः अतो न सोपी ऽह नास्ति चकारेणात एव ज्ञातयो विनष्टाः । एतेन मम धर्मनिर्वाहकः कश्चिन्नास्तीति सूचितम् । श्लोकद्वयमेकान्वयि । इतिर्हेत्वर्थे ऽव्ययं यदिति सामान्ये नपुंसकम् ॥ २।६१।२२२५ ॥

उपसंहरन्ती आह–हतमिति । सराज्यं अन्तरङ्गराज्यसहितं राष्ट्रं बहिरङ्गराज्यं त्वया हतं विनाशितमत एव मन्त्रिभिः सह सर्वाः प्रजा हताः अत एव सपुत्राहं हतास्मि अत एव पौरा हताः । ननु सर्वेषां विद्यमानत्वात्कथमिदमुच्यते इत्यत आह तव प्रहृष्टौ त्वन्निष्ठहर्षे एव सुतो रामादिरस्ति भार्या अस्मदादिरप्यस्ति चकारेण राष्ट्रादयो ऽपि सन्ति अन्यथा सर्वेषां विनाश इत्यर्थः ॥ २।६१।२६ ॥

इममिति । दारुणशब्दसंहितां प्रातिभासिककठिनत्वविशिष्टशब्दविशिष्टामिमां कौशल्योक्तां गिरं निशम्य मामेति कृत्वा मुमोह ततो मोहानन्तरं दुःखितः पार्थिवः स्वदुष्कृतं स्वकीयाया दुष्कृतमकालिकवरयाचनं स्मरन्सन् शोकं प्रविवेश ॥ २।६१।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकषष्टितमः सर्गः ॥ २।६१ ॥