कौशल्यावृत्तान्तं वर्णयन्नाह– तत इति । भूतोपसृष्टा भूतेन गृहीतेव पुनः पुनर्वेपमाना गतसत्वेव धरण्यां पतिता कौशल्या सूतमब्रवीत् ॥ २।६०।१ ॥
तद्वचनस्वरूपमाह– नयेति । काकुत्स्थो रामः यत्रास्ति तत्र मां नय तान् विना जीवितुं स्थातुं नोत्सहे ॥ २।६१।२ ॥
निवर्तयेति । रथं शीघ्रं निवर्तय रामसम्मुखं कुरु अथ यदि तान् रामादीन्नानुगच्छामि तदा यमक्षयं कालागम्यं साकेतं गमिष्यामि ॥ २।६०।३ ॥
बाष्पेति । सज्जमानया रामसंलग्नया अत एव बाष्पवेगेन उपहतया स्खलन्त्या वाचा देवीमाश्वासयन्निदमब्रवीत् ॥ २।६०।४ ॥
तद्वचनस्वरूपमाह– त्यजेति । दुःखजं सम्भ्रमं च त्यज तत्र हेतुः सन्तापं प्रातिभासिकमात्रादिवियोगजनितदुःखं व्यवधूय दूरीकृत्य राघवो वने वत्स्यति ॥ २।६०।५ ॥
लक्ष्मण इति । रामस्य पादौ परिचरन्स परलोकं परः सर्वोत्कृष्टः यो लोको जनः तं परमपुरुषमित्यर्थः । किञ्च परः सर्वोत्कृष्टः लोक्यते दृश्यते असौ स तं किंच परः सर्वोत्कृष्टः लोको यस्य स तं साकेताधीशमित्यर्थः । आराधयति निषेवते ॥ २।६०।६ ॥
विजने इति । वने ऽपि वा सम्प्राप्य रामे विन्यस्तमानसा अत एव अभीता सीता गृहेष्विव विश्रम्भं प्रणयं लभते “विश्रम्भः प्रणये ऽपि च” इत्यमरः ॥ २।६०।७ ॥
नेति । अस्याः सीतायाः कृतं सुसूक्ष्ममपि किञ्चिद्दैन्यं न लक्ष्यते अत एव प्रवासानामुचिता योग्या प्रतिभात्येव । इव एवार्थे ॥ २।६०।८ ॥
नगरेति । पुरा पूर्वं नगरोपवने गत्वा यथा रमते स्म तथैव निर्जनेष्वपि वनेषु रमते ॥ २।६०।९ ॥
तदेव भङ्ग्यन्तरेणाह– बालेति । अबालचन्द्रनिभानना अबालचन्द्रः पूर्णचन्द्रस्तत्सदृशाननविशिष्टा किञ्चाबालचन्द्रं निभाति प्रकाशयति तदाननं यस्याः सा रामा सीता रामे रामसमीपे बालेव रमते ॥ २।६०।१० ॥
तदिति । यस्याः सीतायाः हृदयं तद्गतं नित्यं रामं प्राप्तमत एव यस्याः जीवितं तदधीनं रामायत्तं तस्याः अस्याः सीतायाः रामहीना अयोध्या यथा वनं तथा भवेत् । एतेन सीतासुखे रामसन्निधिरेव कारणमिति ध्वनितं तेन सीताया अतिसुखात्वं व्यञ्जितम् ॥ २।६०।११ ॥
वैदेहीसुखज्ञापकचिह्नानि वदन्नाह– परीति । वैदेही विदेहकुलप्रादुर्भूता जानकी रामं लक्ष्मणं वा ग्रामादीन् परिपृच्छति नदीनां गतिं विलक्षणगमनं च दृष्ट्वा परिपृच्छति पृष्ट्वा जानाति तत्कथनेन निश्चिनोति अतः अयोध्याक्रोशमात्रे एव विद्यमानं विहारं विहरणोपवनमिव संश्रिता सम्प्राप्ता विहारशब्दो ऽधिकरणघञन्तः । श्लोकद्वयमेकान्वयि एवार्थे ॥ २।६०।१२,१३ ॥
इदमिति । अस्याः सीताया इदं रामसंयोगजनितसुखसूचकाचरणमेव स्मरामि अत एव जल्पितं तदेव कथितमत एव कैकेयीसंश्रितं कैकेय्युद्देश्यकमुपजल्पितं मन्थरया प्रदर्शितं जल्पमनेकविधवचनं मां न प्रतिभाति । एतेन सीतासुखदर्शनेनास्माकं सर्वं दुःखं प्रनष्टमिति व्यञ्जितं तेन भवत्यापि सीतासुखमन्तरान्यन्न स्मर्तव्यमिति सूचितम् ॥ ६०।१४ ॥
ध्वंसयित्वेति । प्रमादाद्रामवियोगजनितग्लानेः पर्युपस्थितं संस्मृतं तत्प्रव्रजनबोधकं वाक्यं मन्थरासम्मतिजनितकेकयीवचनं ध्वंसयित्वा सीतासुखस्मारणेन विस्मार्य देव्याः कौशल्याया ह्लादनं सुखप्रापकं मधुरवचनं सूतो ऽब्रवीत् ॥ २।६०।१५ ॥
तद्वचनस्वरूपमाह– अध्वनेति । अध्वना अध्वगमनजनितश्रमेण वातवेगेन अतिवायुप्रवाहेण च
सम्भ्रमेण भयहेतुभूतव्याघ्रादिदर्शनेन च आतपेन धर्मेण च वैदेह्याः प्रभा न विगच्छति परिणामं प्राप्नोति ॥ २।६०।१६ ॥
सदृशमिति । शतपत्रस्य कमलस्य सदृशं सदृशत्वेन प्रतीयमानं पूर्णचन्द्रेण उपमा उपमेया प्रभा यस्य तद्वदान्याया मधुरवचनशीलायाः वैदेह्याः वदनं मुखं न विकम्पते कदाचिदपि परिणतिं न प्राप्नोतीत्यर्थः । उपमाशब्दः कर्मप्रत्ययान्तः । “वदान्यो वल्गुवागपि” इत्यमरः ॥ २।६०।१७ ॥
अलक्तेति । अलक्तरसेन वर्जितौ रहितावपि तस्याः चरणौ अलक्तरसरक्ताभौ अलक्तरसरक्ताभसदृशाभाविशिष्टौ अ़द्यापि पादचारेण वनगमने ऽपि दृश्येते इति शेषः ॥ २।६०।१८ ॥
नूपुरेति । तस्मिन् रामे यो रागो ऽत्यनुरागस्तेन अन्यस्तानि अपरित्यक्तानि भूषणानि यया सा अत एव नूपुरोत्कृष्टलीला नूपुराभ्यामुत्कृष्टा हंसादिलीलातिरस्कारिकात्वेनातिश्रेष्ठा लीला यस्याः सा भामिनी वैदेही खेलं सविलासमेव यथा स्यात्तथा इदानीं वनाध्वन्यपि गच्छति “उद्धृष्टहेलेव” इति भूषणपाठः ॥ २।६०।१९ ॥
गजमिति । वनमाश्रिता प्राप्ता सीता रामस्य बाहू संश्रिता सती गजादिकं वीक्ष्य सन्त्रासं नाहारयति प्राप्नोति ॥ २।६०।२० ॥
नेति । हि सर्वेषां सुखित्वाद्धेतोः ते रामादयो न शोच्या अतस्ते आत्मा देहो ऽपि न शोच्यः अत एव जनाधिपो राजा ऽपि न शोच्यः एतेन त्वदादीनां तत्सुखसुखित्वमुचितमिति ध्वनितम् । रामसुखेहेतुमाह– इदं चरितं परमधर्महेतुकरामाचरणं शाश्वतं बहुकालं लोके सर्वभुवने प्रतिष्ठास्यति अतिप्रतिष्ठां प्राप्स्यतीत्यर्थः ॥ २।६०।२१ ॥
विधूयेति । शोकं पित्रादिवियोगजनितं विधूय त्यक्त्वा महर्षियाते महर्षिभिः सेविते पथि सुव्यवस्थिताः अत एव परिहृष्टमानसास्ते रामादयः पितुः शुभां प्रतिज्ञां प्रतिपालयन्ति ॥ २।६०।२२ ॥
तथेति । सुयुक्तवादिना न्याय्यकथनशीलेन सूतेन यद्यपि निवार्यमाणा देवी कौशल्या तथापि सुतशोककर्षिता सती प्रियेत्यादिकूजिताच्छब्दान्नैव विरराम ॥ २।६०।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षष्टितमः सर्गः ॥ २।६० ॥